सुश्रुतसंहिता · अध्याय 6.23
अथातो नासागतरोगप्रतिषेधं व्याख्यास्यामः॥
अथोवाच भगवान् धन्वन्तरिः॥
पूर्वोद्दिष्टे पूतिनस्ये च जन्तोः स्नेहस्वेदौ छर्दनं स्रंसनं च।
युक्तं भक्तं तीक्ष्णमल्पं लघु स्यादुष्णं तोयं धूमपानं च काले॥
हिङ्गु व्योषं वत्सकाख्यं शिवाटी लाक्षा बीजं सौरभं कट्फलं च।
उग्रा कुष्ठं तीक्ष्णगन्धा विडङ्गं श्रेष्ठं नित्यं चावपीडे करञ्जम्॥
एतैर्द्रव्यैः सार्षपं मूत्रयुक्तं तैलं धीमान्नस्यहेतोः पचेत।
नासापाके पित्तहृत्संविधानं कार्यं सर्वं बाह्यमाभ्यन्तरं च॥
हृत्वा रक्तं क्षीरवृक्षत्वचश्च साज्याः सेका योजनीयाश्च लेपाः।
वक्ष्याम्यूर्ध्वं रक्तपीतोपशान्तिं नाडीवत्स्यात् पूयरक्ते चिकित्सा॥
वान्ते सम्यक् चावपीडं वदन्ति तीक्ष्णं धूमं शोधनं चात्र नस्यम्।
क्षेप्यं नस्यं मूर्धवैरेचनीयैर्नाड्या चूर्णं क्षवथौ भ्रंशथौ च॥
कुर्यात् स्वेदान् मूर्ध्नि वातामयघ्नान् स्निग्धान् धूमान् यद्यन्यद्धितं च।
दीप्ते रोगे पैत्तिकं संविधानं कुर्यात् सर्वं स्वादु यच्छीतलं च॥
नासानाहे स्नेहपानं प्रधानं स्निग्धा धूमा मूर्धबस्तिश्च नित्यम्।
बलातैलं सर्वथैवोपयोज्यं वातव्याधावन्यदुक्तं च यद्यत्॥
नासास्रावे घ्राणतश्चूर्णमुक्तं नाड्या देयं योऽवपीडश्च तीक्ष्णः।
तीक्ष्णं धूमं देवदार्वग्निकाभ्यां मांसं वाआजं युक्तमत्रादिशन्ति॥
नासाशोषे क्षीरसर्पिः प्रधानं सिद्धं तैलं चाणुकल्पेन नस्यम्।
सर्पिःपानं भोजनं जाङ्गलैश्च स्नेहः स्वेदः स्नैहिकश्चापि धूमः॥
शेषान् रोगान् घ्राणजान् सन्नियच्छेदुक्तं तेषां यद्यथा संविधानम्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0