सुश्रुतसंहिता · अध्याय 6.17
अथातो दृष्टिगतरोगप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
त्रयः साध्यास्त्रयोऽसाध्या याप्याः षट् च भवन्ति हि।
तत्रैकस्य प्रतीकारः कीर्तितो धूमदर्शिनः॥
दृष्टौ पित्तविदग्धायां विदग्धायां कफेन च।
पित्तश्लेष्महरं कुर्याद्विधिं शस्त्रक्षतादृते॥
नस्यसेकाञ्जनालेपपुटपाकैः सतर्पणैः।
आद्ये तु त्रैफलं पेयं सर्पिस्त्रैवृतमुत्तरे॥
तैल्वकं चोभयोः पथ्यं केवलं जीर्णमेव वा।
गैरिकं सैन्धवं कृष्णा गोदन्तस्य मषी तथा॥
गोमांसं मरिचं बीजं शिरीषस्य मनःशिला।
वृन्तं कपित्थान्मधुना स्वयङ्गुप्ताफलानि च॥
चत्वार एते योगाः स्युरुभयोरञ्जने हिताः।
कुब्जकाशोकशालाम्रप्रियङ्गुनलिनोत्पलैः॥
पुष्पैर्हरेणुकृष्णाह्वापथ्यामलकसंयुतैः।
सर्पिर्मधुयुतैश्चूर्णैर्वेणुनाड्यामवस्थितैः॥
अञ्जयेद् द्वादपि भिषक् पित्तश्लेष्मविभावितौ।
आम्रजम्बूद्भवं पुष्पं तद्रसेन हरेणुकाम्॥
पिष्ट्वा क्षौद्राज्यसंयुक्तं प्रयोज्यमथवाञ्जनम्।
नलिनोत्पलकिञ्जल्कगैरिकैर्गोशकृद्रसैः॥
गुडिकाञ्जनमेतद्वा दिनरात्र्यन्धयोर्हितम्।
रसाञ्जनरसक्षौद्रतालीशस्वर्णगैरिकम्॥
गोशकृद्रससंयुक्तं पित्तोपहतदृष्टये।
शीतं सौवीरकं वापि पिष्ट्वाथ रसभावितम्॥
कूर्मपित्तेन मतिमान् भावयेद्रौहितेन वा।
चूर्णाञ्जनमिदं नित्यं प्रयोज्यं पित्तशान्तये॥
काश्मरीपुष्पमधुकदार्वीरोध्ररसाञ्जनैः।
सक्षौद्रमञ्जनं तद्वद्धितमत्रामये सदा॥
स्रोतोजं सैन्धवं रेणुकां चापि पेषयेत्।
अजामूत्रेण ता वर्त्यः क्षणदान्ध्याञ्जने हिताः॥
कालानुसारिवां कृष्णां नागरं मधुकं तथा।
तालीशपत्रं क्षणदे गाङ्गेयं च यकृद्रसे॥
कृतास्ता वर्तयः पिष्टाश्छायाशुष्काः सुखावहाः।
मनःशिलाभयाव्योषबलाकालानुसारिवाः॥
सफेना वर्तयः पिष्टाश्छागक्षीरसमन्विताः।
गोमूत्रपित्तमदिरायकृद्धात्रीरसे पचेत्॥
क्षुद्राञ्जनं रसेनान्यद्यक्द्तस्त्रैफलेऽपि वा।
गोमूत्राज्यार्णवमलपिप्पलीक्षौद्रकट्फलैः॥
सैन्धवोपहितं युञ्ज्यान्निहितं वेणुगह्वरे।
मेदो यकृद्घृतं चाजं पिप्पल्यः सैधवं मधु॥
रसमामलकाच्चापि पक्वं सम्यङ्निधापयेत्।
कोशे खदिरनिर्माणे तद्वत् क्षुद्राञ्जनं हितम्॥
हरेणुमगधाजास्थिमज्जैलायकृदन्वितम्।
यकृद्रसेनाञ्जनं वा श्लेष्मोपहतदृष्टये॥
विपाच्य गोधायकृदर्धपाटितं सुपूरितं मागधिकाभिरग्निना।
निषेवितं तद्यकृदञ्जनेन निहन्ति नक्तान्ध्यमसंशयं खलु॥
तथा यकृच्छागभवं हुताशने विपाच्य सम्यङ्मगधासमन्वितम्।
प्रयोजितं पूर्ववदाश्वसंशयं जयेत् क्षपान्ध्यं सक्दृअञ्जनान्नृणाम्॥
प्लीहा यकृच्चाप्युपभाक्षिते उभे प्रकल्प्य शूल्ये घृततैलसंयुते।
ते सार्षपस्नेहसमायुतेऽञ्जनं नक्तान्ध्यमाश्वेव हतः प्रयोजिते॥
नदीजशिम्बीत्रिकटून्यथाञ्जनं मनःशिला द्वे च निशे यकृद्(शकृद्)गवाम्।
सचन्दनेयं गुटिकाथवाञ्जनं प्रशस्यते वै दिवसेष्वपश्यताम्॥
भवन्ति याप्याः खलु ये षडामया हरेदसृक्तेषु सिराविमोक्षणैः।
विरेचयेच्चापि पुराणसर्पिषा विरेचनाङ्गोपहितेन सर्वदा॥
पयोविमिश्रं पवनोद्भवे हितं वदन्ति पञ्चाङ्गुलतैलमेव तु।
भवेद्घृतं त्रैफलमेव शोधनं विशेषतः शोणितपित्तरोगयोः॥
त्रिवृद्विरेकः कफजे प्रशस्यते त्रिदोषजे तैलमुशन्ति तत्कृतम्।
पुराणसर्पिस्तिमिरेषु सर्वशो हितं भवेदायसभाजनस्थितम्॥
हितं च विद्यात्त्रिफलाघृतं सदा कृतं च यन्मेषविषाणनामभिः।
सदावलिह्यात्त्रिफलां सुचूर्णितां घृतप्रगाढां तिमिरेऽथ पित्तजे॥
समीरजे तैलयुतां कफात्मके मधुप्रगाढां विदधीत युक्तितः।
गवां शकृत्क्वाथविपक्वमुत्तमं हितं तु तैलं तिमिरेषु नावनम्॥
हितं घृतं केवल एव पैत्तिके ह्यजाविकं यन्मधुरैर्विपाचितम्।
तैलं स्थिरादौ मधुरे च यद्गणे तथाणुतैलं पवनासृगुत्थयोः॥
सहाश्वगन्धातिबलावरीशृतं हितं च नस्ये त्रिवृतं यदीरितम्।
जलोद्भवानूपजमांसस्ंस्कृताद्घृतं विधेयं पयसो यदुत्थितम्॥
ससैन्धवः क्रव्यभुगेणमांसयोर्हितः ससर्पिः समधुः पुटाह्वयः।
वसाथ गृध्रोरगताम्रचूडजा सदा प्रशस्ता मधुकान्विताञ्जने॥
प्रत्यञ्जनं स्रोतसि यत्समुत्थितं क्रमाद्रसक्षीरघृतेषु भावितम्।
स्थितं दशाहत्रयमेतदञ्जनं कृष्णोरगास्ये कुशसंप्रवेष्टिते॥
तन्मालतीकोरकसैन्धवायुतं सदाञ्जनं स्यात्तिमिरेऽथ रागिणि।
सुभावितं वा पयसा दिनत्रयं काचापहं शास्त्रविदः प्रचक्षते॥
हविर्हितं क्षीरभवं तु पैत्तिके वदन्ति नस्ये मधुरौषधैः कृतम्।
तत्तर्पणे चैव हितं प्रयोजितं सजाङ्गलस्तेषु च यः पुटाह्वयः॥
रसाञ्जनक्षौद्रसितामनःशिलाः क्षुद्राञ्जनं तन्मधुकेन संयुतम्।
समाञ्जनं वा कनकाकरोद्भवं सुचूर्णितं श्रेष्ठमुशन्ति तद्विदः॥
भिल्लोटगन्धोदकसेकसेचितं प्रत्यञ्जने चात्र हितं तु तुत्थकम्।
समेषशृङ्गाञ्जनभागसंमितं जलोद्भवं काचमलं व्यपोहति॥
पलाशरोहीतमधूकजा रसाः क्षौद्रेण युक्ता मदिराग्रमिश्रिताः।
उशीरलोध्रत्रिफलाप्रियङ्गुभिः पचेत्तु नस्यं कफरोगशान्तये॥
विडङ्गपाठाकिणिहीङ्गुदीत्वचः प्रयोजयेद्धूमधुशीरसंयुताः।
वनस्पतिक्वाथविपाचितं घृतं हितं हरिद्रानलदे च तर्पणम्॥
समागधो माक्षिकसैन्धवाढ्यः सजाङ्गलः स्यात् पुटपाक एव च।
मनःशिलात्र्यूषणशङ्खमाक्षिकैः ससिन्धुकासीसरसाञ्जनैः क्रियाः॥
हिते च कासीसरसाञ्जने तथा वदन्ति पथ्ये गुडनागरैर्युते।
यदञ्जनं वा बहुशो निषेचितं समूत्रवर्गे त्रिफलोदके शृते॥
निशाचरास्थिस्थितमेतदञ्जनं क्षिपेच्च मासं सलिलेऽस्थिरे पुनः।
मेषस्य पुष्पैर्मधुकेन संयुतं तदञ्जनं सर्वकृते प्रयोजयेत्॥
क्रियाश्च सर्वाः क्षतजोद्भवे हितः क्रमः परिम्लायिनि चापि पित्तहृत्।
क्रमो हितः स्यन्दहरः प्रयोजितः समीक्ष्य दोषेषु यथास्वमेव च॥
दोषोदये नैव च विप्लुतिंगते द्रव्याणि नस्यादिषु योजयेद्बुधः।
पुनश्च कल्पेऽञ्जनविस्तरः शुभः प्रवक्ष्यतेऽन्यस्तमपीह योजयेत्॥
घृतं पुराणं त्रिफलां शतावरीं पटोलमुद्गामलकं यवानपि।
निषेवमाणस्य नरस्य यत्नतो भयं सुघोररात्तिमिरान्न विद्यते॥
शतावरीपायस एव केवलस्तथा कृतो वाआमलकेषु पायसः।
प्रभूतसर्पिस्त्रिफलोदकोत्तरो यवौदनो वा तिमिरं व्यपोहति॥
जीवन्तिशाकं सुनिषण्णकं च सतण्डुलीयं वरवास्तुकं च।
चिल्ली तथा मूलकपोतिका च दृष्टेर्हितं शाकुनजाङ्गलं च॥
पटोलकर्कोटककारवेल्लवार्ताकुतर्कारिकरीरजानि।
शाकानि शिग्र्वार्तगलानि चैव हितानि दृष्टेर्घृतसाधितानि॥
विवर्जयेत्सिरामोक्षं तिमिरे रागमागते।
यन्त्रेणोत्पीडितो दोषो निहन्यादाशु दर्शनम्॥
अरागि तिमिरं साध्यमाद्यं पटलमाश्रितम्।
कृच्छ्रं द्वितीये रागि स्यात्तृतीये याप्यमुच्यते॥
रागप्राप्तेष्वपि हितास्तिमिरेषु तथा क्रियाः।
यापनार्थं यथोद्दिष्टाः सेव्याश्चापि जलौकसः॥
श्लैष्मिके लिङ्गनाशे तु कर्म वक्ष्यामि सिद्धये।
न चेदर्धेन्दुघर्माम्बुबिन्दुमुक्ताकृतिः स्थिरः॥
विषमो वा तनुर्मध्ये राजिमान् वा बहुप्रभः।
दृष्टिस्थो लक्ष्यते दोषः सरुजो वा सलोहितः॥
स्निग्धस्विन्नस्य तस्याथ काले नात्युष्णशीतले।
यन्त्रितस्योपविष्टस्य स्वां नासां पश्यतः समम्॥
मतिमान् शुक्लभागौ द्वौ कृष्णान्मुक्त्वा ह्यपाङ्गतः।
उन्मील्य नयने सम्यक् सिराजालविवर्जिते॥
नाधो नोर्ध्वं न पार्श्वाभ्यां छिद्रे दैवकृते ततः।
शलाकया प्रयत्नेन विश्वस्तं यववक्रया॥
मध्यप्रदेशिन्यङ्गुष्ठस्थिरहस्तगृहीतया।
दक्षिणेन भिषक् सव्यं विध्येत् सव्येन चेतरत्॥
वारिबिन्द्वागमः सम्यग् भवेच्छब्देस्तथा व्यधे।
संसिच्य विद्धमात्रं तु योषित्स्तन्येन कोविदः॥
स्थिरे दोषे चले वापि स्वेदयेदक्षि बाह्यतः।
सम्यक् शलाकां संस्थाप्य भङ्गैरनिलनाशनैः॥
शलाकाग्रेण तु ततो निर्लिखेद्दृष्टिमण्डलम्।
विध्यतो योऽन्यपार्श्वेऽक्ष्णस्तं रुद्ध्वा नासिकापुटम्॥
उच्छिङ्घनेन हर्तव्यो दृष्टिमण्डलगः कफः।
निरभ्र इव घर्मांशुर्यदा दृष्टिः प्रकाशते॥
तदासौ लिखिता सम्यग् ज्ञेया या चापि निर्व्यथा।
(एवं त्वशक्ये निर्हर्तुं दोषे प्रत्यागतेऽपि वा॥
स्नेहाद्यैरुपपन्नस्य व्यधो भूयो विधीयते।
) ततो दृष्टेषु रूपेषु शलाकामाहरेच्छनैः॥
घृतेनाभ्यज्य नयनं वस्त्रपट्टेन वेष्टयेत्।
ततो गृहे निराबाधे शयीतोत्तान एव च॥
उद्गारकासक्षवथुष्ठीवनोत्कम्पनानि च।
तत्कालं नाचरेदूर्ध्वं यन्त्रणा स्नेहपीतवत्॥
त्र्यहात् त्र्यहाच्च धावेत कषायैरनिलापहैः।
वायोर्भयात् त्र्यहादूर्ध्वं स्वेदयेदक्षि पूर्ववत्॥
दशाहमेवं संयम्य हितं दृष्टिप्रसादनम्।
पश्चात्कर्म च सेवेत लघ्वन्नं चापि मात्रया॥
सिराव्यधविधौ पूर्वं नरा ये ऋच विवर्जिताः।
न तेषां नीलिकां विध्येदन्यत्राभिहिताद्भिषक्॥
पूर्यते शोणितेनाक्षि सिरावेधाद्विसर्पता।
तत्र स्त्रीस्तन्ययष्ट्याह्वपक्वं सेके हितं घृतम्॥
अपाङ्गासन्नविद्धे तु शोफशूलाश्रुरक्तताः।
तत्रोपनाहं भ्रूमध्ये कुर्याच्चोष्णाज्यसेचनम्॥
व्यधेनासन्नकृष्णेन रागः कृष्णं च पीड्यते।
तत्राधःशोधनं सेकः सर्पिषा रक्तमोक्षणम्॥
अथाप्युपरि विद्धे तु कष्टा रुक् संप्रवर्तते।
तत्र कोष्णेन हविषा परिषेकः प्रशस्यते॥
शूलाश्रुरागास्त्वत्यर्थमधोवेधेन पिच्छिलः।
शलाकामनु चास्रावस्तत्र पूर्वचिकित्सितम्॥
रागाश्रुवेदनास्तम्भहर्षाश्चातिविघट्टिते।
स्नेहस्वेदौ हितौ तत्र हितं चाप्यनुवासनम्॥
दोषस्त्वधोऽपकृष्टोऽपि तरुणः पुनरूर्ध्वगः।
कुर्याच्छुक्लारुणं नेत्रं तीव्ररुङ्नष्टदर्शनम्॥
मधुरैस्तत्र सिद्धेन घृतेनाक्ष्णः प्रसेचनम्।
शिरोबस्तिं च तेनैव दद्यान्मांसैश्च भोजनम्॥
दोषस्तु संजातबलो घनः संपूर्णमण्डलः।
प्राप्य नश्येच्छलाकाग्रं तन्वभ्रमिव मारुतम्॥
मूर्धाभिघातव्यायामव्यवायवमिमूर्च्छनैः।
दोषः प्रत्येति कोपाच्च विद्धोऽतितरुणश्च यः॥
शलाका कर्कशा शूलं खरा दोषपरिप्लुतिम्।
व्रणं विशालं स्थूलाग्रा तीक्ष्णा हिंस्यादनेकधा॥
जलास्रावं तु विषमा क्रियासङ्गमथास्थिरा।
करोति वर्जिता दोषैस्तस्मादेभिर्हिता भवेत्॥
अष्टाङ्गुलायता मध्ये सूत्रेण परिवेष्टिता।
अङ्गुष्ठपर्वसमिता वक्त्रयोर्मुकुलाकृतिः॥
ताम्रायसी शातकुम्भी शलाका स्यादनिन्दिता।
रागः शोफोऽर्बुदं चोषो बुद्बुदं शूकराक्षिता॥
अधिमन्थादयश्चान्ये रोगाः स्युर्व्यधदोषजाः।
अहिताचारतो वापि यथास्वं तानुपाचरेत्॥
रुजायामक्षिरागे वा योगान् भूयो निबोध मे।
गैरिकं सारिवा दूर्वा यवपिष्टं घृतं पयः॥
सुखालेपः प्रयोज्योऽयं वेदनारागशान्तये।
मृदुभृष्टैस्तिलैर्वापि सिद्धार्थकसमायुतैः॥
मातुलुङ्गरसोपेतैः सुखालेपस्तदर्थकृत्।
पयस्यासारिवापत्रमञ्जिष्ठामधुकैरपि॥
अजाक्षीरान्वितैर्लेपः सुखोष्णः पथ्य उच्यते।
दारुपद्मकशुण्ठीभिरेवमेव कृतोऽपि वा॥
द्राक्षामधुककुष्ठैर्वा तद्वत् सैधवसंयुतैः।
रोध्रसैन्धवमृद्वीकामधुकैर्वाप्यजापयः॥
शृतं सेके प्रयोक्तव्यं रुजारागनिवारणम्।
मधुकोत्पलकुष्ठैर्वा द्राक्षालाक्षासितायुतैः।
ससैन्धवैः शृतं क्षीरं रुजारागनिबर्हणम्॥
शतावरीपृथक्पर्णीमुस्तामलकपद्मकैः।
साजक्षीरैः शृतं सर्पिर्दाहशूलनिबर्हणम्॥
वातघ्नसिद्धे पयसि सिद्धं सर्पिश्चतुर्गुणे।
काकोल्यादिप्रतीवापं तद्युञ्ज्यात् सर्वकर्मसु॥
शाम्यत्येवं न चेच्छूलं स्निग्धस्विन्नस्य मोक्षयेत्।
ततः सिरां दहेद्वापि मतिमान् कीर्तितं यथा॥
दृष्टेरतः प्रसादार्थमञ्जने शृणु मे शुभे।
मेषशृङ्गस्य पुष्पाणि शिरीषधवयोरपि॥
सुमनायाश्च पुष्पाणि मुक्ता वैदूर्यमेव च।
अजाक्षीरेण संपिष्य ताम्रे सप्ताहमावपेत्॥
प्रविधाय च तद्वर्तीर्योजयेच्चाञ्जने भिषक्।
स्रोतोजं विद्रुमं फेनं सागरस्य मनःशिलाम्॥
मरिचानि च तद्वर्तीः कारयेच्चापि पूर्ववत्।
दृष्टिस्थैर्यार्थमेतत्तु विदध्यादञ्जने हितम्॥
भूयो वक्ष्यामि मुख्यानि विस्तरेणाञ्जनानि च।
कल्पे नानाप्रकाराणि तान्यपीह प्रयोजयेत्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0