सुश्रुतसंहिता · अध्याय 6.13
अथातो लेख्यरोगप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
नव येऽभिहिता लेख्याः सामान्यस्तेष्वयं विधिः।
स्निग्धवान्तविरिक्तस्य निवातातपसद्मनि॥
(आप्तैर्दृढं गृहीतस्य वेश्मन्युत्तानशायिनः।
) सुखोदकप्रतप्तेन वाससा सुसमाहितः।
स्वेदयेद्वर्त्म निर्भुज्य वामाङ्गुष्ठाङ्गुलिस्ह्तितम्॥
अङ्गुल्यङ्गुष्ठकाभ्यां तु निर्भुग्नं वर्त्म यत्नतः।
प्लोतान्तराभ्यां न यथा चलति स्रंसतेऽपि वा॥
ततः प्रमृज्य प्लोतेन वर्त्म शस्त्रपदाङ्कितम्।
लिखेच्छस्त्रेण पत्रैर्वा ततो रक्ते स्थिते पुनः॥
स्विन्नं मनोह्वाकासीसव्योषार्द्राञ्जनसैन्धवैः।
श्लक्ष्णपिष्टैः समाक्षीकैः प्रतिसार्योष्णवारिणा॥
प्रक्षाल्य हविषा सिक्तं व्रणवत् समुपाचरेत्।
स्वेदावपीडप्रभृतींस्त्र्यहादूर्ध्वं प्रयोजयेत्॥
व्यासतस्ते समुद्दिष्टं विधानं लेख्यकर्मणि।
असृगास्रावरहितं कण्डूशोफविवर्जितम्॥
समं नखनिभं वर्त्म लिखितं सम्यगिष्यते।
रक्तमक्षि स्रवेत् स्कन्नं क्षताच्छस्त्रकृताद्ध्रुवम्॥
रागशोफपरिस्रावास्तिमिरं व्याध्यनिर्जयः।
वर्त्म श्यावं गुरु स्तब्धं कण्डूहर्षोपदेहवत्॥
नेत्रपाकमुदीर्णं वा कुर्वीताप्रतिकारिणः।
एतद्दुर्लिखितं ज्ञेयं स्नेहयित्वा पुनर्लिखेत्॥
व्यावर्तते यदा वर्त्म पक्ष्म चापि विमुह्यति।
स्यात् सरुक् स्रावबहुलं तदतिस्रावितं विदुः॥
स्नेहस्वेदादिरिष्टः स्यात् क्रमस्तत्रानिलापहः।
वर्त्मावबन्धं क्लिष्टं च बहलं यच्च कीर्तितम्॥
पोथकीश्चाप्यवलिखेत् प्रच्छयित्वाग्रतः शनैः।
समं लिखेत्तु मेधावी श्यावकर्दमवर्त्मनी॥
कुम्भीकिनीं शर्करां च तथैवोत्सङ्गिनीमपि।
कल्पयित्वा तु शस्त्रेण लिखेत् पश्चादतन्द्रितः॥
भवेयुर्वर्त्मसु च याः पिडकाः कठिना भृशम्।
ह्रस्वास्ताम्राश्च ताः पक्वा भिन्द्याद्भिन्ना लिखेदपि॥
तरुणीश्चाल्पसंरम्भा पिडका बाह्यवर्त्मजाः।
विदित्वैताः प्रशमयेत् स्वेदालेपनशोधनैः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0