भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.21

6.21.1

अथातः कर्णगतरोगप्रतिषेधं व्याख्यास्यामः॥

6.21.2

यथोवाच भगवान् धन्वन्तरिः॥

6.21.3

सामान्यं कर्णरोधेषु घृतपानं रसायनम्।
अव्यायामोऽशिरःस्नानं ब्रह्मचर्यमकत्थनम्॥

6.21.4

कर्णशूले प्रणादे च बाधिर्यक्ष्वेडयोरपि।
चतुर्णामपि रोगाणां सामान्यं भेषजं विदुः॥

6.21.5

स्निग्धं वातहरैः स्वेदैर्नरं स्नेहविरेचितम्।
नाडीस्वेदैरुपचरेत्पिण्डस्वेदैस्तथैव च॥

6.21.6

बिल्वैरण्डार्कवर्षाभूदधित्थोन्मत्तशिग्रुभिः।
बस्तगन्धाश्वगन्धाभ्यां तर्कारीयववेणुभिः॥

6.21.7

आरनालशृतैरेभिर्नाडीस्वेदः प्रयोजितः।
कफवातसमुत्थानं कर्णशूलं निरस्यति॥

6.21.8

मीनकुक्कुटलावानां मांसजैः पयसापि वा।
पिण्डैः स्वेदं च कुर्वीत कर्णशूलनिवारणम्॥

6.21.9

अश्वत्थपत्रखल्लं वा विधाय बहुपत्रकम्।
तदङ्गारैः सुसंपूर्णं निदध्याछ्रवणोपरि॥

6.21.10

यत्तैलं च्यवते तस्मात् खल्लादङ्गारतापितात्।
तत् प्राप्तं श्रवणस्रोतः सद्यो गृह्णाति वेदनाम्॥

6.21.11

क्षौमगुग्गुल्वगुरुभिः सघृतैर्धूपयेच्च तम्।
भक्तोपरि हितं सर्पिर्बस्तिकर्म च पूजितम्॥

6.21.12

निरन्नो निशि तत्सर्पिः पीत्वोपरि पिबेत् पयः।
मूर्ध्वस्तिषु नस्ये च मस्तिष्के परिषेचने॥

6.21.13

शतपाकं बलातैलं प्रशस्तं चापि भोजने।
कण्टकारीमजाक्षीरे पक्त्वा क्षीरेण तेन च॥

6.21.14

विपचेत् कुक्कुटवसां कर्णयोस्तत्प्रपूरणम्।
तण्डुलीयकमूलानि फलमङ्कोलजं तथा॥

6.21.15

अहिंसाकेन्दुकान्मूलं सरलं देवदारु च।
लशुनं शृङ्गवेरं च तथा वंशावलेखनम्॥

6.21.16

कल्कैरेषां तथाम्लैश्च पचेत् स्नेहं चतुर्विधम्।
वेदनायाः प्रशान्त्यर्थं हितं तत्कर्णपूरणम्॥

6.21.17

लशुनार्द्रकशिग्रूणां मुरङ्ग्या मूलकस्य च।
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे॥

6.21.18

शृङ्गवेररसः क्षौद्रं सैन्धवं तैलमेव च।
कदुष्णं कर्णयोर्देयमेतद्वा वेदनापहम्॥

6.21.19

वंशावलेखनायुक्ते मूत्रे चाजाविके भिषक्।
सर्पिः पचेत्तेन कर्णं पूरयेत् कर्णशूलिनः॥

6.21.20

महतः पञ्चमूलस्य काण्डमष्टादशाङ्गुलम्।
क्षौमेणावेष्ट्य संसिच्य तैलेनादीपयेत्ततः॥

6.21.21

यत्तैलं च्यवते तेभ्यो धृतेभ्यो भाजनोपरि।
ज्ञेयं तद्दीपिकातैलं सद्यो गृह्णाति वेदनाम्॥

6.21.22

कुर्यादेवं भद्रकाष्ठे कुष्ठे काष्ठे च सारले।
मतिमान् दीपिकातैलं कर्णशूलनिबर्हणम्॥

6.21.23

अर्काङ्कुरानम्लपिष्टांस्तैलाक्तान् लवणान्वितान्।
सन्निदध्यात् स्रुहीकाण्डे कोरिते तच्छदावृते॥

6.21.24

पुटपाकक्रमस्विन्नान् पीडयेदारसागमात्।
सुखोष्णं तद्रसं कर्णे दापयेच्छूलशान्तये॥

6.21.25

कपित्थमातुलुङ्गाम्लशृङ्गवेररसैः शुभैः।
सुखोष्णैः पूरयेत् कर्णं तच्छूलविनिवृत्तये॥

6.21.26

कर्णं कोष्णेन चुक्रेण पूरयेत् कर्णशूलिनः।
समुद्रफेनचूर्णेन युक्त्या चाप्यवचूर्णयेत्॥

6.21.27

अष्टानामिह मूत्राणां मूत्रेणान्यतमेन तु।
कोष्णेन पूरयेत् कर्णं कर्णशूलोपशान्तये॥

6.21.28

मूत्रेष्वम्लेषु वातघ्ने गणे च क्वथिते भिषक्।
पचेच्चतुर्विधं स्नेहं पूरणं तच्च कर्णयोः॥

6.21.29

एता एव क्रियाः कुर्यात् पित्तघ्नैः पित्तसंयुते।
काकोल्यादौ दशक्षीरं तिक्तं चात्र हितं हविः॥

