सुश्रुतसंहिता · अध्याय 6.20
अथातः कर्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
कर्णशूलं प्रणादश्च बाधिर्यं क्ष्वेड एव च।
कर्णस्रावः कर्णकण्डूः कर्णवर्चस्तथैव च॥
कृमिकर्णप्रतिनाहौ विद्रधिर्द्विविधस्तथा।
कर्णपाकः पूतिकर्णस्तथैवार्शश्चतुर्विधम्॥
कर्णार्बुदं सप्तविधं शोफश्चापि चतुर्विधः।
एते कर्णगता रोगा अष्टाविंशतिरीरिताः॥
समीरणः श्रोत्रगतोऽन्यथाचरः समन्ततः शूलमतीव कर्णयोः।
करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः॥
यदा तु नाडीषु विमार्गमागतः स एव शब्दाभिवहासु तिष्ठति।
श्र्णोति शब्दान् विविधांस्तदा नरः प्रणादमेनं कथयन्ति चामयम्॥
स एव शब्दानुवहा यदा सिराः कफानुयातो व्यनुसृत्य तिष्ठति।
तदा नरस्याप्रतिकारसेविनो भवेत्तु बाधिर्यमसंशयं खलु॥
श्रमात् क्षयाद्रूक्षकषायभोजनात् समीरणः शब्दपथे प्रतिष्ठितः।
विरिक्तशीर्षस्य च शीतसेविनः करोति हि क्ष्वेडमतीव कर्णयोः॥
शिरोभिघातादथवा निमज्जतो जले प्रपाकादयवापि विद्रधेः।
स्रवेत्तु पूयं श्रवणोऽनिलावृतः स कर्णसंस्राव इति प्रकीर्तितः॥
कफेन कण्डूः प्रचितेन कर्णयोर्भृशं भवेत् स्रोतसि कर्णसंज्ञिते।
विशोषिते श्लेष्मणि पित्ततेजसा नृणां भवेत् स्रोतसि कर्णगूथकः॥
स कर्णविट्को द्रवतां यदा गतो विलायितो घ्राणमुखं प्रपद्यते।
तदा स कर्णप्रतिनाहसंज्ञितो भवेद्विकारः शिरसोऽभितापनः॥
यदा तु मूर्च्छन्त्यथवापि जन्तवः सृजन्त्यपत्यान्यथवापि मक्षिकाः।
तदञ्जनत्वाच्छ्रवणो निरुच्यते भिषग्भिराद्यैः कृमिकर्णको गदः॥
क्षताभिघातप्रभवस्तु विद्रधिर्भवेत्तथा दोषकृतोऽपरः पुनः।
सरक्तपीतारुणमस्रमास्रवेत् प्रतोदधूमायनदाहचोपवान्॥
भवेत् प्रपाकः खलु पित्तकोपतो विकोथविक्लेदकरश्च कर्णयोः।
स्थिते कफे स्रोतसि पित्ततेजसः विलाय्यमाने भृशसंप्रतापवान्॥
अवेदनो वाप्यथवा सवेदनो घनं स्रवेत् पूति च पूतिकर्णकः।
प्रदिष्टलिङ्गान्यरशांसि तत्त्वतस्तथैव शोफार्बुदलिङ्गमीरितम्।
मया पुरस्तात् प्रसमीक्ष्य योजयेदिहैव तावत् प्रयतो भिषग्वरः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0