सुश्रुतसंहिता · अध्याय 6.26
अथातः शिरोरोगप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
वातव्याधिविधिः कार्यः शिरोरोगेऽनिलात्मके।
पयोनुपानं सेवेत घृतं तैलमथापि वा॥
मुद्गान् कुलत्थान्माषांश्च खादेच्च निशि केवलान्।
कटूष्णांश्च ससर्पिष्कानुष्णं चानु पयः पिबेत्॥
पिबेद्वा पयसा तैलं तत्कल्कं वापि मानवः।
वातघ्नसिद्धैः क्षीरैश्च सुखोष्णैः सेकमाचरेत्॥
तत्सिद्धैः पायसैर्वापि सुखोष्णैर्लेपयेच्छिरः।
स्विन्नैर्वा मत्स्यपिशितैः कृशरैर्वा ससैन्धवैः॥
चन्दनोत्पलकुष्ठैर्वा सुश्लक्ष्णैर्मगधायुतैः।
स्निग्धस्य तैलं नस्यं स्यात् कुलीररससाधितम्॥
वरुणादौ गणे क्षुण्णे क्षीरमर्धोदकं पचेत्।
क्षीरशेषं च तन्मथ्यं शीतं सारमुपाहरेत्॥
ततो मधुरकैः सिद्धं नस्ये तत् पूजितं हविः।
तस्मिन् विपक्वे क्षीरे तु पेयं सर्पिः सशर्करम्॥
धूमं चास्य यथाकालं स्नैहिकं योजयेद्भिषक्।
पानाभ्यञ्जननस्येषु बसिकर्मणि सेचने॥
विदध्यात्त्रैवृतं धीमान् बलातैलमथापि वा।
भोजयेच्च रसैः स्निग्धैः पयोभिर्वा सुसंस्कृतैः॥
पित्तरक्तसमुत्थानौ शिरोरोगौ निवारयेत्।
शिरोलेपैः ससर्पिष्कैः परिषेकैश्च शीतलैः॥
क्षीरेक्षुरसधान्याम्लमस्तुक्षौद्रसिताजलैः।
नलवञ्जुलकह्लारचन्दनोत्पलपद्मकैः॥
वंशशैवलयष्ट्याह्वमुस्ताम्भोरुहसंयुतैः।
शिरःप्रलेपैः सघृतैर्वैसर्पैश्च तथाविधैः॥
मधुरैश्च मुखालैपैर्नस्यकर्मभिरेव च।
आस्थापनैर्विरेकैश्च पथ्यैश्च स्नेहबस्तिभिः॥
क्षीरसर्पिर्हितं नस्यं वसा वा जाङ्गला शुभा।
उत्पलादिविपक्वेन क्षीरेणास्थापनं हितम्॥
भोजनं जाङ्गलरसैः सर्पिषा चानुवासनम्।
मधुरैः क्षीरसर्पिस्तु स्नेहने च सशर्करम्॥
पित्तरक्तघ्नमुद्दिष्टं यच्चान्यदपि तद्धितम्।
कफोत्थितं शिरोरोगं जयेत् कफनिवारणैः॥
शिरोविरेकैर्वमनैस्तीक्ष्णैर्गण्डूषधारणैः।
अच्छं च पाययेत्सर्पिः स्वेदयेच्चाप्यभीक्ष्णशः॥
शिरो मधूकसारेण स्निग्धं चापि विरेचयेत्।
इङ्गुदस्य त्वचा वापि मेषशृङ्गस्य वा भिषक्॥
आभ्यामेव कृतां वर्तिं धूमपाने प्रयोजयेत्।
घ्रेयं कट्फलचूर्णं च कवलाश्च कफापहाः॥
सरलाकुष्ठशार्ङ्गेष्टादेवकाष्ठैः सरोहिषैः।
क्षारपिष्टैः सलवणैः सुखोष्णैर्लेपयेच्छिरः॥
यवषष्टिकयोश्चान्नं व्योषक्षारसमायुतम्।
पटोलमुद्गकौलत्थैर्मात्रावद्भोजयेद्रसैः॥
शिरोरोगे त्रिदोषोत्थे त्रिदोषघ्नो विधिर्हितः।