6.21.30

क्षीरवृक्षप्रवालेषु मधुके चन्दने तथा।
कल्कक्वाथे परं पक्वं शर्करामधुकैः सरैः॥

6.21.31

इङ्गुदीसर्षपस्नेहौ सकफे पूरणे हितौ।
तिक्तौषधानां यूषाश्च स्वेदाश्च कफनाशनाः॥

6.21.32

सुरसादौ कृतं तैलं पञ्चमूले महत्यपि।
मातुलुङ्गरसः शुक्तं लशुनार्द्रकयो रसः॥

6.21.33

एकैकः पूरणे पथ्यस्तैलं तेष्वपि वा कृतम्।
तीक्ष्णा मूर्धविरेकाश्च कवलाश्चात्र पूजिताः॥

6.21.34

कर्णशूलविधिः कृत्स्नः पित्तघ्नः शोणितावृते।
शूलप्रणादबाधिर्यक्ष्वेडानां तु प्रकीर्तितम्॥

6.21.35

सामान्यतो विशेषेण बाधिर्ये पूरणं शृणु।
गवां मूत्रेण बिल्वानि पिष्ट्वा तैलं विपाचयेत्॥

6.21.36

सजलं च सदुग्धं च बाधिर्ये कर्णपूरणम्।
सितामधुकबिम्बीभिः सिद्धं वाआजे पयस्यपि॥

6.21.37

बिम्बीक्वाथे विमथ्योष्णं शीतीभूतं तदुद्धृतम्।
पुनः पचेद्दशक्षीरं सितामधुकचन्दनैः॥

6.21.38

बिल्वाम्बुगाढं तत्तैलं बाधिर्ये कर्णपूरणम्।
वक्ष्यते यः प्रतिश्याये विधिः सोऽप्यत्र पूजितः॥

6.21.39

वातव्याधिषु यश्चोक्तो विधिः स च हितो भवेत्।
कर्णस्रावे पूतिकर्णे तथैव कृमिकर्णके॥

6.21.40

समानं कर्म कुर्वीत योगान् वैशेषिकानपि।
शिरोविरेचनं चैव धूपनं पूरणं तथा॥

6.21.41

प्रमार्जनं धावनं च वीक्ष्य वीक्ष्याव्चारयेत्।
राजवृक्षादितोयेन सुरसादिगणेन वा॥

6.21.42

कर्णप्रक्षालनं कार्यं चूर्णैरेषां च पूरणम्।
क्वाथं पञ्ज्चकषायं तु कपित्थरसयोजितम्॥

6.21.43

कर्णस्रावे प्रशंसन्ति पूरणं मधुना सह।
सर्जत्वक्चूर्णसंयुक्तः कार्पासीफलजो रसः॥

6.21.44

योजितो मधुना वापि कर्णस्रावे प्रशस्यते।
लाक्षा रसाञ्जनं सर्जश्चूर्णितं कर्णपूरणम्॥

6.21.45

सशैवलं महावृक्षजम्ब्वाम्रप्रसवायुतम्।
कुलीरक्षौद्रमण्डूकीसिद्धं तैलं च पूजितम्॥

6.21.46

तिन्दुकान्यभया रोध्रं समङ्गाआमलकं मधु।
पूरणं चात्र पथ्यं स्यात्कपित्थरसयोजितम्॥

6.21.47

रसमाम्रकपित्थानां मधूकधवशालजम्।
पूरणार्थं प्रशंसन्ति तैलं वा तैर्विपाचितम्॥

6.21.48

प्रियङ्गुमधुकाम्बष्ठाधातकीशिलपर्णिभिः।
मञ्जिष्ठालोभ्रलाक्षाभिः कपित्थस्य रसेन वा॥

6.21.49

पचेत्तैलं तदास्रावमवगृह्णाति पूरणात्।
घृतं रसाञ्ज्नं नार्याः क्षीरेण मधुसंयुतम्॥

6.21.50

तत्प्रशस्तं चिरोत्थेऽपि सास्रावे पूतिकर्णके।
निर्गुण्डीस्वरसस्तैलं सिन्धुर्धूमरजो गुडः॥

6.21.51

पूरणः पूतिकर्णस्य शमनो मधुसंयुतः।
कृमिकर्णकनाशार्थं कृमिघ्नं योजयेद्विधिम्॥

6.21.52

वार्ताकुधूमश्च हितः सार्षपस्नेह एव च।
कृमिघ्नं हरितालेन गवां मूत्रयुतेन च॥

6.21.53

गुग्गुलोः कर्णदौर्गन्ध्ये धूपनं श्रेष्ठमुच्यते।
छर्दनं धूमपानं च कवलस्य च धारणम्॥

6.21.54

कर्णक्ष्वेडे हितं तैलं सार्षपं चैव पूरणम्।
विद्रधौ चापि कुर्वीत विद्रध्युक्तं चिकित्सितम्॥

6.21.55

प्रक्लेद्य धीमांस्तैलेन स्वेदेन प्रविलाय्य च।
शोधयेत्कर्णविट्कं तु भिषक् सम्यक् शलाकया॥

6.21.56

नाडीस्वेदोऽथ वमनं धूमो मूर्धविरेचनम्।
विधिश्च कफहृत्सर्वः कर्णकण्डूमपोहति॥

6.21.57

अथ कर्णप्रतीनाहे स्नेहस्वेदौ प्रयोजयेत्।
ततो विरिक्तशिरसः क्रियां प्राप्तां समाचरेत्॥

6.21.58

कर्णपाकस्य भैषज्यं कुर्यात्पित्तविसर्पवत्।
कर्णच्छिद्रे वर्तमानं कीटं क्लेदमलादि वा॥

6.21.59

शृङ्गेणापहरेद्धीमानथवापि शलाकया।
शेषाणां तु विकाराणां प्राक् चिकित्सितमीरितम्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc