भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.22

6.22.1

अथातो नासागतरोगविज्ञानीयमध्यायं व्याख्यास्यामः॥

6.22.2

यथोवाच भगवान् धन्वन्तरिः॥

6.22.3

अपीनसः पूतिनस्यं नासापाकस्तथैव च।
तथा शोणितपित्तं च पूयशोणितमेव च॥

6.22.4

क्षवथुर्भ्रंशथुर्दीप्तो नासानाहः परिस्रवः।
नासाशोषेण सहिता दशैकाश्चेरिता गदाः॥

6.22.5

चत्वार्यर्शांसि चत्वारः शोफाः सप्तार्बुदानि च।
प्रतिश्यायाश्च ये पञ्च वक्ष्यन्ते सचिकित्सिताः।
एकत्रिंशन्मितास्ते तु नासारोगाः प्रकीर्तिताः॥

6.22.6

आनह्यते यस्य विधूप्यते च प्रक्लिद्यते शुष्यति चापि नासा।
न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन॥

6.22.7

तं चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम्।
दोषैर्विदग्धैर्लतालुमूले संवासितो यस्य समीरणस्तु॥

6.22.8

निरेति पूतिर्मुखनासिकाभ्यां तं पूतिनासं प्रवदन्ति रोगम्।
व्राणाश्रितं पित्तमरूंषि कुर्याद्यस्मिन् विकारे बलवांश्च पाकः॥

6.22.9

तं नासिकापाकमिति व्यवस्येद्विक्लेदकोथावपि यत्र दृष्टौ।
चतुर्विधं द्विप्रभवं वक्ष्यामि भूयः खलु रक्तपित्तम्॥

6.22.10

दोषैर्विदग्धैरथवापि जन्तोर्ललाटदेशेऽभिहतस्य तैस्तु।
नासा स्रवेत् पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम्॥

6.22.11

घ्राणाश्रिते मर्मणि संप्रदुष्टे यस्यानिलो नासिकया निरेति॥

6.22.12

कफानुयातो बहुशः सशब्दस्तं रोगमाहुः क्षवथुं विधिज्ञाः।
तीक्ष्णोपयोगादतिजिघ्रतो वा भावान् कटूनर्कनिरीक्षणाद्वा॥

6.22.13

सूत्रादिभिर्वा तरुणास्थिमर्मण्युद्घाटितेऽन्यः क्षवथुर्निरेति।
प्रभ्रश्यते नासिकयैव यश्च सान्द्रो विदग्धो लवणः कफस्तु॥

6.22.14

प्राक् संचितो मूर्धनि पित्ततप्तस्तं भ्रंशथुं व्याधिमुदाहरन्ति।
घ्राणे भृशं दाहसमन्विते तु विनिःसरेद्धूम इवेह वायुः॥

6.22.15

नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिं तु तं दीप्तमुदाहरन्ति।
कफावृतो वायुरुदानसंज्ञो यदा स्वमार्गे विगुणः स्थितः स्यात्॥

6.22.16

घ्राणं वृणोतीव तदा स रोगो नासाप्रतीनाह इति प्रदिष्टः।
अजस्रमच्छं सलिलप्रकाशं यस्याविवर्णे स्रवतीह नासा॥

6.22.17

रात्रौ विशेषेण हि तं विकारं नासापरिस्रावमिति व्यवस्येत्।
घ्राणाश्रिते श्लेष्मणि मारुतेन पित्तेन गाढं परिशोषिते च॥

6.22.18

समुच्छ्वसित्यूर्ध्वमधश्च कृच्छ्राद्यस्तस्य नासापरिशोष उक्तः।
दोषैश्त्रिभिस्तैः पृथगेकशश्च ब्रूयात्तथार्शांसि तथैव शोफान्॥

6.22.19

शालाक्यसिद्धान्तमवेक्ष्य चापि सर्वात्मकं सप्तममर्बुदं तु।
रोगः प्रतिश्याय इहोपदिष्टः स वक्ष्यते पञ्चविधः पुरस्तात्॥

6.22.20

(नासास्रोतोगता रोगास्त्रिंशदेकश्च कीर्तिताः।
स्रोतःपथे यद्विपुलं कोशवच्चार्बुदं भवेत्॥)

6.22.21

शोफास्तु शोफविज्ञाना नासास्रोतोव्यवस्थिताः।
निदानेऽर्शांसि निर्दिष्टान्येवं तानि विभावयेत्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc