सुश्रुतसंहिता · अध्याय 6.34
अथातः शीतपूतनाप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
कपित्थं सुवहां बिम्बीं तथा बिल्वं प्रचीबलम्।
नन्दीं भल्लातकं चापि परिषेके प्रयोजयेत्॥
बस्तमूत्रं गवां मूत्रं मुस्तं च सुरदारु च।
कुष्ठं च सर्वगन्धांश्च तैलार्थमवचारयेत्॥
रोहिणीसर्जखदिरपलाशककुभत्वचः।
निष्क्वाथ्य तस्मिन्निष्क्वाथे सक्षीरं विपचेद्घृतम्॥
गृध्रोलूकपुरीषाणि बस्तगन्धामहेस्त्वचः।
निम्बपत्राणि मधुकं धूपनार्थं प्रयोजयेत्॥
धारयेदपि लम्बां च गुञ्जां काकादनीं तथा।
नद्यां मुद्गकृतैश्चान्नैस्तर्पयेच्छीतपूतनाम्॥
देव्यै देयश्चोपहारो वारुणी रुधिरं तथा।
जलाशयान्ते बालस्य स्नपनं चोपदिश्यते॥
मुद्गौदनाशना देवी सुराशोणितपायिनी।
जलाशयालया देवी पातु त्वां शीतपूतना॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0