भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 5.8

5.8.1

अथातः कीटकल्पं व्याख्यास्यामः॥

5.8.2

यथोवाच भगवान् धन्वन्तरिः॥

5.8.3

सर्पाणां शुक्रविण्मूत्रशवपूत्यण्डसंभवाः।
वाय्वग्न्यम्बुप्रकृतयः कीटास्तु विविधाः स्मृताः॥

5.8.4

सर्वदोषप्रकृतिभिर्युक्तास्ते परिणामतः।
कीटत्वेऽपि सुघोराः स्युः सर्व एव चतुर्विधाः॥

5.8.5

कुम्भीनसस्तुण्डिकेरी शृङ्गी शतकुलीरकः।
उच्चिटिङ्गोऽग्निनामा च चिच्चिटिङ्गो मयूरिका॥

5.8.6

आवर्तकस्तथोरभ्रः सारिकामुखवैदलौ।
शरावकुर्दोऽभीराजिः परुषश्चित्रशीर्षकः॥

5.8.7

शतबाहुश्च यश्चापि रक्तराजिश्च कीर्तितः।
अष्टादशेति वायव्याः कीटाः पवनकोपनाः॥

5.8.8

तैर्भवन्तीह दष्टानां रोगा वातनिमित्तजाः।
कौण्डिन्यकः कणभको वरटी पत्रवृश्चिकः॥

5.8.9

विनासिका ब्राह्मणिका बिन्दुलो भ्रमरस्तथा।
बाह्यकी पिच्चिटः कुम्भी वर्चःकीटोऽरिमेदकः॥

5.8.10

पद्मकीटो दुन्दुभिको मकरः शतपादकः।
पञ्चालकः पाकमत्स्यः कृष्णतुण्डोऽथ गर्दभी॥

5.8.11

क्लीतः कृमिसरारी च यश्चाप्युत्क्लेशकस्तथा।
एते ह्यग्निप्रकृतयश्चतुर्विंशतिरेव च॥

5.8.12

तैर्भवन्तीह दष्टानां रोगाः पित्तनिमित्तजाः।
विश्वम्भरः पञ्चशुक्लः पञ्चकृष्णोऽथ कोकिलः॥

5.8.13

सैरेयकः प्रचलको वलभः किटिभस्तथा।
सूचीमुखः कृष्णगोधा यश्च काषायवासिकः॥

5.8.14

कीटो गर्दभकश्चैव तथा त्रोटक एव च।
त्रयोदशैते सौम्याः स्युः कीटाः श्लेष्मप्रकोपणाः॥

5.8.15

तैर्भवन्तीह दष्टानां रोगाः कफनिमित्तजाः।
तुङ्गीनासो विचिलकस्तालको वाहकस्तथा॥

5.8.16

कोष्ठागारी क्रिमिकरो यश्च मण्डलपुच्छकः।
तुण्डनाभः(तुङ्गनाभः) सर्षपिको वल्गुलिः शम्बुकस्तथा॥

5.8.17

अग्निकीटश्च विज्ञेया द्वादश प्राणनाशनाः।
तैर्भवन्तीह दष्टानां वेगज्ञानानि सर्पवत्॥

5.8.18

तास्ताश्च वेदनास्तीव्रा रोगा वै सान्निपातिकाः।
क्षराग्निदग्धवद्दंशो रक्तपीतसितारुणः॥

5.8.19

ज्वराङ्गमर्दरोमाञ्चवेदनाभिः समन्वितः।
छर्द्यतीसारतृष्णाश्च दाहो मूर्च्छा विजृम्भिका॥

5.8.20

वेपथुश्वासहिक्काश्च दाहः शीतं च दारुणम्।
पिडकोपचयः शोफो ग्रन्थयो मण्डलानि च॥

5.8.21

दद्रवः कर्णिकाश्चैव विसर्पाः किटिभानि च।
तैर्भवन्तीह दष्टानां यथास्वं चाप्युपद्रवाः॥

5.8.22

येऽन्ये तेषां विशेषास्तु तूर्णं तेषां समादिशेत्।
दूषीविषप्रकोपाच्च तथैव विषलेपनात्॥

