भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.16

6.16.1

अथातः पक्ष्मकोपप्रतिषेधं व्याख्यास्यामः॥

6.16.2

यथोवाच भगवान् धन्वन्तरिः॥

6.16.3

याप्यस्तु यो वर्त्मभवो विकारः पक्ष्मप्रकोपोऽभिहितः पुरस्तात्।
तत्रोपविष्टस्य नरस्य चर्म वर्त्मोपरिष्टादनुतिर्यगेव॥

6.16.4

भ्रुवोरधस्तात् परिमुच्य भागौ पक्ष्माश्रितं चैकमतोऽवकृन्तेत्।
कनीनकापाङ्गसमं समन्ताद्यवाकृति स्निग्धतनोर्नरस्य॥

6.16.5

उत्कृत्य शस्त्रेण यवप्रमाणं बालेन सीव्योद्भिषगप्रमत्तः।
दत्त्वा च सर्पिर्मधुनावशेषं कुर्याद्विधानं विहितं व्रणे यत्॥

6.16.6

ललाटदेशे च निबद्धपट्टं प्राक्स्यूतमत्राप्यपरं च बद्ध्वा।
स्थैर्यं गते चाप्यथ शस्त्रमार्गे बालान् विमुञ्चेत् कुशलोऽभिवीक्ष्य॥

6.16.7

एवं न चेच्छाम्यति तस्य वर्त्म निर्भुज्य दोषोपहतां वलिं च।
ततोऽग्निना वा प्रतिसारयेत्तां क्षारेण वा सम्यगवेक्ष्य धीरः॥

6.16.8

छित्त्वा समं वाप्युपपक्ष्ममालां सम्यग्गृहीत्वा बडिशैस्त्रिभिस्तु।
पथ्याफलेन प्रतिसारयेत्तु घृष्टेन वा तौवरकेण सम्यक्॥

6.16.9

चत्वार एते विधयो विहन्तुं पक्ष्मोपरोधं पृथगेव शस्ताः।
विरेचनाश्च्योतनधूमनस्यलेपाञ्जनस्नेहरसक्रियाश्च॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc