सुश्रुतसंहिता · अध्याय 6.10
अथातः पित्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
पित्तस्यन्दे पैत्तिके चाधिमन्थे रक्तास्रावः स्रंसनं चापि कार्यम्।
अक्ष्णोः सेकालेपनस्याञ्जनानि पैत्ते च स्याद्यद्विसर्पे विधानम्॥
गुन्द्रां शालिं शैवलं शैलभेदं दार्वीमेलामुत्पलं रोध्रमभ्रम्।
पद्मात्पत्रं शर्करा दर्भमिक्षुं तालं रोध्रं वेतसं पद्मकं च॥
द्राक्षां क्षौद्रं चन्दनं यष्टिकाह्वं योषित्क्षीरं रात्र्यनन्ते च पिष्ट्वा।
सर्पिःसिद्धं तर्पणे सेकनस्ये शस्तं क्षीरं सिद्धमेतेषु चाजम्॥
योज्यो वर्गो व्यस्त एषोऽन्यथा वा सम्यङ्नस्येऽष्टार्धसंख्येऽपि नित्यम्।
क्रियाः सर्वाः पित्तहर्यः प्रशस्तास्त्र्यहाच्चोर्ध्वं क्षीरसर्पिश्च नस्यम्॥
पालाशं स्याच्छोणितं चाञ्जनार्थे शल्लक्या वा शर्कराक्षौद्रयुक्तम्।
रसक्रियां शर्कराक्षौद्रयुक्तां पालिन्द्यां वा मधुके वापि कुर्यात्॥
मुस्ता फेनः सागरस्योत्पलं च कृमिघ्नैलाधात्रिबीजाद्रसश्च।
तालीशैलागैरिकोशीरशङ्खैरेवं युञ्ज्यादञ्जनं स्तन्यपिष्टैः॥
चूर्णं कुर्यादञ्जनार्थे रसो वा स्तन्योपेतो धातकीस्यन्दनाभ्याम्।
योषित्स्तन्यं शातकुम्भं विघृष्टं क्षौद्रोपेतं कैशुकं चापि पुष्पम्॥
रोध्रं द्राक्षां शर्करामुत्पलं च नार्याः क्षीरे यष्टिकाह्वं वचां च।
पिष्ट्वा क्षीरे वर्णकस्य त्वचं च तोयोन्मिश्रे चन्दनोदुम्बरे च॥
कार्यः फेनः सागरस्याञ्जनार्थे नारीस्तन्ये माक्षिके चापि घृष्टः।
योषित्स्तन्ये स्थापितं यष्टिकाह्वं रोध्रं द्राक्षां शर्करामुत्पलं च॥
क्षौमाबद्धं पथ्यमाश्च्योतने वा सर्पिर्घृष्टं यष्टिकाह्वं सरोध्रम्।
तोयोन्मिश्राः काश्मरीधात्रिपथ्यास्तद्वच्चाहुः कट्फलं चाम्बुनैव॥
एषोऽम्लाख्येऽनुक्रमश्चापि शुक्तौ कार्यः सर्वः स्यात्सिरामोक्षवर्ज्यः॥
सर्पिः पेयं त्रैफलं तैल्वकं वा पेयं वा स्यात् केवलं यत् पुराणम्।
दोषेऽधस्ताच्छुक्तिकायामपास्ते शीतैर्द्रव्यैरञ्जनं कार्यमाशु॥
वैदूर्यं यत् स्फाटिकं वैद्रुमं च मौक्तं शाङ्खं राजतं शातकुम्भम्।
चूर्णं सूक्ष्मं शर्कराक्षौद्रयुक्तं शुक्तिं हन्यादञ्जनं चैतदाशु॥
युञ्ज्यात् सर्पिर्धूमदर्शी नरस्तु शेषं कुर्याद्रक्तपित्ते विधानम्।
यच्चैवान्यत् पित्तहृच्चापि सर्वं यद्वीसर्पे पैत्तिके वै विधानम्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0