सुश्रुतसंहिता · अध्याय 6.29
अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
बिल्वः शिरीषो गोलोमी सुरसादिश्च यो गणः।
परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये॥
सर्वगन्धविपक्वं तु तैलमभ्यञ्जने हितम्।
क्षीरवृक्षकषाये च काकोल्यादौ गणे तथा॥
विपक्तव्यं घृतं चापि पानीयं पयसा सह।
उत्सादनं वचाहिङ्गुयुक्तं स्कन्दग्रहे हितम्॥
गृध्रोलूकपुरीषाणि केशा हस्तिनखा घृतम्।
वृक्षभस्य च रोमाणि योज्यान्युद्धूपनेऽपि च॥
अनन्तां कुक्कुटीं बिम्बीं मर्कटीं चापि धारयेत्।
पक्वापक्वानि मांसानि प्रसन्ना रुधिरं पयः॥
भूतौदनो निवेद्यश्च स्कन्दापस्मारिणेऽवटे।
चतुष्पथे च कर्तव्यं स्नानमस्य यतात्मना॥
स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा।
विशाखसंज्ञश्च शिशोः शिवोऽस्तु विकृताननः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0