सुश्रुतसंहिता · अध्याय 6.33
अथातोऽन्धपूतनाप्रसिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
तिक्तकद्रुमपत्राणां कार्यः क्वाथोऽवसेचने।
सुरा सौवीरकं कुष्ठं हरितालं मनःशिला॥
तथा सर्जरसश्चैव तैलार्थमुपदिश्यते।
पिप्पल्यः पिप्पलीमूलं वर्गो मधुरको मधु॥
शालपार्णी बृहत्यौ च घृतार्थमुपदिश्यते।
सर्वगन्धैः प्रदेहश्च गात्रेष्वक्ष्णोश्च शीतलैः॥
पुरीषं कौक्कुटं केशांश्चर्म सर्पत्वचं तथा।
जीर्णां च भिक्षुसंघाटीं धूमनायोपकल्पयेत्॥
कुक्कुटीं मर्कटीं शिम्बीमनन्तां चापि धारयेत्।
मांसमामं तथा पक्वं शोणितं च चतुष्पथे॥
निवेद्यमन्तश्च गृहे शिशो रक्षानिमित्ततः।
शिशोश्च स्नपनं कुर्यात् सर्वगन्धोदकैः शुभैः॥
कराला पिङ्गला मुण्डा कषायाम्बरवासिनी।
देवी बालमिमं प्रीता संरक्षत्वन्धपूतना॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0