सर्पिःपानं विशेषेण पुराणं वा दिशन्ति हि॥
क्षयजे क्षयमासाद्य कर्तव्यो बृंहणो विधिः।
पाने नस्ये च सर्पिः स्याद्वातघ्नमधुरैः शृतम्॥
क्षयकासापहं चात्र सर्पिः पथ्यतमं विदुः।
कृमिभिर्भक्ष्यमाणस्य वक्ष्यते शिरसः क्रिया॥
नस्ये हि शोणितं दद्यात्तेन मूर्च्छन्ति जन्तवः।
मत्ताः शोणितगन्धेन समायान्ति यतस्ततः॥
तेषां निर्हरणं कार्यं ततो मूर्धविरेचनैः।
ह्रस्वशिग्रुकबीजैर्वा कांस्यनीलीसमायुतैः॥
कृमिघ्नैरवपीडैश्च मूत्रपिष्टैरुपाचरेत्।
पूतिमत्स्ययुतान् धूमान् कृमिघ्नांश्च प्रयोजयेत्॥
भोजनानि कृमिघ्नानि पानानि विविधानि च।
सूर्यावर्ते विधातव्यं नस्यकर्मादिभेषजम्॥
भोजनं जाङ्गलप्रायं क्षीरान्नविकृतिर्घृतम्।
तथार्धभेदके व्याधौ प्राप्तमन्यच्च यद्भवेत्॥
शिरीषमूलकफलैरवपीडोऽनयोर्हितः।
वंशमूलकफलैरवपीडोऽनयोर्हितः॥
अवपीडो हितश्चात्र वचामागधिकायुतः।
मधुकेनाव्पीडो वा मधुना सह संयुतः॥
मनःशिलावपीडो वा मधुना चन्दनेन वा।
तेषामन्ते हितं नस्यं सर्पिर्मधुरसान्वितम्॥
सारिवोत्पलकुष्ठानि मधुकं चाम्लपेषितम्।
सर्पिस्तैलयुतो लेपो द्वयोरपि सुखावहः॥
एष एव प्रयोक्तव्यः शिरोरोगे कफात्मके।
अनन्तवाते कर्तव्यः सूर्यावर्तहरो विधिः॥
सिराव्यधश्च कर्तव्योऽनन्तवातप्रशान्तये।
आहारश्च विधातव्यो वातपित्तविनाशनः॥
मधुमस्तकसंयावघृतपूरैश्च भोजनम्।
क्षीरसर्पिः प्रशंसन्ति नस्ये पाने च शङ्खके॥
जाङ्गलानां रसैः स्निग्धैराहारश्चात्र शस्यते।
शतावरीं तिलान् कृष्णान् मधुकं नीलमुत्पलम्॥
दूर्वां पुनर्नवां चैव लेपे साध्ववचारयेत्।
महासुगन्धामथवा पालिन्दीं चाम्लपेषिताम्॥
शीतांश्चात्र परीषेकान् प्रदेहांश्च प्रयोजयेत्।
अवपीडश्च देयोऽत्र सूर्यावर्तनिवारणः॥
कृमिक्षयकृतौ हित्वा शिरोरोगेषु बुद्धिमान्।
मधुतैलसमायुक्तैः शिरांस्यतिविरेचयेत्॥
पश्चात्सर्षपतैलेन ततो नस्यं प्रयोजयेत्।
न चेच्छान्तिं व्रजन्त्येवं स्निग्धस्विन्नांस्ततो भिषक्॥
पश्चादुपाचरेत्सम्यक् सिराणामथ मोक्षणैः।
षट्सप्ततिर्नेत्ररोगा दशाष्टादश कर्णजाः॥
एकत्रिंशद् घ्राणगताः शिरस्येकादशैव तु।
इति विस्तरतो दृष्टाः(दिष्टाः) सलक्षणचिकित्सिताः॥
एतावन्तो यथास्थूलमुत्तमाङ्गगता गदाः।
अस्मिञ्छास्त्रे निगदिताः सङ्ख्यारूपचिकित्सितैः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0