भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.31

6.31.1

अथातो रेवतीप्रतिषेधं व्याख्यास्यामः॥

6.31.2

यथोवाच भगवान् धन्वन्तरिः॥

6.31.3

अश्वगन्धा च शृङ्गी च सारिवा सपुनर्नवा।
सहे तथा विदारी च कषायाः सेचने हिताः॥

6.31.4

तैलमभ्यञ्जने कार्यं कुष्ठे सर्जरसेऽपि च।
पलङ्कषायां नलदे तथा गिरिकदम्बके॥

6.31.5

धवाश्वकर्णककुभधातकीतिन्दुकीषु च।
काकोल्यादिगणे चैव पानीयं सर्पिरिष्यते॥

6.31.6

कुलत्थाः शङ्खचूर्णं च प्रदेहः सार्वगन्धिकः।
गृध्रोलूकपुरीषाणि यवा यवफलो घृतम्॥

6.31.7

सन्ध्ययोरुभयोः कार्यमेतदुद्धूपनं शिशोः।
वरुणारिष्टकमयं रुचकं सैन्दुकं तथा॥

6.31.8

सततं धारयेच्चापि कृतं वा पौत्रजीविकम्।
शुक्लाः सुमनसो लाजाः पयः शाल्योदनं तथा॥

6.31.9

बलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना।
सङ्गमे च भिषक् स्नानं कुर्याद्धात्रीकुमारयोः॥

6.31.10

नानावस्त्रधरा देवी चित्रमाल्यानुलेपना।
चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु॥

6.31.11

उपासते यां सततं देव्यो विविधभूषणाः।
लम्बा कराला विनता तथैव बहुपुत्रिका।
रेवती शुष्कनामा या सा ते देवी प्रसीदतु॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc