सुश्रुतसंहिता · अध्याय 6.27
अथातो नवग्रहाकृतिविज्ञानीयमध्यायं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
बालग्रहाणां विज्ञानं साधनं चाप्यनन्तरम्।
उत्पत्तिं कारणं चैव सुश्रुतैकमनाः शृणु॥
स्कन्दग्रहस्तु प्रथमः स्कन्दापस्मार एव च।
शकुनी रेवती चैव पूतना चान्धपूतना॥
पूतना शीतनामा च तथैव मुखमण्डिका।
नवमो नैगमेषश्च यः पितृग्रहसंज्ञितः॥
धात्रीमात्रोः प्राक्प्रदिष्टापचाराच्छौचभ्रष्टान्मङ्गलाचारहीनान्।
त्रस्तान् हृष्टांतर्जितान् ताडितान् वा पूजाहेतोर्हिंस्युरेते कुमारान्॥
ऐश्वर्यस्थास्ते न शक्या विशन्तो देहं द्रष्टुं मानुषैर्विश्वरूपाः।
आप्तं वाक्यं तत्समीक्ष्याभिधास्ये लिङ्गान्येषां यानि देहे भवन्ति॥
शूनाक्षः क्षतजसगन्धिकः स्तनद्विड् वक्रास्यो हतचलितैकपक्ष्मनेत्रः।
उद्विग्रः सुलुलितचक्षुरल्परोदी स्कन्दार्तो भवति च गाढमुष्टिवर्चाः॥
निःसंज्ञो भवति पुनर्भवेत्ससंज्ञः संरब्धः करचरणैश्च नृत्यतीव।
विण्मूत्रे सृजति विनद्य जृम्भमाणः फेनं च प्रसृजति तत्सखाभिपन्नः॥
स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः संस्राविव्रणपरिपीडितः समन्तात्।
स्फोटैश्च प्रचिततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या॥
रक्तास्यो हरितमलोऽतिपाण्डुदेहः श्यावो वा ज्वरमुखपाकवेदनातः।
रेवत्या वियथिततनुश्च कर्णनासं मृद्गाति ध्रुवमभिपीडितः कुमारः॥
स्रस्ताङ्गः स्वपिति सुखं दिवा न रात्रौ विड् भिन्नं सृजति च काकतुल्यगन्धिः।
छर्द्याआर्तो हृषिततनूरुहः कुमारस्तृष्णालुर्भवति च पूतनागृहीतः॥
यो द्वेष्टि स्तनमतिसारकासहिक्काच्छर्दीभिर्ज्वरसहिताभिरर्द्यमानः।
दुर्वर्णः सततमधःशयोऽम्लगन्धिस्तं ब्रूयुर्भिषज इहान्धपूतनार्तम्॥
उद्विग्रो भृशमतिवेपते प्ररुद्यात् संलीनः स्स्वपिति च यस्य चान्त्रकूजः।
विस्राङ्गो भृशमतिसार्यते च यस्तं जानीयाद्भिषगिह शीतपूतनार्तम्॥
म्लानाङ्गः सुरुचिरपाणिपादवक्त्रो बह्वाशी कलुषसिरावृतोदरो यः।
सोद्वेगो भवति च मूत्रतुल्यगन्धिः स ज्ञेयः शिशुरिह वक्त्रमण्डिकार्तः॥
यः फेनं वमति विनम्यते च मध्ये सोद्वेगं विलपति चोर्ध्वमीक्षमाणः।
ज्वर्येत प्रततमथो वसासगन्धिर्निःसंज्ञो भवति हि नैगमेषजुष्टः॥
प्रस्तब्धो यः स्तनद्वेषी मुह्यते चाविशन्मुहुः।
तं बालमचिराद्धन्ति ग्रहः संपूर्णलक्षणः॥
विपरीतमतः साध्यं चिकित्सेदचिरार्दितम्।
गृहे पुराणहविषाभ्यज्य बालं शुचौ शुचिः॥
सर्षपान् प्रकिरेत्तेषां तैलैर्दीपं च कारयेत्।
सदा सन्निहितं चापि जुहुयाद्धव्यवाहनम्॥
सर्वगन्धौषधीबीजैर्गन्धमाल्यैरलङ्कृतम्।
अग्न्ये कृत्तिकाभ्यश्च स्वाहा स्वाहेति संततम्॥
नमः स्कन्दाय देवाय ग्रहाधिपतये नमः।
शिरसा त्वाभिवन्देऽहं प्रतिगृह्णीष्व मे बलिम्।
नीरुजो निर्विकारश्च शिशुर्मे जायतां द्रुतम्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0