5.8.23

लिङ्गं तीक्ष्णविषेष्वेतच्छृणु मन्दविषेष्वतः।
प्रसेकारोचकच्छर्दिशिरोगौरवशीतकाः॥

5.8.24

पिडकाकोठकण्डूनां जन्म दोषविभागतः।
योगैर्नानाविधैरेषां चूर्णानि गरमादिशेत्॥

5.8.25

दूषीविषप्रकाराणां तथा चाप्यनुलेपनात्।
एकजातीनतस्तूर्ध्वं कीटान् वक्ष्यामि भेदतः॥

5.8.26

सामान्यतो दष्टलिङ्गैः साध्यासाध्यक्रमेण च।
त्रिकण्टः करिणी चापि हस्तिकक्षोऽपराजितः।
चत्वार एते कणभा व्याख्यातास्तीव्रवेदनाः॥

5.8.27

तैर्दष्टस्य श्वयथुरङ्गमर्दो गुरुता गात्राणां दंशः कृष्णश्च भवति॥

5.8.28

प्रतिसूर्यकः, पिङ्गाभासो, बहुवर्णो, निरूपमो गोधेरेक इति पञ्च गोधेरकाः; तैर्दष्टस्य शोफो दाहरुजौ च भवतः, गोधेरकेणैतदेव ग्रन्थिप्रादुर्भावो ज्वरश्च॥

5.8.29

गलगोलिका श्वेता, कृष्णा, रक्तराजी, रक्तमण्डला, सर्वश्वेता, सर्षपिकेत्येवं षट्; ताभिर्दष्टे सर्षपिकावर्जं दाहशोफक्लेदा भवन्ति, सर्षपिकया हृदयपिडातिसारश्च, तासु मध्ये सर्षपिका प्राणहरी॥

5.8.30

शतपद्यस्तु परुषा, कृष्णा, चित्रा, कपिला, पीतिका, रक्ता, श्वेता, अग्निप्रभा, इत्यष्टौ; ताभिर्दष्टे शोफो वेदना दाहश्च हृदये, श्वेताग्निप्रभाभ्यामेतदेव दाहो मूर्च्छा चातिमात्रं श्वेतपिडकोत्पत्तिश्च॥

5.8.31

मण्डूकाः कृष्णः, सारः, कुहको, हरितो, रक्तो, यववर्णाभो, भृकुटी, कोटिकश्चेत्यष्टौ; तैर्दष्टस्य दंशे कण्डूर्भवति पीतफेनागमश्च वक्त्रात्, भृकुटीकोटिकाभ्यामेतदेव दाहश्छर्दिर्मूर्च्छा चातिमात्रम्॥

5.8.32

विश्वम्भराभिर्दष्टे दंशः सर्षपाकाराभिः पिडकाभिः सरुजाभिश्चीयते, शीतज्वरार्तश्च पुरुषो भवति॥

5.8.33

अहिण्डुकाभिर्दष्टे तोददाहकण्डुश्चयथवो भवन्ति मोहश्च; कण्डूमकाभिर्दष्टे पीताङ्गश्छर्द्यतीसारज्वरादिभिरभिहन्यते; शूकवृन्ताभिर्दष्टे कण्डूकोठाः प्रवर्धन्ते शूकं चात्र लक्ष्यते॥

5.8.34

पिपीलिकाः स्थूलशीर्षा, संवाहिका, ब्रह्मणिका, अङ्गुलिका; कपिलिका, चित्रवर्णेति षट्; ताभिर्दष्टे दंशे श्वयथुरग्निस्पर्शवद्दाहशोफौ भवतः॥

5.8.35

मक्षिकाः कान्तारिका, कृष्णा, पिङ्गला, मधूलिका, काषायी, स्थालिकेत्येवं षट्; ताभिर्दष्टस्य कण्डुशोफदाहरुजो भवन्ति, स्थालिकाकाषायीभ्यामेतदेव श्यावपिडकोत्पत्तिरुपद्रवाश्च ज्वरादयो भवन्ति, काषायी स्थालिका च प्राणहरे॥

5.8.36

मशकाः सामुद्रः, परिमण्डलो, हस्तिमशकः, कृष्णः, पार्वतीय इति पञ्च; तैर्दष्टस्य तीव्रा कण्डूर्दंशशोफश्च, पार्वतीयस्तु कीटैः प्राणहरैस्तुल्यलक्षणः॥

5.8.37

नखावकृष्टेऽत्यर्थं पिडकादाहपाका भवन्ति।
जलौकसां दष्टलक्षणमुक्तं चिकित्सितं च॥

5.8.38

भवन्ति चात्र गोधेरकः स्थालिका च ये च श्वेताग्निसप्रभे।
भृकुटी कोटिकश्चैव न सिध्यन्त्येकजातिषु॥

5.8.39

शवमूत्रपुरीषैस्तु सविषैरवमर्शनात्।
स्युः कण्डूदाहकोठारुःपिडकातोदवेदनाः॥

5.8.40

प्रक्लेदवांस्तथा स्रावो भृशं संपाचयेत्त्वचम्।
दिग्धविद्धक्रियास्तत्र यथावदवचारयेत्॥

5.8.41

नावसन्नं न चोत्सन्नमतिसंरम्भवेदनम्।
दंशादौ विपरीतार्ति कीटदष्टं सुबाधकम्॥

5.8.42

दष्टानुग्रविषैः कीटैः सर्पवत् समुपाचरेत्।
त्रिविधानां तु पूर्वेषां त्रैविध्येन क्रिया हिताः॥

5.8.43

स्वेदमालेपनं सेकं चोष्णमत्रावचारयेत्।
अन्यत्र मूर्च्छिताद्दंशात् पाककोथप्रपीडितात्॥

5.8.44

विषघ्नं च विधिं सर्वं बहुशः शोधनानि च।
शिरीषकटुकाकुष्ठवचारजनिसैन्धवैः॥

5.8.45

क्षीरमज्जवसासर्पिःशुण्ठीपिप्पलिदारुषु।
उत्कारिका स्थिरादौ वा सुकृता स्वेदने हिता॥

5.8.46

न स्वेदयेत चादंशं धूमं वक्ष्यामि वृश्चिके।
अगदानेकजातीषु प्रवक्ष्यामि पृथक् पृथक्॥

5.8.47

कुष्ठं वक्रं वचा पाठा बिल्वमूलं सुवर्चिका।
गृहधूमं हरिद्रे द्वे त्रिकण्टकविषे हिताः॥

5.8.48

रजन्यागारधूमश्च वक्रं कुष्ठं पलाशजम्।
गलगोलिकदष्टानामगदो विषनाशनः॥

5.8.49

कुङ्कुमं तगरं शिग्रु पद्मकं रजनीद्वयम्।
अगदो जलपिष्टोऽयं शतपद्विषनाशनः॥

5.8.50

मेषशृङ्गी वचा पाठा निचुलो रोहिणी जलम्।
सर्वमण्डूकदष्टानामगदोऽयं विषापहः॥

5.8.51

धवाश्वगन्धातिबलाबलासातिगुहागुहाः।
विश्वम्भराभिदष्टानामगदोऽयं विषापहः॥

5.8.52

शिरीषं तगरं कुष्ठं शालिपर्णी सहा निशे।
अहिण्डुकाभिर्दष्टानामगदो विषनाशनः॥

5.8.53

कण्डूमकाभिर्दष्टानां रात्रौ शीताः क्रिया हिताः।
दिवा ते नैव सिध्यन्ति सूर्यरश्मिबलार्दिताः॥

5.8.54

वक्रं कुष्ठमपामार्गः शूकवृन्तविषेऽगदः।
भृङ्गस्वरसपिष्टा वा कृष्णवल्मीकमृत्तिका॥

5.8.55

पिपीलिकाभिर्दष्टानां मक्षिकामशकैस्तथा।
गोमूत्रेण युतो लेपः कृष्णवल्मीकमृत्तिका॥

5.8.56

नखावघृष्टसंजाते शोफे भृङ्गरसो हितः।
प्रतिसूर्यकदष्टानां सर्पदष्टवदाचेरेत्।
त्रिविधा वृश्चिकाः प्रोक्ता मन्दमध्यमहाविषाः॥

5.8.57

गोशकृत्कोथजा मन्दा मध्याः काष्ठेष्टिकोद्भवाः।
सर्पकोथोद्भवास्तीक्ष्णा ये चान्ये विषसंभवाः॥

5.8.58

मन्दा द्वादश मध्यास्तु त्रयः पञ्चदशोत्तमाः।
दश विंशतिरित्येते संख्यया परिकीर्तिताः॥

5.8.59

कृष्णः श्यावः कर्बुरः पाण्डुवर्णो गोमूत्राभः कर्कशो मेचकश्च।
पीतो धूम्रो रोमशः शाड्वलाभो रक्तः श्वेतेनोदरेणेति मन्दाः॥

5.8.60

युक्ताश्चैते वृश्चिकाः पुच्छदेशे स्युर्भूयोभिः पर्वभिश्चेतरेभ्यः।
एभिर्दष्टे वेदना वेपथुश्च गात्रस्तम्भः कृष्णरक्तागमश्च॥

5.8.61

शाखादष्टे वेदना चोर्ध्वमेति दाहस्वेदौ दंशशोफो ज्वरश्च।
रक्तः पीतः कापिलेनोदरेण सर्वे धूम्राः पर्वभिश्च त्रिभिः स्युः॥

5.8.62

एते मूत्रोच्चारपूत्यण्डजाता मध्या ज्ञेयास्त्रिप्रकारोरगाणाम्।
यस्यैतेषामन्वयाद्यः प्रसूतो दोषोत्पत्तिं तत्स्वरूपां स कुर्यात्॥

5.8.63

जिह्वाशोफो भोजनस्यावरोधो मूर्च्छा चोग्रा मध्यवीर्याभिदष्टे।
श्वेतश्चित्रः श्यामलो लोहिताभो रक्तः श्वेतो रक्तनीलोदरौ च॥

5.8.64

पीतोऽरक्तो नीलपीतोऽपरस्तु रक्तो नीलो नीलशुक्लस्तथा च।
रक्तो बभ्रुः पूर्ववच्चैकपर्वा यश्चापर्वा पर्वणी द्वे च यस्य॥

5.8.65

नानारूपा वर्णतश्चापि घोरा ज्ञेयाश्चैते वृश्चिकाः प्राणचौराः।
जन्मैतेषां सर्पकोथात् प्रदिष्टं देहेभ्यो वा घातितानां विषेण॥

5.8.66

एभिर्दष्टे सर्पवेगप्रवृत्तिः स्फोटोत्पत्तिर्भ्रान्तिदाहौ ज्वरश्च।
खेभ्यः कृष्णं शोणितं याति तीव्रं तस्मात् प्राणैस्त्यज्यते शीघ्रमेव॥

5.8.67

उग्रमध्यविषैर्दष्टं चिकित्सेत् सर्पदष्टवत्।
आदंशं स्वेदितं चूर्णैः प्रच्छितं प्रतिसारयेत्॥

5.8.68

रजनीसैन्धवव्योषशिरीषफलपुष्पजैः।
मातुलुङ्गाम्लगोमूत्रपिष्टं च सुरसाग्रजम्॥

5.8.69

लेपे स्वेदे सुखोष्णं च गोमयं हितमिष्यते।
पाने क्षौद्रयुतं सर्पिः क्षीरं वा बहुशर्करम्॥

5.8.70

दंशं मन्दविषाणां तु चक्रतैलेन सेचयेत्।
विदारीगणसिद्धेन सुखोष्णेनाथवा पुनः॥

5.8.71

कुर्याच्चोत्कारिकास्वेदं विषघ्नैरुपनाहयेत्।
गुडोदकं वा सुहिमं चातुर्जातकसंयुतम्॥

5.8.72

पानमस्मै प्रदातव्यं क्षीरं वा सगुडं हिमम्।
शिखिकुक्कुटबर्हाणि सैन्धवं तैलसर्पिषी॥

5.8.73

धूमो हन्ति प्रयुक्तस्तु शीघ्रं वृश्चिकजं विषम्।
कुसुम्भपुष्पं रजनी निशा वा कोद्रवं तृणम्॥

5.8.74

एभिर्घृताक्तैर्धूपस्तु पायुदेशे प्रयोजितः।
नाशयेदाशु कीटोत्थं वृश्चिकस्य च यद्विषम्॥

5.8.75

लूताविषं घोरतमं दुर्विज्ञेयतमं च तत्।
दुश्चिकित्स्यतमं चापि भिषग्भिर्मन्दबुद्धिभिः॥

5.8.76

सविषं निर्विषं चैतदित्येवं परिशङ्किते।
विषघ्नमेव कर्तव्यमविरोधि यदौषधम्॥

5.8.77

अगदानां हि संयोगो विषजुष्टस्य युज्यते।
निर्विषे मानवे युक्तोऽगदः संपद्यतेऽसुखम्॥

5.8.78

तस्मात् सर्वप्रयत्नेन ज्ञातव्यो विषनिश्चयः।
अज्ञात्वा विषसद्भावं भिषग्व्यापादयेन्नरम्॥

5.8.79

प्रोद्भिद्यमानस्तु यथाङ्कुरेण न व्यक्तजातिः प्रविभाति वृक्षः।
तद्वद्दुरालक्ष्यतमं हि तासां विषं शरीरे प्रविकीर्णमात्रम्॥

5.8.80

ईषत्सकण्डु प्रचलं सकोठमव्यक्तवर्णं प्रथमेऽहनि स्यात्।
अन्तेषु शूनं परिनिम्नमध्यं प्रव्यक्तरूपं च दिने द्वितीये॥

5.8.81

त्र्यहेण तद्दर्शयतीह रूपं विषं चतुर्थेऽहनि कोपमेति।
अतोऽधिकेऽह्नि प्रकरोति जन्तोर्विषप्रकोपप्रभवान् विकारान्॥

5.8.82

षष्ठे दिने विप्रसृतं तु सर्वान् मर्मप्रदेशान् भृशमावृणोति।
तत् सप्तमेऽत्यर्थपरीतगात्रं व्यापादयेन्मर्त्यमतिप्रवृद्धम्॥

5.8.83

यास्तीक्ष्णचण्डोग्रविषा हि लूतास्ताः सप्तरात्रेण नरं निहन्युः।
अतोऽधिकेनापि निहन्युरन्या यासां विषं मध्यमवीर्यमुक्तम्॥

5.8.84

यासां कनीयो विषवीर्यमुक्तं ताः पक्षमात्रेण विनाशयन्ति।
तस्मात् प्रयत्नं भिषगत्र कुर्यादादंशपाताद्विषघातियोगैः॥

5.8.85

विषं तु लालानखमूत्रदंष्ट्रारजःपुरीषैरथ चेन्द्रियेण।
सप्तप्रकारं विसृजन्ति लूतास्तदुग्रमध्यावरवीर्ययुक्तम्॥

5.8.86

सकण्डुकोठं स्थिरमल्पमूलं लालाकृतं मन्दरुजं वदन्ति।
शोफश्च कण्डूश्च पुलालिका च धूमायनं चैव नखाग्रदंशे॥

5.8.87

दंशं तु मूत्रेण सकृष्णमध्यं सरक्तपर्यन्मवेहि दीर्णम्।
दंष्ट्राभिरुग्रं कठिनं विवर्णं जानीहि दंशं स्थिरमण्डलं च॥

5.8.88

रजःपुरीषेन्द्रियजं हि विद्धि स्फोटं विपक्वामलपीलुपाण्डुम्।
एतावदेतत् समुदाहृतं तु वक्ष्यामि लूताप्रभवं पुराणम्॥

5.8.89

सामान्यतो दष्टमसाध्यसाध्यं चिकित्सितं चापि यथाविशेषम्।

5.8.90

विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम्।
वशिष्ठं कोपयामास गत्वाआश्रमपदं किल॥

5.8.91

कुपितस्य मुनेस्तस्य ललाटात् स्वेदबिन्दवः।
अपतन् दर्शनादेव स्वेस्तत्समतेजसः॥

5.8.92

तृणे महर्षिणा लूने धेन्वर्थं संभृतेऽपि च।
ततो जातास्त्विमा घोरा नानारूपा महाविषाः।
अपकाराय वर्तन्ते नृपसाधनवाहने॥

5.8.93

यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः।
तस्माल्लूतेति भाष्यन्ते सङ्ख्यया ताश्च षोडश॥

5.8.94

कृच्छ्रसाध्यास्तथासाध्या लूतास्तु द्विविधाःस्मृताः।
तस्मामष्टौ कृच्छ्रसाध्या वर्ज्यास्तावत्य एव तु॥

5.8.95

त्रिमण्डला तथा श्वेता कपिला पीतिका तथा।
आलमूत्रविषा रक्ता कसना चाष्टमी स्मृता॥

5.8.96

ताभिर्दष्टे शिरोदुःखं कण्डूर्दंशे च वेदना।
भवन्ति च विशेषेण गदाः श्लैष्मिकवातिकाः॥

5.8.97

सौवर्णिका लाजवर्णा जालिन्येणीपदी तथा।
कृष्णाग्निवर्णा काकाण्डा मालागुणाष्टमी तथा॥

5.8.98

ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च।
ज्वरो दाहोऽस्तिसारश्च गदाः स्युश्च त्रिदोषजाः॥

