भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.24

6.24.1

अथातः प्रतिश्यायप्रतिषेधं व्याख्यास्यामः॥

6.24.2

यथोवाच भगवान् धन्वन्तरिः॥

6.24.3

नारीप्रसङ्गः शिरसोऽभितापो धूमो रजः शीतमतिप्रतापः।
संधारणं मूत्रपुरीषयोश्च सद्यः प्रतिश्यायनिदानमुक्तम्॥

6.24.4

चयं गता मूर्धनि मारुतादयः पृथक् समस्ताश्च तथैव शोणितम्।
प्रकोप्यमाणा विविधैः प्रकोपणैर्नृणां प्रतिश्यायकरा भवन्ति हि॥

6.24.5

शिरोगुरुत्वं क्षवथोः प्रवर्तनं तथाङ्गमर्दः परिहृष्टरोमता।
उपद्रवाश्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः॥

6.24.6

आनद्धा पिहिता नासा तनुस्रावप्रवर्तिनी।
गलताल्वोष्ठशोषश्च निस्तोदः शङ्खयोस्तथा॥

6.24.7

स्वरोपघातश्च भवेत् प्रतिश्यायेऽनिलात्मके।
उष्णः सपीतकः स्रावो घ्राणात् स्रवति पैत्तिके॥

6.24.8

कृशोऽतिपाण्डुः सन्तप्तो भवेत्तृष्णानिपीडितः(तृष्णाभिपीडितः)।
सधूमं सहसा वह्निं वमतीव च मानवः॥

6.24.9

कफः कफकृते घ्राणाच्छुक्लः शीतः स्रवेन्मुहुः।
शुक्लावभासः शूनाक्षो भवेद्गुरुशिरोमुखः॥

6.24.10

शिरोगलौष्ठतालूनां कण्डूयनमतीव च।
भूत्वा भूत्वा प्रतिश्यायो योऽकस्माद्विनिवर्तते॥

6.24.11

संपक्वो वाप्यपक्वो वा स सर्वप्रभवः स्मृतः।
लिङ्गानि चैव सर्वेषां पीनसानां च सर्वजे॥

6.24.12

रक्तजे तु प्रतिश्याये रक्तास्रावः प्रवर्तते।
ताम्राक्षश्च भवेज्जन्तुरुरोघातप्रपीडितः॥

6.24.13

दुर्गन्धोच्छ्वासवदनस्तथा गन्धान्न वेत्ति च।
मूर्च्छन्ति चात्र कृमयः श्वेताः स्निग्धास्तथाणवः॥

6.24.14

कृमिमूर्धविकारेण समानं चास्य लक्षणम्।
प्रक्लिद्यति पुनर्नासा पुअनश्च परिशुष्यति॥

6.24.15

मुहुरानह्यते चापि मुहुर्विव्रियते तथा।
निःश्वासोच्छ्वासदौर्गन्ध्यं तथा गन्धान्न वेत्ति च॥

6.24.16

एवं दुष्टप्रतिश्यायं जानीयात् कृच्छ्रसाधनम्।
सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः॥

6.24.17

कालेन रोगजनना जायन्ते दुष्टपीनसाः।
बाधिर्यमान्ध्यमघ्राणं घोरांश्च नयनामयान्।
कासाग्निसादशोफांश्च वृद्धाः कुर्वन्ति पीनसाः॥

6.24.18

नवं प्रतिश्यायमपास्य सर्वमुपाचरेत् सर्पिष एव पानैः।
स्वेदैर्विचित्रैर्वमनैश्च युक्तैः कालोपपन्नैरवपीडनैश्च॥

6.24.19

अपच्यमानस्य हि पाचनार्थं स्वेदो हितोऽम्लैरहिमं च भोज्यम्।
निषेव्यमाणं पयसाआर्द्रकं वा संपाचयेदिक्षुविकारयोगैः॥

6.24.20

पक्वं घनं चाप्यवलम्बमानं शिरोविरेकैरपकर्षयेत्तम्।
विरेचनास्थापनधूमपानैरवेक्ष्य दोषान् कवलग्रहैश्च॥

6.24.21

निवातशय्यासनचेष्टनानि मूर्ध्नो गुरूष्णं च तथैव वासः।
तीक्ष्णा विरेकाः शिरसः सधूमा रूक्षं यवान्नं विजया च सेव्या॥

6.24.22

शीताम्बुयोषिच्छिशिरावगाहचिन्तातिरूक्षाशनवेगरोधान्।
शोकं च मद्यानि नवानि चैव विवर्जयेत् पीनसरोगजुष्टः॥

6.24.23

छर्द्यङ्गसादज्वरगौरवार्तमरोचकारत्यतिसारयुक्तम्।
विलङ्घनैः पाचनदीपनीयैरुपाचरेत् पीनसिनं यथावत्॥

6.24.24

बहुद्रवैर्वातकफोपसृष्टं प्रच्छर्दयेत् पीनसिनं वयःस्थम्।
उपद्रवांश्चापि यथोपदेशं स्वैर्भेषजैर्भोजनसंविधानैः।
जयेद्विदित्वा मृदुतां गतेषु प्राग्लक्षणेषूक्तमथादिशेच्च॥

6.24.25

वातिके तु प्रतिश्याये पिबेत् सर्पिर्यथाक्रमम्।
पञ्चभिर्लवणैः सिद्धं प्रथमेन गणेन च॥

6.24.26

नस्यादिषु विधिं कृत्स्नमवेक्षेतार्दितेरितम्।
पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः शृतम्॥

6.24.27

परिषेकान् प्रदेहांश्च कुर्यादपि च शीतलान्।
श्रीसर्जरसपत्तङ्गप्रियङ्गुमधुशर्कराः॥

6.24.28

द्राक्षामधूलिकागोजीश्रीपर्णीमधुफैस्तथा।
युज्यन्ते कवलाश्चात्र विरेको मधुरैरपि॥

6.24.29

धवत्वक्त्रिफलाश्यामातिल्वकैर्मधुकेन च।
श्रीपर्णीरजनीमिश्रैः क्षीरे दशगुणे पचेत्॥

6.24.30

तैलं कालोपपन्नं तन्नस्यं स्यादनयोर्हितम्।
कफजे सर्पिषा स्निग्धं तिलमाषविपक्वया॥

6.24.31

यवाग्वा वामयेद्वान्तः कफघ्नं क्रममाचरेत्।
उभे बले बृहत्यौ च विडङ्गं सत्रिकण्टकम्॥

6.24.32

श्वेतामूलं सदाभद्रां वर्षभूं चात्र संहरेत्।
तैलमेभिर्विपक्वं तु नस्यमस्योपकल्पयेत्॥

6.24.33

सरलाकिणिहीदारुनिकुम्भेङ्गुदिभिः कृताः।
वर्तयश्चोपयोज्याः स्युर्धूमपाने यथाविधि॥

6.24.34

सर्पींषि कटुतिक्तानि तीक्ष्णधूमाः कटूनि च।
भेषजान्युपयुक्तानि हन्युः सर्वप्रकोपजम्॥

6.24.35

रसाञ्जने सातिविषे मुस्तायां भद्रदारुणि।
तैलं विपक्वं नस्यार्थे विदध्याच्चात्र बुद्धिमान्॥

6.24.36

मुस्ता तेजोवती पाठा कट्फलं कटुका वचा।
सर्षपाः पिप्पलीमूलं पिप्पल्यः सैन्धवाग्निकौ॥

6.24.37

तुत्थं करञ्जबीजं च लवणं भद्रदारु च।
एतैः कृतं कषायं तु कवले संप्रयोजयेत्॥

6.24.38

हितं मूर्धविरेके च तैलमेभिर्विपाचितम्।
क्षीरमर्धजले क्वाथ्यं जाङ्गलैर्मृगपक्षिभिः॥

6.24.39

पुष्पैर्विमिश्रं जलजैर्वातघ्नैरौषधैरपि।
हिमे क्षीरावशिष्टेऽस्मिन् घृतमुत्पाद्य यत्नतः॥

6.24.40

सर्वगन्धसितानन्तामधुकं चन्दनं तथा।
आवाप्य विपचेद्भूयो दशक्षीरं तु तद्घृतम्॥

6.24.41

नस्ये प्रयुक्तमुद्रिक्तान् प्रतिश्यायान् व्यपोहति।
यथास्वं दोषशमनैस्तैलं कुर्याच्च यत्नतः॥

6.24.42

समूत्रपित्ताश्चोद्दिष्टाः क्रियाः कृमिषु योजयेत्।
यापनार्थं कृमिघ्नानि भेषजानि च बुद्धिमान्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc