सुश्रुतसंहिता · अध्याय 6.25
अथातः शिरोरोगविज्ञानीयमध्यायं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
शिरो रुजति मर्त्यानां वातपित्तकफैस्त्रिभिः।
सन्निपातेन रक्तेन क्षयेण क्रिमिभिस्तथा॥
सूर्यावर्तानन्तवातार्धावभेदकशङ्खकैः।
एकादशप्रकारस्य लक्षणं संप्रवक्ष्यते॥
यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम्।
बन्धोपतापैश्च भवेद्विशेषः शिरोभितापः स समीरणेन॥
यस्योष्णमङ्गारचितं यथैव दह्येत धूप्येत शिरोक्सिनासम्।
शीतेन रात्रौ च भवेद्विशेषः शिरोभितापः स तु पित्तकोपात्॥
शिरोगलं यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमं च।
शूनाक्षिकूटं वदनं च यस्य शिरोभितापः स कफप्रकोपात्॥
शिरोभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति।
रक्तात्मकः पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च॥
वसाबलासक्षतस्ंभवानां शिरोगतानामिह संक्षयेण।
क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम्॥
संस्वेदनच्छर्दनधूमनस्यैरसृग्विमोक्षैश्च विवृद्धिमेति।
निस्तुद्यते यस्य शिरोऽतिमात्रं संभक्ष्यमाणं स्फुटतीव चान्तः॥
घ्राणाच्च गच्छेत्सलिलं सरक्तं शिरोभितापः कृमिभिः स घोरः।
सूर्योदयं या प्रति मन्दमन्दमक्षिभ्रुवं रुक् समुपैति गाढम्॥
विवर्धते चांशुमता सहैव सूर्यापवृत्तौ विनिवर्तते च।
शीतेन शान्तिं लभते कदाचिदुष्णेन जन्तुः सुखमाप्नुयाच्च॥
तं भास्करावर्तमुदाहरन्ति सर्वात्मकं कष्टतमं विकारम्।
दोषास्तु दुष्टास्त्रय एव मन्यां संपीड्य घाटासु रुजां सुतीव्राम्॥
कुर्वन्ति साक्षिभ्रुवि शङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु।
गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजांश्च रोगान्॥
अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम्।
यस्योत्तमाङ्गार्धमतीव जन्तोः संभेदतोदभ्रमशूलजुष्टम्॥
पक्षाद्दशाहादथवाप्यकस्मात्तस्यार्धमेदं त्रितयाद्व्यवस्येत्।
शङ्खाश्रितो वायुरुदीर्णवेगः कृतानुयात्रः कफपित्तरक्तैः॥
रुजः सुतीव्राः प्रतनोति मूर्ध्नि विशेषतश्चापि हि शङ्खयोस्तु।
सुकष्टमेनं खलु शङ्खकाख्यं महर्षयो वेदविदः पुराणाः॥
व्याधिं वदन्त्युद्गतमृत्युकल्पं भिषक्सहस्रैरपि दुर्निवारम्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0