5.8.99

पिडका विविधाकारा मण्डलानि महान्ति च।
महान्तो मृदवः शोफा रक्ताः श्यावाश्चलास्तथा॥

5.8.100

सामान्यं सर्वलूतानामेतदादंशलक्षणम्।
विशेषलक्षणं तासां वक्ष्यामि सचिकित्सितम्॥

5.8.101

त्रिमण्डलाया दंशेऽसृक् कृष्णं स्रवति दीर्यते।
बाधिर्यं कलुषा दृष्टिस्तथा दाहश्च नेत्रयोः॥

5.8.102

तत्रार्कमूलं रजनी नाकुली पृश्निपर्णिका।
पानकर्मणि शस्यन्ते नस्यालेपाञ्जनेषु च॥

5.8.103

श्वेतायाः पिडका दंशे श्वेता कण्डूमती भवेत्।
दाहमूर्च्छाज्वरवती विसर्पक्लेदरुक्करी॥

5.8.104

तत्र चन्दनरास्नैलाहरेणुनलवञ्जुलाः।
कुष्ठं लामज्जकं वक्रं नलदं चागदो हितः॥

5.8.105

आदंशे पिडका ताम्रा कपिलायाः स्थिरा भवेत्।
शिरसो गौरवं दाहस्तिमिरं भ्रम एव च॥

5.8.106

तत्र पद्मककुष्ठैलाकरञ्जककुभत्वचः।
स्थिरार्कपर्ण्यपामार्गदूर्वाब्राह्म्यो विषापहाः॥

5.8.107

आदंशे पीतिकायास्तु पिडका पीतिका स्थिरा।
भवेच्छर्दिर्ज्वरः शूलं मूर्ध्नि रक्ते तथाक्षिणी॥

5.8.108

तत्रेष्टाः कुटजोशीरतुङ्गपद्मकवञ्जुलाः।
शिरीषकिणिहीशेलुकदम्बककुभत्वचः॥

5.8.109

रक्तमण्डनिभे दंशे पिडकाः सर्षपा इव।
जायन्ते तालुशोषश्च दाहश्चालविषार्दिते॥

5.8.110

तत्र प्रियङ्गुह्रीबेरकुष्ठलामज्जवञ्जुलाः।
अगदः शतपुष्पा च सपिप्पलवटाङ्कुराः॥

5.8.111

पूतिर्मूत्रविषादंशो विसर्पी कृष्णशोणितः।
कासश्वासवमीमूर्च्छाज्वरदाहसमन्वितः॥

5.8.112

मनःशिलालमधुककुष्ठचन्दनपद्मकैः।
मधुमिश्रैः सलामज्जैरगदस्तत्र कीर्तितः॥

5.8.113

आपाण्डुपिडको दंशो दाहक्लेदसमन्वितः।
रक्ताया रक्तपर्यन्तो विज्ञेयो रक्तसंयुतः॥

5.8.114

कार्यस्तत्रागदस्तोयचन्दनोशीरपद्मकैः।
तथैवार्जुनशेलुभ्यां त्वग्भिराम्रातकस्य च॥

5.8.115

पिच्छिलं कसनादंशाद्रुधिरं शीतलं स्रवेत्।
कासश्वासौ च तत्रोक्तं रक्तलूताच्कित्सितम्॥

5.8.116

पुरीषगन्धिरल्पासृक् कृष्णाया दंश एव तु।
ज्वरमूर्च्छावमीदाहकासश्वाससमन्वितः॥

5.8.117

तत्रैलावक्रसर्पाक्षीगन्धनाकुलिचन्दनैः।
महासुगन्धिसाहितैः प्रत्याख्यायागदः स्मृतः॥

5.8.118

दंशे दाहोऽग्निवक्त्रायाः स्रावोऽत्यर्थं ज्वरस्तथा।
चोषकण्डूरोमहर्षा दाहविस्फोटसंयुतः॥

5.8.119

कृष्णाप्रशमनं चात्र प्रत्याख्याय प्रयोजयेत्।
सारिवोशीरयष्ट्याह्वचन्दनोत्पलपद्मकम्॥

5.8.120

सर्वासामेव युञ्जीत विषे श्लेष्मातकत्वचम्।
भिषक् सर्वप्रकारेण तथा चाक्षीवपिप्पलम्॥

5.8.121

कृच्छ्रसाध्यविषा ह्यष्टौ प्रोक्ता द्वे च यदृच्छया।
अवार्यविषवीर्याणां लक्षणानि निबोध मे॥

