सुश्रुतसंहिता · अध्याय 6.18
अथातः क्रियाकल्पं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
सर्वशास्त्रार्थतत्त्वज्ञस्तपोदृष्टिरुदारधीः।
वैश्वामित्रं शशासाथ शिष्यं काशिपतिर्मुनिः॥
तर्पणं पुटपाकश्च सेक आश्च्योतनाञ्जने।
तत्र तत्रोपदिष्टानि तेषां व्यासं निबोध मे॥
संशुद्धदेहशिरसो जीर्णान्नस्य शुभे दिने।
पूर्वाह्णे वापराह्णे वा कार्यमक्ष्णोस्तु तर्पणम्॥
वातातपरजोहीने वेश्मन्युत्तानशायिनः।
आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ॥
समौ दृढावसंबाधौ कर्तव्यौ नेत्रकोशयोः।
पूरयेद्घृतमण्डस्य विलीनस्य सुखोदके॥
आपक्ष्माग्रात्ततः स्थाप्यं पञ्च तद्वाक्शतानि तु।
स्वस्थे कफे षट् पित्तेऽष्टौ दश वाते तदुत्तमम्॥
रोगस्थानविशेषेण केचित् कालं प्रचक्षते।
यथाक्रमोपदिष्टेषु त्रीण्येकं पञ्च सप्त च॥
दश दृष्ट्यामथाष्टौ च वाक्शतानि विभावयेत्।
ततश्चापाङ्गतः स्नेहं स्रावयित्वाक्षि शोधयेत्॥
स्विन्नेन यवपिष्टेन स्नेहवीर्येरितं ततः।
यथास्वं धूमपानेन कफमस्य विशोधयेत्॥
एकाहं वा त्र्यहं वापि पञ्चाहं चेष्यते परम्।
तर्पणे तृप्तिलिङ्गानि नेत्रस्येमानि लक्षयेत्॥
सुखस्वप्नावबोधत्वं वैशद्यं वर्णपाटवम्।
निर्वृतिर्व्याधिविध्वंसः क्रियालाघवमेव च॥
गुर्वाविलमतिस्निग्धमश्रुकण्डूपदेहवत्।
ज्ञेयं दोषसमुत्क्लिष्टं नेत्रमत्यर्थतर्पितम्॥
रूक्षमाविलमस्राढ्यमसहं रूपदर्शने।
व्याधिवृद्धिश्च तज्ज्ञेयं हीनतर्पितमक्षि च॥
अजयोर्दोषबाहुल्यात् प्रयतेत चिकित्सिते।
धूमनस्याञ्जनैः सेकै रूक्षैः स्निग्धैश्च योगवित्॥
ताम्यत्यतिविशुष्कं यद्रूक्षं यच्चातिदारुणम्।
शीर्णपक्ष्माविलं जिह्मं रोगक्लिष्टं च यद्भृशम्॥
तदक्षि तर्पणादेव लभेतोर्जामसंशयम्।
दुर्दिनात्युष्णशीतेषु चिन्तायासभ्रमेषु च॥
अशान्तोपद्रवे चाक्षिण तर्पणं न प्रशस्यते।
पुटपाकस्तथैतेषु नस्यं येषु च गर्हितम्॥
तर्पणार्हा न ये प्रोक्ताः स्नेहपानाक्षमाश्च ये।
ततः प्रशान्तदोषेषु पुटपाकक्षमेषु च॥
पुटपाकः प्रयोक्तव्यो नेत्रेषु भिषजा भवेत्।
स्नेहनो लेखनीयश्च रोपणीयश्च स त्रिधा॥
हितः स्निग्धोऽतिरूक्षस्य स्निग्धस्यापि च लेखनः।
दृष्टेर्बलार्थमपरः पित्तासृग्व्रणवातनुत्॥
स्नेहमांसवसामज्जमेदःस्वाद्वौषधैः कृतः।
स्नेहतः पुटपाकस्तु धार्यो द्वे वाक्शते तु सः॥
जाङ्गलानां यकृन्मांसैर्लेखनद्रव्यसंभृतैः।
कृष्णलोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः॥
समुद्रफेनकासीसस्रोतोजदधिमस्तुभिः।
लेहनो वाक्शतं तस्य परं धारणमुच्यते॥
स्तन्यजाङ्गलमध्वाज्यतिक्तद्रव्यविपाचितः।
लेखनात्त्रिगुणं धार्यः पुटपाकस्तु रोपणः॥
वितरेत्तर्पणोक्तं तु धूमं हित्वा तु रोपणम्।
