सुश्रुतसंहिता · अध्याय 6.30
अथातः शकुनीप्रतीषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
शकुन्यभिपरीतस्य कार्यो वैद्येन जानता।
वेतसाम्रकपित्थानां निष्क्वाथः परिषेचने॥
कषायमधुरैस्तैलं कार्यमभ्यञ्जने शिशोः।
मधुकोशीरह्रीबेरसारिवोत्पलपद्मकैः॥
रोध्रप्रियङ्गुमञ्जिष्ठागैरिकैः प्रदिहेच्छिशुम्।
व्रणेषूक्तानि चूर्णानि पथ्यानि विविधानि च॥
स्कन्दग्रहे धूपनानि तानीहापि प्रयोजयेत्।
शतावरीमृगैर्वारुनागदन्तीनिदिग्धिकाः॥
लक्ष्मणां सहदेवां च बृहतीं चापि धारयेत्।
तिलतण्डुलकं माल्यं हरितालं मनःशिला॥
बलिरेप करञ्जेषु निवेद्यो नियतात्मना।
निष्कुटे च प्रयोक्तव्यं स्नानमस्य यथाविधि॥
स्कन्दापस्मारशमनं घृतं चापीह पूजितम्।
कुर्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः॥
अन्तरीक्षचरा देवी सर्वालङ्कारभूषिता।
अयोमुखी तीक्ष्णतुण्डा शकुनी ते प्रसीदतु॥
दुर्दर्शना महाकाया पिङ्गाक्षी भैरवस्वरा।
लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0