सुश्रुतसंहिता · अध्याय 6.11
अथातः श्लेष्माभिष्यन्दप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
स्यन्दाधिमन्थौ कफजौ प्रवृद्धौ जयेत् सिराणामथ मोक्षणेन।
स्वेदावपीडाञ्जनधूमसेकप्रलेपयोगैः कवलग्रहैश्च॥
रूक्षैस्तथाआश्च्योतनसंविधानैस्तथैव रूक्सैः पुटपाकयोगैः।
त्र्यहात्त्र्यहाच्चाप्यपतर्पणान्ते प्रातस्तयोस्तिक्तघृतं प्रशस्तम्॥
तदन्नपानं च समाचरेद्धि यच्छ्लेष्मणो नैव करोति वृद्धिम्।
कुटन्नटास्फोटफणिज्ज्ञबिल्वपत्तूरपिल्वर्ककपित्थभङ्गैः॥
स्वेदं विदध्यात् अथवानुलेपं बर्हिष्ठशुण्ठीसुरकाष्ठकुष्ठैः।
सिन्धूत्थहिङ्गुत्रिफलामधूकप्रपौण्डरीकाञ्जनतुत्थताम्रैः॥
पिष्टैर्जलेनाञ्जनवर्तयः स्युः पथ्याहरिद्रामधुकाञ्जनैर्वा।
त्रीण्यूषणानि त्रिफला हरिद्रा विडङ्गसारश्च समानि च स्युः॥
बर्हिष्ठकुष्ठामरकाष्ठशङ्खपाठामलव्योषमनःशिलाश्च।
पिष्ट्वाम्बुना वा कुसुमानि जातिकरञ्जशोभाञ्जनजानि युञ्ज्यात्॥
फलं प्रकीर्यादथवापि शिग्रोः पुष्पं च तुल्यं बृहतीद्वयस्य।
रसाञ्जनं सैन्धवचन्दनं च मनःशिलाले लशुनं च तुल्यम्॥
पिष्ट्वाञ्जनार्थे कफजेषु धीमान् वर्तीर्विदध्यान्नयनामयेषु।
रोगे बलासग्रथितेऽञ्जनं ज्ञैः कर्तव्यमेतत् सुविशुद्धकाये॥
नीलान् यवान् गव्यपयोऽनुपीतान् शलाकिनः शुष्कतनून् विदह्य।
तथार्जकास्फोतकपित्थबिल्वनिर्गुण्डिजातीकुसुमानि चैव॥
तत्क्षारवत्सैन्धवतुत्थरोचनं पक्वं विदध्यादथ लोहनाड्याम्।
एतद्बलासग्रथितेऽञ्जनं स्यादेषोऽनुकल्पस्तु फणिज्ज्ञकादौ॥
महौषधं मागधिकां च मुस्तां ससैन्धवं यन्मरिचं च शुक्लम्।
तन्मातुलुङ्गस्वरसेन पिष्टं नेत्राञ्जनं पिष्टकमाशु हन्यात्॥
फले बृहत्या मगधोद्भवाना निधाय कल्कं फलपाककाले।
स्रोतोजयुक्तं च तदुद्धृतं स्यात्तद्वत्तु पिष्टे विधिरेष चापि॥
वार्ताकशिग्र्विन्द्रसुरापटोलकिराततिक्तामलकीफलेषु।
कासीससामुद्ररसाञ्जनानि जात्यास्तथा क्षारकम्(कोरकम्)एव चापि॥
प्रक्लिन्नवर्त्मन्युपदिश्यते तु योगाञ्जनं तन्मधुनावघृष्टम्।
नादेयमग्र्यं मरिचं च शुक्लं नेपालजाता च समप्रमाणा॥
समातुलुङ्गद्रव एष योगः कण्डूं निहन्यात् सकृदञ्जनेन।
सशृङ्गवेरं सुरदारु मुस्तं सिन्धुप्रभूतं(प्रसूतं) मुकुलानि जात्याः॥
सुराप्रपिष्टं त्विदमञ्जनं हि कण्ड्वां च शोफे च हितं वदन्ति।
स्यन्दाधिमन्थक्रममाचरेच्च सर्वेषु चैतेषु सदाप्रमत्तः॥ (विशेषतो नावनमेव कार्यं संसर्जनं चापि यथोपदिष्टम्)
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0