स्नेहस्वेदौ द्वयोः कार्यौ कार्यो नैव च रोपणे॥
एकाहं वा द्व्यहं वापि त्र्यहं वाप्यवचारणम्।
यन्त्रणा तु क्रियाकालाद्द्विगुणं कालमिष्यते॥
तेजांस्यनिलमाकाशमादर्शं भास्वराणि च।
नेक्षेत तर्पिते नेत्रे पुटपाककृते तथा॥
मिथ्योपचारादनयोर्यो व्याधिरुपजायते।
अञ्जनाश्च्योतनस्वेदैर्यथास्वं तमुपाचरेत्॥
प्रसन्नवर्णं विशदं वातातपसहं लघु।
सुखस्वप्नावबोध्यक्षि पुटपाकगुणान्वितम्॥
अतियोगाद्रुजः शोफः पिडकास्तिमिरोद्गमः।
पाकोऽश्रु हर्षणं चापि हीने दोषोद्गमस्तथा॥
अत ऊर्ध्वं प्रवक्ष्यामि पुटपाकप्रसाधनम्।
द्वौ बिल्वमात्रौ श्लक्ष्णस्य पिण्डौ मांसस्य पेषितौ॥
द्रव्याणां बिल्वमात्रं तु द्रवाणां कुडवो मतः।
तदैकध्यं समालोड्य पत्रैः सुपरिवेष्टितम्॥
(काश्मरीकुमुदैरण्डपद्मिनीकदलीभवैः।
) मृदावलिप्तमङ्गारैः खादिरैरवकूलयेत्॥
कतकाश्मन्तकैरण्डपाटलावृषबादरैः।
सक्षीरद्रुमकाष्ठैर्वा गोमयैर्वापि युक्तितः॥
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं नृणाम्।
तर्पणोक्तेन विधिना यथावदवचारयेत्॥
कनीनके निषेच्यः स्यान्नित्यमुत्तानशायिनः।
रक्ते पित्ते च तौ शीतौ कोष्णौ वातकफापहौ॥
अत्युष्णतीक्ष्णौ सततं दाहपाककरौ स्मृतौ।
अप्लुतौ शीतलौ चाश्रुस्तम्भरुग्घर्षकारकौ॥
अतिमात्रौ कषायत्वसङ्कोचस्फुरणावहौ।
हीनप्रमाणौ दोषाणामुत्क्लेशजननौ भृशम्॥
युक्तौ कृतौ दाहशोफरुग्घर्षस्रावनाशनौ।
कण्डूपदेहदूषीकारक्तराजिविनाशनौ॥
तस्मात् परिहरन् दोषान् विदध्यात्तौ सुखावहौ।
व्यापदश्च यथादोषं नस्यधूमाञ्जनैर्जयेत्॥
आद्यन्तयोश्चाप्यनयोः स्वेद उष्णाम्बुचैलिकः।
तथा हितोऽवसाने च धूमः श्लेष्मसमुच्छ्रितौ॥
यथादोषोपयुक्तं तु नातिप्रबलमोजसा।
रोगमाश्च्योतनं हन्ति सेकस्तु बलवत्तरम्॥
तौ त्रिधैवोपयुज्येते रोगेषु पुटपाकवत्।
लेखने सप्त चाष्टौ वा बिन्दवः स्नैहिके दश॥
आश्च्योतने प्रयोक्तव्या द्वादशैव तु रोपणे।
सेकस्य द्विगुणः कालः पुटपाकात् परो मतः॥
अथवा कार्यनिर्वृत्तेरुपयोगो यथाक्रमम्।
पूर्वापराह्णे मध्याह्ने रुजाकालेषु चोभयोः॥
योगायोगात् स्नेहसेके तर्पणोक्तान् प्रचक्षते।
रोगाञ्छिरसि संभूतान् हत्वातिप्रबलान् गुणान्॥
करोति शिरसो बस्तिरुक्ता ये मूर्धतैलिकाः।
शुद्धदेहस्य सायाह्ने यथाव्याध्यशितस्य तु॥
ऋज्वासीनस्य बध्नीयाद्बस्तिकोशं ततो दृढम्।
यथाव्याधिशृतस्नेहपूर्णं संयम्य धारयेत्॥
तर्पणोक्तं दशगुणं यथादोषं विधानवित्॥ व्यक्तरूपेषु दोषेषु शुद्धकायस्य केवले॥
नेत्र एव स्थिते दोषे प्राप्तमञ्जनमाचरेत्।
लेखनं रोपणं चापि प्रसादनमथापि वा॥
तत्र पञ्च रसान् व्यस्तानाद्यैकरसवर्जितान्।
पञ्चधा लेखनं युञ्ज्याद्यथादोषमतन्द्रितः॥
नेत्रवर्त्मसिराकोशस्रोतःशृङ्गाटकाश्रितम्।
मुखनासाक्षिभिर्दोषमोजसा स्रावयेत्तु तत्॥
कषायं तिक्तकं वापि सस्नेहं रोपणं मतम्।
तत्स्नेहशैत्याद्वर्ण्यं स्याद्दृष्टेश्च बलवर्धनम्॥
मधुरं स्नेहसंपन्नमञ्जनं तु प्रसादनम्।
दृष्टिदोषप्रसादार्थं स्नेहनार्थं च तद्धितम्॥
यथादोषं प्रयोज्यानि तानि रोगविशारदैः।
अञ्जनानि यथोक्तानि प्राह्णसायाह्नरात्रिषु॥
गुटिकारसचूर्णानि त्रिविधान्यञ्जनानि तु।
यथापूर्वं बलं तेषां श्रेष्ठमाहुर्मनीषिणः॥
हरेणुमात्रा वर्तिः स्याल्लेखनस्य प्रमाणतः।
प्रसादनस्य चाध्यर्धा द्विगुणा रोपणस्य च॥
रसाञ्जनस्य मात्रा तु यथावर्तिमिता मता।
द्वित्रिचतुःशलाकाश्च चूर्णस्याप्यनुपूर्वशः॥
तेषां तुल्यगुणान्येव विदध्याद्भाजनान्यपि।
सौवर्णं राजतं शार्ङ्गं ताम्रं वैदूर्यकांस्यजम्॥
आयसानि च योज्यानि शलाकाश्च यथाक्रमम्।
वक्त्रयोर्मुकुलाकारा कलायपरिमण्डला॥
अष्टाङ्गुला तनुर्मध्ये सुकृता साधुनिग्रहा।
औदुम्बर्यश्मजा वापि शारीरी वा हिता भवेत्॥
वामेनाक्षि विनिर्भुज्य हस्तेन सुसमाहितः।
शलाकया दक्षिणेन क्षिपेत् कानीनमञ्जनम्॥
आपाङ्ग्यं वा यथायोगं कुर्याच्चापि गतागतम्।
वर्त्मोपलेपि वा यत्तदङ्गुल्यैव प्रयोजयेत्॥
अक्षि नास्यन्तयोरञ्ज्याद्बाधमानोऽपि वा भिषक्।
न चानिर्वान्तदोषेऽक्ष्णि धावनं संप्रयोजयेत्॥
दोषः प्रतिनिवृत्तः सन् हन्याद् दृष्टेर्बलं तथा।
गतदोषमपेताश्रु पश्येद्यत् सम्यगम्भसा॥
प्रक्षाल्याक्षि यथादोषं कार्यं प्रत्यञ्जनं ततः।
श्रमोदावर्तरुदितमद्यक्रोधभयज्वरैः॥
वेगाघातशिरोदोषैश्चार्तानां नेष्यतेऽञ्जनम्।
रागरुक्तिमिरास्रावशूलसंरम्भसंभवात्॥
निद्राक्षये क्रियाशक्तिं प्रवाते दृग्बलक्षयम्।
रजोधूमहते रागस्रावाधीमन्थसंभवम्॥
संरम्भशूलौ नस्यान्ते शिरोरुजि शिरोरुजम्।
शिरःस्नातेऽतिशीते च रवावनुदितेऽपि च॥
दोषस्थैर्यादपार्थं स्याद्दोषोत्क्लेशं करोति च।
अजीर्णेऽप्येवमेव स्यात् स्रोतोमार्गावरोधनात्॥
दोषवेगोदये दत्तं कुर्यात्तांस्तानुपद्रवान्।
तस्मात् परिहरन् दोषानञ्जनं साधु योजयेत्॥
लेखनस्य विशेषेण काल एष प्रकीर्तितः।
व्यापदश्च जयेदेताः सेकाश्च्योतनलेपनैः॥
यथास्वं धूमकवलैर्नस्यैश्चापि समुत्थिताः।
विशदं लघ्वनास्रावि क्रियापटु सुनिर्मलम्॥
संशान्तोपद्रवं नेत्रं विरिक्तं सम्यगादिशेत्।
जिह्मं दारुणदुर्वर्णं स्रस्तं रूक्षमतीव च॥
नेत्रं विरेकातियोगे स्यन्दते चातिमात्रशः।
तत्र संतर्पणं कार्यं विधानं चानिलापहम्॥
अक्षि मन्दविरिक्तं स्यादुदग्रतरदोषवत्।
धूमनस्याञ्जनैस्तत्र हितं दोषावसेचनम्॥
स्नेहवर्णबलोपेतं प्रसन्नं दोषवर्जितम्।
ज्ञेयं प्रसादने सम्यगुपयुक्तेऽक्षि निर्वृतम्॥
किञ्चिद्धीनविकारं स्यात्तर्पणाद्धि कृतादति।
तत्र दोषहरं रूक्षं भेषजं शस्यते मृदु॥
साधारणमपि ज्ञेयमेवं रोपणलक्षणम्।
प्रसादनवदाचष्टे तस्मिन् युक्तेऽतिभेषजम्॥
स्नेहनं रोपणं वापि हीनयुक्तमपार्थकम्।
कर्तव्यं मात्रया तस्मादञ्जनं सिद्धिमिच्छता॥
पुटपाकक्रियाद्यासु क्रियास्वेषैव(क्रियास्वेकैव) कल्पना।
सहस्रशश्चाञ्जनेषु बीजेनोक्तेन पूजिताः॥
दृष्टेर्बलविवृद्ध्यर्थं याप्यरोगक्षयाय च।
राजार्हान्यञ्जनाग्र्याणि निबोधेमान्यतः परम्॥
अष्टौ भागानञ्जनस्य नीलोत्पलसमत्विषः।
औडुम्बरं शातकुम्भं राजतं च समासतः॥
एकादशैतान् भागांस्तु योजयेत् कुशलो भिषक्।
मूषाक्षिप्तं तदाध्मातमावृतं जातवेदसि॥
खदिराश्मन्तकाङ्गरैर्गोशकृद्भिरथापि वा।
गवां शकृद्रसे मूत्रे दध्नि सर्पिषि माक्षिके॥
तैलमद्यवसामज्जसर्वगन्धोदकेषु च।
द्राक्षारसेक्षुत्रिफलारसेषु सुहिमेषु च॥
सारिवादिकषाये च कषाये चोत्पलादिके।
निषेचयेत् पृथक् चैनं ध्मातं ध्मातं पुनः पुनः॥
ततोऽन्तरीक्षे सप्ताहं प्लोतबद्धं स्थितं जले।
विशोष्य चूर्णयेन्मुक्तां स्फटिकं विद्रुमं तथा॥
कालानुसारिवां चापि शुचिरावाप्य योगतः।
एतच्चूर्णाञ्जनं श्रेष्ठं निहितं भाजने शुभे॥
दन्तस्फटिकवैदूर्यशङ्खशैलासनोद्भवे।
शातकुम्भेऽथ शार्ङ्गे वा राजते वा सुसंस्कृते।
सहस्रपाकवत् पूजां कृत्वा राज्ञः प्रयोजयेत्॥
तेनाञ्जिताक्षो नृपतिर्भवेत् सर्वजनप्रियः।
अधृष्यः सर्वभूतानां दृष्टिरोगविवर्जितः॥
कुष्ठं चन्दनमेलाश्च पत्रं मधुकमञ्जनम्।
मेषशृङ्गस्य पुष्पाणि वक्रं रत्नापि सप्त च॥
उत्पलस्य बृहत्योश्च पद्मस्यापि च केशरम्।
नागपुष्पमुशीराणि पिप्पली तुत्थमुत्तमम्॥
कुक्कुटाण्डकपालानि दार्वीं पथ्यां सरोचनाम्।
मरिचान्यक्षमज्जानं तुल्यां च गृहगोपिकाम्॥
कृत्वा सूक्ष्मं ततश्चूर्णं न्यसेदभ्यर्च्य पूर्ववत्।
एतद्भद्रोदयं नाम सदैवार्हति भूमिपः॥
वक्रं समरिचं चैव मांसीं शैलेयमेव च।
तुल्यांशानि समानैस्तैः समग्रैश्च मनःशिला॥
पत्रस्य भागाश्चत्वारो द्विगुणं सर्वतोऽञ्जनम्।
तावच्च यष्टीमधुकं पूर्ववच्चैतदञ्जनम्॥
मनःशिलां देवकाष्ठं रजन्यौ त्रिफलोषणम्।
लाक्षालशुनमञ्जिष्ठासैन्धवैलाः समाक्षिकाः॥
रोध्रं सावरकं चूर्णमायसं ताम्रमेव च।
कालानुसारिवां चैव कुक्कुटाण्डदलानि च॥
तुल्यानि पयसा पिष्ट्वा गुटिकां कारयेद्बुधः।
कण्डूतिमिरशुक्लार्मरक्तराज्युपशान्तये॥
कांस्यापमार्जनमसी मधुकं सैन्धवं तथा।
एरण्डमूलं च समं बृहत्यंशद्वयान्वितम्॥
आजेन पयसा पिष्ट्वा ताम्रपात्रं प्रलेपयेत्।
सप्तकृत्वस्तु ता वर्त्यश्छायाशुष्का रुजापहाः॥
पथ्यातुत्थकयष्ट्याह्वैस्तुल्यैर्मरिचषोडशा।
पथ्या सर्वविकारेषु वर्तिः शीताम्बुपेषिता॥
रसक्रियाविधानेन यथोक्तविधिकोविदः।
पिण्डाञ्जनानि कुर्वीत यथायोगमतन्द्रितः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0