सुश्रुतसंहिता · अध्याय 6.14
अथातो भेद्यरोगप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
स्वेदयित्वा बिसग्रन्थिं छिद्राण्यस्य निराशयम्।
पक्वं भित्त्वा तु शस्त्रेण सिन्धवेनावचूर्णयेत्॥
कासीसमागधीपुष्पनेपाल्येलायुतेन तु।
ततः क्षौद्रघृतं दत्त्वा सम्यग्बन्धमथाचरेत्॥
रोचनाक्षारतुत्थानि पिप्पल्यः क्षौद्रमेव च।
प्रतिसारणमेकैकं भिन्ने लगण इष्यते॥
महत्यपि च युञ्जीत क्षाराग्नी विधिकोविदः।
स्विन्नां भिन्नां विनिष्पीड्य भिषगञ्जननामिकाम्॥
शिलैलानतसिन्धूत्थैः सक्षौद्रैः प्रतिसारयेत्।
रसाञ्जनमधुभ्यां तु भित्त्वा वा शस्त्रकर्मवित्॥
प्रतिसार्याञ्जनैर्युञ्ज्यादुष्णैर्दीपशिखोद्भवैः।
सम्यक्स्विन्ने कृमिग्रन्थौ भिन्ने स्यात् प्रतिसारणम्॥
त्रिफलातुत्थकासीससैन्धवैश्च रसक्रिया।
भित्त्वोपनाहं कफजं पिप्पलीमधुसैन्धवैः॥
लेखयेन्मण्डलाग्रेण समन्तात् प्रच्छयेदपि।
संस्नेह्य पत्रभङ्गैश्च स्वेदयित्वा यथासुखम्॥
सर्वेष्वेतेषु विहितं विधानं स्नेहपूर्वकम्।
संपक्वे प्रयतो भूत्वा कुर्वीत व्रणरोपणम्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0