5.8.122

ध्यामः सौवर्णिकादंशः सफेनो मत्स्यगन्धकः।
श्वासः कासो ज्वरस्तृष्णा मूर्च्छा चात्र सुदारुणा॥

5.8.123

आदंशे लाजवर्णाया ध्यामं पूति स्रवेदसृक्।
दाहो मूर्च्छातिसारश्च शिरोदुःखं च जायते॥

5.8.124

घोरो दंशस्तु जालिन्या राजिमानवकीर्यते।
स्तम्भः श्वासस्तमोवृद्धिस्तालुशोषश्च जायते॥

5.8.125

एणीपद्मास्तथा दंशो भवेत् कृष्णतिलाकृतिः।
तृष्णामूर्च्छाज्वरच्छर्दिकासश्वाससमन्वितः॥

5.8.126

दंशः काकाण्डिकादष्टे पाण्डुरक्तोऽतिवेदनः।
तृण्मूर्च्छाश्वासहृद्रोगहिक्काकासाः स्युरुच्च्रिताः॥

5.8.127

रक्तो मालागुणादंशो धूमगन्धोऽतिवेदनः।
बहुधा च विशीर्येत दाहमूर्च्छाज्वरान्वितः॥

5.8.128

असाध्यास्वप्यभिहितं प्रत्याख्यायाशु योजयेत्।
दोषोच्छ्रायविशेषेण दाहच्छेदविवर्जितम्॥

5.8.129

साध्याभिराभिर्लूताभिर्दष्टमात्रस्य देहिनः।
वृद्धिपत्रेण मतिमान् सम्यगादंशमुद्धरेत्॥

5.8.130

अमर्मणि विधानज्ञो वर्जितस्य ज्वरादिभिः।
दंशस्योत्कर्तनं कुयादल्पश्वयथुकस्य च॥

5.8.131

मधुसैन्धवसंयुक्तैरगदैर्लेपयेत्ततः।
प्रियङ्गुरजनीकुष्ठसमङ्गामधुकैस्तथा॥

5.8.132

सारिवां मधुकं द्राक्षां पयस्यां क्षीरमोरटम्।
विदारीगोक्षुरक्षौद्रमधुकं पाययेत वा॥

5.8.133

क्षीरिणां त्वक्कषायेण सुशीतेन च सेचयेत्।
उपद्रवान् यथादोषं विषघ्नैरेव साधयेत्॥

5.8.134

नस्याञ्जनाभ्यञ्जनपानधूमं तथावपीडं कवलग्रहं च।
संशोधनं चोभयतः प्रगाढं कुर्यात्सिरामोक्षणमेव चात्र॥

5.8.135

कीटदष्टव्रणान् सर्वानहिदष्टव्रणानपि।
आदाहपाकात्तान् सर्वाञ्चिकित्सेद्दुष्टवद्भिषग्॥

5.8.136

विनिवृत्ते ततः शोफे कर्णिकापातनं हितम्।
निम्बपत्रं त्रिवृद्दन्ती कुसुम्भं कुसुमं मधु॥

5.8.137

गुग्गुलुः सैन्धवं किण्वं वर्चः पारावतस्य च।
विषवृद्धिकरं चान्नं हित्वा संभोजनं हितम्॥

5.8.138

विषेभ्यः खलु सर्वेभ्यः कर्णिकामरुजां स्थिराम्।
प्रच्छयित्वा मधून्मिश्रैः शोधनीयैरुपाचरेत्॥

5.8.139

सप्तषष्ठस्य कीटानां शतस्यैतद्विभागशः।
दष्टलक्षणमाख्यातं चिकित्सा चाप्यनन्तरम्॥

5.8.140

सविंशमध्यायशतमेतदुक्तं विभागशः।
इहोद्दिष्टाननिर्दिष्टानर्थान् वक्ष्याम्यथोत्तरे॥

5.8.141

सनातनत्वाद्वेदानामक्षरत्वात्तथैव च।
तथा दृष्टफलत्वाच्च हितत्वादपि देहिनाम्॥

5.8.142

वाक्समूहार्थविस्तारात् पूजितत्वाच्च देहिभिः।
चिकित्सितात् पुण्यतमं न किंचिदपि शुश्रुमः॥

5.8.143

ऋषेरिन्द्रप्रभावस्यामृतयोनेर्भिषग्गुरोः।
धारयित्वा तु विमलं मतं परमसंमतम्।
उक्ताहारसमाचार इह प्रेत्य च मोदते॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc