सुश्रुतसंहिता · अध्याय 6.12
अथातो रक्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
मन्थं स्यन्दं सिरोत्पातं सिराहर्षं च रक्तजम्।
एकेनैव विधानेन चिकित्सेच्चतुरो गदान्॥
व्याध्यार्तांश्चतुरोऽप्येतान् स्निग्धान्कौम्भेन सर्पिषा।
रसैरुदारैरथवा सिरामोक्षेण योजयेत्॥
विरिक्तानां प्रकामं च शिरांस्येषां विशोधयेत्।
वैरेचनिकसिद्धेन सितायुक्तेन सर्पिषा॥ (मज्ज्ञा वा तद्विमिश्रेण मेदसा तच्छृतेन वा।
)
ततः प्रदेहाः परिषेचनानि नस्यानि धूमाश्च यथास्वमेव।
आश्च्योतनाभ्यञ्जनतर्पणानि स्निग्धाश्च कार्याः पुटपाकयोगाः॥
नीलोत्पलोशीरकटङ्कटेरीकालीययष्टीमधुमुस्तरोध्रैः।
सपद्मकैर्धौतघृतप्रदिग्धैरक्ष्णोः प्रलेपं परितः प्रकुर्यात्॥
रुजायां चाप्यतिभृशं स्वेदाश्च मृदवो हिताः।
अक्ष्णोः समन्ततः कार्यं पातनं च जलौकसाम्॥
घृतस्य महती मात्रा पीता चार्तिं नियच्छति।
पित्ताभिष्यन्दशमनो विधिश्चाप्युपपादितः॥
कशेरुमधुकाभ्यां वा चूर्णमम्बरसंवृतम्।
न्यस्तमप्स्वान्तरिक्षासु हितमाश्च्योतनं भवेत्॥
पाटल्यर्जुनश्रीपर्णीधातकीधात्रिबिल्वतः।
पुष्पाण्यथ बृहत्योश्च बिम्बीलोटाच्च तुल्यशः॥
समञ्जिष्ठानि मधुना पिष्टानीक्षुरसेन वा।
रक्ताभिष्यन्दशान्त्यर्थमेतदञ्जनमिष्यते॥
चन्दनं कुमुदं पत्रं शिलाजतु सकुङ्कुमम्।
अयस्ताम्ररजस्तुत्थं निम्बनिर्यासमञ्जनम्॥
त्रपु कांस्यमलं चापि पिष्ट्वा पुष्परसेन तु।
विपुला याः कृता वर्त्यः पूजिताश्चाञ्जने सदा॥
स्यादञ्जनं घृतं क्षौद्रं सिरोत्पातस्य भेषजम्।
तद्वत्सैन्धवकासीसं स्तन्यघृष्टं च पूजितम्॥
मधुना शङ्खनैपालीतुत्थदार्व्यः ससैन्धवाः।
रसः शिरीषपुष्पाच्च सुरामरिचमाक्षिकैः॥
युक्तं तु मधुना वापि गैरिकं हितमञ्जने।
सिराहर्षेऽञ्जनं कुर्यात् फणितं मधुसंयुतम्॥
मधुना तार्क्ष्यजं वापि कासीअं वा ससैधवम्।
वेत्राम्लस्तन्यसंयुक्तं फाणितं च ससैन्धवम्॥
पैत्तं विधिमशेषेण कुर्यादर्जुनशान्तये।
इक्षुक्षौद्रसितास्तन्यदार्वीमधुकसैन्धवैः॥
सेकाञ्जनं चात्र हितमम्लैराश्च्योतनं तथा।
सितामधुककट्वङ्गमस्तुक्षौद्राम्लसैन्धवैः॥
बीजपूरककोलाम्लदाडिमाम्लैश्च युक्तितः।
एकशो वा द्विशो वापि योजितं वा त्रिभिस्त्रिभिः॥
स्फटिकं विद्रुमं शङ्खो मधुकं कधु चैव हि।
शङ्खक्षौद्रसितायुक्तः सामुद्रः फेन एव वा॥
द्वाविमौ विहितौ योगावञ्जनेऽर्जुननाशनौ।
सैन्धवक्षौद्रकतकाः सक्षौद्रं वा रसाञ्जनम्॥
कासीसं मधुना वापि योज्यमत्राञ्जने सदा।
लोहचूर्णानि सर्वाणि धातवो लवणानि च॥
रत्नानि दन्ताः शृङ्गाणि गणश्चाप्यवसादनः।
कुक्कुटाण्डकपालानि लशुनं कटुकत्रयम्॥
करञ्जबीजमेला च लेख्याञ्जनमिदं स्मृतम्।
पुटपाकावसानेन रक्तविस्रावणादिना॥
संपादितस्य विधिना कृत्स्नेन स्यन्दघातिना।
अनेनापहरेच्छुक्रमव्रणं कुशलो भिषक्॥
उत्तानमवगाढं वा कर्कशं वापि सव्रणम्।
शिरीषबीजमरिचपिप्पलीसैन्धवैरपि॥
शुक्रस्य घर्षणं कार्यमथवा सैन्धवेन तु।
कुर्यात्ताम्ररजःशङ्खशिलामरिचसैन्धवैः॥
अन्त्याद्द्विगुणितैरेभिरञ्जनं शुक्रनाशनम्।
कुर्यादञ्जनयोगौ वा सम्यक् श्लोकार्धिकाविमौ॥
शङ्खकोलास्थिकतकद्राक्सामधुकमाक्षिकैः।
क्षौद्रदन्तार्णवमलशिरीषकुसुमैरपि॥
क्षाराञ्जनं वा वितरेद्बलासग्रथितापहम्।
मुद्गान् वा निस्तुषान् भृष्टान् शङ्खक्षौद्रसितायुतान्॥
मधूकसारं मधुना योजयेच्चाञ्जने सदा।
बिभीतकास्थिमज्जा वा सक्षौद्रः शुक्रनाशनः॥
शङ्खशुक्तिमधुद्राक्षामधुकं कतकानि च।
द्वित्वग्गते सशूले वा वातघ्नं तर्पणं हितम्॥
वंशजारुष्करौ तालं नारिकेलं च दाहयेत्।
विस्राव्य क्सारवच्चूर्णं भावयेत्करभास्थिजम्॥
बहुशोऽञ्जनमेतत्स्याच्छुक्रवैवर्ण्यनाशनम्।
अजकां पार्श्वतो विद्ध्वा सूच्या विस्राव्य चोदकम्॥
व्रणं गोमांसचूर्णेन पूरयेत् सर्पिषा सह।
बहुशोऽवलिखेच्चापि वर्त्मास्योपगतं यदि॥
सशोफश्चाप्यशोफश्च द्वौ पाकौ यौ प्रकीर्तितौ।
स्नेहस्वेदोपपन्नस्य तत्र विद्ध्वा सिरां भिषक्॥
सेकाश्च्योतननस्यानि पुटपाकांश्च कारयेत्।
सर्वतश्चापि शुद्धस्य कर्तव्यमिदमञ्जनम्॥
ताम्रपात्रस्थितं मासं सर्पिः सैन्धवसंयुतम्।
मैरेयं वापि दध्येवं दध्युत्तरकमेव वा॥
घृतं कांस्यमलोपेतं स्तन्यं वापि ससैन्धवम्।
मधूकसारं मधुना तुल्यांशं गैरिकेण वा॥
सर्पिःसैन्धवताम्राणि योषित्स्तन्ययुतानि वा।
दाडिमारेवताश्मन्तकोलाम्लैश्च ससैन्धवाम्।
रसक्रियां वा वितरेत्सम्यक्पाकजिघांसया॥
मासं सैन्धवसंयुक्तं स्थितं सर्पिषि नागरम्।
आश्च्योतनाञ्जनं योज्यमबलाक्षीरसंयुतम्॥
जात्याः पुष्पं सैन्धवं शृङ्गवेरं कृष्णाबीजं कीटशत्रोश्च सारम्।
एतत् पिष्टं नेत्रपाकेऽञ्जनार्थं क्षौद्रोपेतं निर्विशङ्कं प्रयोज्यम्॥
पूयालसे शोणितमोक्षणं च हितं तथैवाप्युपनाहनं च।
कृत्स्नो विधिश्चेक्षणपाकघाती यथाविधानं भिषजा प्रयोज्यः॥
कासीससिन्धुप्रभवार्द्रकैस्तु हितं भवेदञ्जनमेव चात्र।
क्षौद्रान्वितैरेभिरथोपयुञ्ज्यादन्यत्तु ताम्रायसचूर्णयुक्तैः॥
स्नेहादिभिः सम्यगपास्य दोषांस्तृप्तिं विधायाथ यथास्वमेव।
प्रक्लिन्नवर्त्मानमुपक्रमेत सेकाञ्जनाश्च्योतननस्यधूमैः॥
मुस्ताहरिद्रामधुकप्रियङ्गुसिद्धार्थरोध्रोत्पलसारिवाभिः।
क्षुण्णाभिराश्च्योतनमेव कार्यमत्राञ्जनं चाञ्जनमाक्षिकं स्यात्॥
पत्रं फलं चामलकस्य पक्त्वा क्रियां विदध्यादथवाञ्जनार्थे।
वंशस्य भूलेन रसक्रियां वा वर्तीकृतां ताम्रकपालपक्वाम्॥
रसक्रियां वा त्रिफलाविपक्वां पलाशपुष्पैः स्वरमञ्जरेर्वा।
पिष्ट्वा छगल्याः पयसा मलं वा कांसस्य दग्ध्वा सह तान्तवेन॥
प्रत्यञ्जनं तन्मरिचैरुपेतं चूर्णेन ताम्रस्य सहोपयोज्यम्।
समुद्रफेनं लवणोत्तमं च शङ्खोऽथ मुद्गो मरिचं च शुक्लम्॥
चूर्णाञ्जनं जाड्यमथापि कण्डूमक्लिन्नवर्त्मान्युपहन्ति शीघ्रम्।
प्रक्लिन्नवर्त्मन्यपि चैत एव योगाः प्रयोज्याश्च समीक्ष्य दोषम्॥
सकज्जलं ताम्रघटे च घृष्टं सर्पिर्युतं तुल्थकमञ्जनं च॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0