सुश्रुतसंहिता · अध्याय 6.19
अथातो नयनाभिघातप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
अभ्याहते तु नयने बहुधा नराणां संरम्भरागतुमुलासु रुजासु धीमान्।
नस्यास्यलेपपरिषेचनतर्पणाद्यमुक्तं पुनः क्षतजपित्तजशूलपथ्यम्॥
दृष्टिप्रसादजननं विधिमाशु कुर्यात् स्निग्धैर्हिमैश्च मधुरैश्च तथा प्रयोगै।
स्वेदाग्निधूमभयशोकरुजाभिघातैरभ्याहतामपि तथैव भिषक् चिकित्सेत्॥
सद्योहते नयन एष विधिस्तदूर्ध्वं स्यन्देरितो भवति दोषमवेक्ष्य कार्यः।
अभ्याहतं नयनमीषदथास्यबाष्पसंस्वेदितं भवति तन्निरुजं क्षणेन॥
साध्यं क्षतं पटलमेकमुभे तु कृच्छ्रे त्रीणि क्षतानि पटलानि विवर्जयत्तु।
स्यात् पिच्चितं च नयनं ह्यति चावसन्नं स्रस्तं च्युतं च हतदृक् च भवेत्तु याप्यम्॥
विस्तीर्णदृष्टितनुरागमसत्प्रदर्शि साध्यं यथास्थितमनाविलदर्शनं च।
प्राणोपरोधवमनक्षुतकण्ठरोधैरुन्नम्यमाशु नयनं यदतिप्रविष्टम्॥
नेत्रे विलम्बिनि विधिर्विहितः पुरस्तादुच्छिङ्घनं शिरसि वार्यवसेचनं च।
षट्सप्ततिर्नयनजा य इमे प्रदिष्टा रोगा भवन्त्यमहतां महतां च तेभ्यः॥
स्तन्यप्रकोपकफमारुतपित्तरक्तैर्बलाक्षिवर्त्मभव एव कुकूणकोऽन्यः।
मृद्नाति नेत्रमतिकण्डुमथाक्षिकूटं नासाललाटमपि तेन शिशुः स नित्यम्॥
सूर्यप्रभां न सहते स्रवति प्रबद्धं तस्याहरेद्रुधिरमाशु विनिर्लिखेच्च।
क्षौद्रायुतैश्च कटुभिः प्रतिसारयेत्तु मातुः शिशोरभिहितं च विधिं विदध्यात्॥
तं वामयेत्तु मधुसैन्धवसंप्रयुक्तैः पीतं पयः खलु फलैः खरमञ्जरीणाम्॥
स्यात्पिप्पलीलवणमाक्षिकसंयुतैर्वा नैनं वमन्तमपि वामयितुं यतेत।
दत्त्वा वचामशनदुग्धभुजे प्रयोज्यमूर्ध्वं ततः फलयुतं वमनं विधिज्ञैः॥
जम्ब्वाम्रधात्र्यणुदलैः परिधावनार्थं कार्यं कषायमवसेचनमेव चापि।
आश्च्योतने च हितमत्र घृतं गुडूचीसिद्धं तथाआहुरपि च त्रिफलाविपक्वम्॥
नेपालजामरिचशङ्खरसाञ्जनानि सिन्धुप्रसूतगुडमाक्षिकसंयुतानि।
स्यादञ्जनं मधुरसामधुकाम्रकैर्वा कृष्णायसं घृतपयो मधु वापि दग्धम्॥
व्योषं पलाण्डु मधुकं लवणोत्तमं च लाक्षां च गैरिकयुतां गुटिकाञ्जनं वा।
निम्बच्छदं मधुकदार्वि सताम्रलोध्रमिच्छन्ति चात्र भिषजोऽञ्जनमंशतुल्यम्॥
स्रोतोजशङ्खदधिसैन्धवमर्धपक्षं शुक्रं शिशोर्नुदति भावितमञ्जनेन।
स्यन्दे कफादभिहितं क्रममाचरेच्च बालस्य रोगकुशलोऽक्षिगदं जिघांसुः॥
समुद्र इव गम्भीरं नैव शक्यं चिकित्सितम्।
वक्तुं निरवशेषेण श्लोकानामयुतैरपि॥
सहस्रैरपि वा प्रोक्तमर्थमल्पमतिर्नरः।
तर्कग्रन्थार्थरहितो नैव गृह्णात्यपण्डितः॥
तदिदं बहुगूढार्थं चिकित्साबीजमीरितम्।
कुशलेनाभिपन्नं तद्बहुधाभिप्ररोहति॥
तस्मान्मतिमता नित्यं नानाशास्त्रार्थदर्शिना।
सर्वमूह्यमगाधार्थं शास्त्रमागमबुद्धिना॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0