सुश्रुतसंहिता · अध्याय 6.15
अथातश्छेद्यरोगप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
स्निग्धं भुक्तवतो ह्यन्नमुपविष्टस्य यत्नतः।
संरोषयेत्तु नयनं भिषक् चूर्णैस्तु लावणैः॥
ततः संरोषितं तूर्णं सुस्विन्नं परिधट्टितम्।
अर्म यत्र वलीजातं तत्रैतल्लगयेद्भिषक्॥
अपाङ्गं प्रेक्षमाणस्य बडिशेन समाहितः।
मुचुण्ड्याआदाय मेधावी सूचीसूत्रेण वा पुनः॥
न चोत्थापयता क्षिप्रं कार्यमभ्युन्नतं तु तत्।
शस्त्राबाधभयाच्चास्य वर्त्मनी ग्राहयेद्दृढम्॥
ततः प्रशिथिलीभूतं त्रिभिरेव विलम्बितम्।
उल्लिखन्मण्डलाग्रेण तीक्ष्णेन परिशोधयेत्॥
विमुक्तं सर्वतश्चापि कृष्णाच्छुक्लाच्च मण्डलात्।
नीत्वा कनीनकोपान्तं छिन्द्यान्नातिकनीनकम्॥
चतुर्भागस्थिते मांसे नाक्षि व्यापत्तिमृच्छति।
कनीनकवधादस्रं नाडी वाप्युपजायते॥
हीनच्छेदात् पुनर्वृद्धिं शीग्रमेवाधिगच्छति।
अर्म यज्जालवद्व्यापि तदप्युन्मार्ज्य लम्बितम्॥
छिन्द्याद्वक्रेण शस्त्रेण वर्त्मशुक्लान्तमाथितम्।
प्रतिसारणमक्ष्णोस्तु ततः कार्यमनन्तरम्॥
यावनालस्य चूर्णेन त्रिकटोर्लवणस्य च।
स्वेदयित्वा ततः पश्चाद्बध्नीयात् कुशलो भिषक्॥
दोषर्तुबलकालज्ञः स्नेहं दत्त्वा यथाहितम्।
व्रणवत् संविधानं तु तस्य कुर्यादतः परम्॥
त्र्यहान्मुक्त्वा करस्वेदं दत्त्वा शोधनमाचरेत्।
करञ्जबीजामलकमधुकैः साधितं पयः॥
हितमाश्च्योतनं शूले द्विरह्नः क्षौद्रसंयुतम्।
मधुकोत्पलकिञ्जल्कदूर्वाकल्कैश्च मूर्धनि॥
प्रलेपः सघृतः शीतः क्षीरपिष्टः प्रशस्यते।
लेख्याञ्जनैरपहरेदर्मशेषं भवेद्यदि॥
अर्म चाल्पं दधिनिभं नीलं रक्तमथापि वा।
धूसरं तनु यच्चापि शुक्रवत्तदुपाचरेत्॥
चर्माभं बहुलं यत्तु स्नायुमांसघनावृतम्।
छेद्यमेव तदर्म स्यात् कृष्णमण्डलगं च यत्॥
विशुद्धवर्णमक्लिष्टं क्रियास्वक्षि गतक्लमम्।
छिन्नेऽर्मणि भवेत् सम्यग्यथास्वमनुपद्रवम्॥
सिराजाले सिरा यास्तु कठिनास्ताश्च बुद्धिमान्।
उल्लिखेन्मण्डलाग्रेण बडिशेनावलम्बिताः॥
सिरासु पिडका जाता या न सिध्यन्ति भेषजैः।
अर्मवन्मण्डलाग्रेण तासां छेदनमिष्यते॥
रोगयोश्चैतयोः कार्यमर्मोक्तं प्रतिसारणम्।
विधिश्चापि यथादोषं लेखनद्रव्यसंभृतः॥
सन्धौ संस्वेद्य शस्त्रेण वर्णीकां विचक्षणः।
उत्तरे च त्रिभागे च बडिशेनावलम्बिताम्॥
छिन्द्यात्ततोऽर्धमग्रे स्यादश्रुनाडी ह्यतोऽन्यथा।
प्रतिसारणमत्रापि सैन्धवक्षौद्रमिष्यते॥
लेखनीयानि चूर्णानि व्याधिशेषस्य भेषजम्।
शङ्खं समुद्रफेनं च मण्डूकीं च समुद्रजाम्॥
स्फटिकं कुरुविन्दं च प्रवालाश्मन्तकं तथा।
वैदूर्यं पुलकं मुक्तामयस्ताम्ररजांसि च॥
समभागानि संपिष्य सार्धं स्रोतोञ्जनेन तु।
चूर्णाञ्जनं कारयित्वा भाजने भेषशृङ्गजे॥
संस्थाप्योभयतः कालमञ्जयेत् सततं बुधः।
अर्माणि पिडकां हन्यात् सिराजालानि तेन वै॥
अर्शस्तथा यच्च नाम्ना शुष्कार्शोऽर्बुदमेव च।
अभ्यन्तरं वर्त्मशया विधानं तेषु वक्ष्यते॥
वर्त्मोपस्वेद्य निर्भुज्य सूच्योत्क्षिप्य प्रयत्नतः।
मण्डलाग्रेण तीक्ष्णेन मूले भिन्द्याद्भिषग्वरः॥
ततः सैन्धवकासीसकृष्णाभिः प्रतिसारयेत्।
स्थिते च रुधिरे वर्त्म दहेत् सम्यक् शलाकया॥
क्षारेणावलिखेच्चापि व्याधिशेसो भवेद्यदि।
तीक्ष्णैरुभयतोभागैस्ततो दोषमधिक्षिपेत्॥
वितरेच्च यथादोषमभिष्यन्दक्रियाविधिम्।
शस्त्रकर्मण्युपरते मासं च स्यात् सुयन्त्रितः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0