सुश्रुतसंहिता · अध्याय 6.1
अथात औपद्रविकमध्यायं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
अध्यायानां शते विंशे यदुक्तमसकृन्मया।
वक्ष्यामि बहुधा सम्यगुत्तरेऽर्थानिमानिति॥
इदानीं तत् प्रवक्ष्यामि तन्त्रमुत्तरमुत्तमम्।
निखिलेनोपदिश्यन्ते यत्र रोगाः पृथग्विधाः॥
शालाक्यतन्त्राभिहिता विदेहाधिपकीर्तिताः।
ये च विस्तरतो दृष्टाः कुमाराबाधहेतवः॥
षट्सु कायचिकित्सासु ये चोक्ताः परमर्षिभिः।
उपसर्गादयो रोगा ये चाप्यागन्तवः स्मृताः॥
त्रिषष्टी रससंसर्गाः स्वस्थवृत्तं तथैव च।
युक्तार्था युक्तयश्चैव दोषभेदास्तथैव च॥
यत्रोक्ता विविधा अर्था रोगसाधनहेतवः।
महतस्तस्य तन्त्रस्य दुर्गाधस्याम्बुधेरिव॥
आदावेवोत्तमाङ्गस्थान् रोगानभिदधाम्यहम्।
सङ्ख्यया लक्षणैश्चापि साध्यासाध्यक्रमेण च॥
विद्याद्द्वयङ्गुलबाहुल्यं स्वाङ्गुष्ठोदरसंमितम्।
द्व्यङ्गुलं सर्वतः सार्धं भिषङ्नयनबुद्बुदम्॥
सुवृत्तं गोस्तनाकारं सर्वभूतगुणोद्भवम्।
पलं भुवोऽग्नितो रक्तं वातात् कृष्णं सितं जलात्॥
आकाशादश्रुमार्गाश्च जायन्ते नेत्रबुद्बुदे।
दृष्टिं चात्र तथा वक्ष्ये यथा ब्रूयाद्विशारदः॥
नेत्रायामत्रिभागं तु कृष्णमण्डलमुच्यते।
कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः॥
मण्डलानि च सन्धींश्च पटलानि च लोचने।
यथाक्रमं विजानीयात् पञ्च षट् च षडेव च॥
पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां मण्डलानि तु।
अनुपूर्वं तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम्॥
पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्लगतोऽपरः।
शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः।
ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः॥
द्वे वर्त्मपटले विद्याच्चत्वार्यन्यानि चाक्षिणि।
जायते तिमिरं येषु व्याधिः परमदारुणः॥
तेजोजलाश्रितं बाह्यं तेष्वन्यत् पिशिताश्रितम्।
मेदस्तृतीयं पटलमाश्रितं त्वस्थि चापरम्॥
पञ्चमांशसमं दृष्टेस्तेषां बाहुल्पमिष्यते।
सिराणां कण्डराणां च मेदसः कालकस्य च॥
गुणाः कालात् परः श्लेष्मा बन्धनेऽक्ष्णोः सिरायुतः।
सिरानुसारिभिर्दोषैर्विगुणैरूर्ध्वमागतैः॥
जायन्ते नेत्रभागेषु रोगाः परमदारुणाः।
तत्राविलं ससंरम्भमश्रुकण्डूपदेहवत्॥
गुरूषातोदरागाद्यैर्जुष्टं चाव्यक्तलक्षणैः।
सशूलं वर्त्मकोषेषु शूकपूर्णाभमेव च॥
विहन्यमानं रूपे वा क्रियास्वक्षि यथा पुरा।
दृष्ट्वैव धीमान् बुध्येत दोषेणाधिष्ठितं तु तत्॥
तत्र संभवमासाद्य यथादोषं भिषग्जितम्।
विदध्यान्नेत्रजा रोगा बलवन्तः स्युरन्यथा॥
सङ्क्षेपतः क्रियायोगो निदानपरिवर्जनम्।
वातादीनां प्रतीघातः प्रोक्तो विस्तरतः पुनः॥
उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् स्वप्नविपर्ययाच्च।
प्रसक्तसंरोदनकोपशोकक्लेशाभिघातादतिमैथुनाच्च॥
शुक्तारनालाम्लकुलत्थमाषनिषेवणाद्वेगविनिग्रहाच्च।
स्वेदादथो धूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात्।
बाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः॥
वाताद्दश तथा पित्तात् कफाच्चैव त्रयोदश।
रक्तात् षोडश विज्ञेयाः सर्वजाः पञ्चविंशतिः॥
तथा बाह्यौ पुनर्द्वौ च रोगाः षट्सप्ततिः स्मृताः।
हताधिमन्थो निमिषो दृष्टिर्गम्भीरिका च या॥
यच्च वातहतं वर्त्म न ते सिध्यन्ति वातजाः।
याप्योऽथ तन्मयः काचः साध्याः स्युःसान्यमारुताः॥
शुष्काक्षिपाकाधीमन्थस्यन्दमारुतप्र्ययाः।
असाध्यो ह्रस्वजाड्यो यो जलस्रावश्च पैत्तिकः॥
परिम्लायी च नीलश्च याप्यः काचोऽथ तन्मयः।
अभिष्यन्दोऽधिमन्थोऽम्लाध्युषितं शुक्तिका च या॥
दृष्टिः पित्तविदग्धा च धूमदर्शी च सिध्यति।
असाध्यः कफजः स्रावो याप्यः काचश्च तन्मयः॥
अभिष्यन्दोऽधिमन्थश्च बलासग्रथितं च यत्।
दृष्टिः श्लेष्मविदग्धा च पोथक्यो लगणश्च यः॥
क्रिमिग्रन्थिपरिक्लिन्नवर्त्मशुक्लार्मपिष्टकाः।
श्लेष्मोपनाहः साध्यास्तु कथिताः श्लेष्मजेषु तु॥
रक्तस्रावोऽजकाजातं शोणितार्शोव्रणान्वितम्।
शुक्रं न साध्यं काचश्च याप्यस्तज्जः प्रकीर्तितः॥
मन्थस्यन्दौ क्लिष्टवर्त्म हर्षोत्पातौ तथैव च।
सिराजाताञ्जनाख्या च सिराजालं च यत् स्मृतम्॥
पर्वण्यथाव्रणं शुक्रं शोणितार्मार्जुनश्च यः।
एते साध्या विकारेषु रक्तजेषु भवन्ति हि॥
पूयास्रावो नाकुलान्ध्यमक्षिपाकात्ययोऽलजी।
असाध्याः सर्वजा याप्यः काचः कोपश्च पक्ष्मणः॥
वर्त्मावबन्धो यो व्याधिः सिरासु पिडका च या।
प्रस्तार्यर्माधिमांसार्म स्नाय्वर्मोत्सङ्गिनी च या॥
पूयालसश्चार्बुदं च श्यावकर्दमवर्त्मनी।
तथार्शोवर्त्म शुष्कार्शः शर्करावर्त्म यच्च वै॥
सशोफश्चाप्यशोफश्च पाको बहलवर्त्म च।
अक्लिन्नवर्त्म कुम्भीका बिसवर्त्म च सिध्यति॥
सनिमित्तोऽनिमित्तश्च द्वावसाध्यौ तु बाह्यजौ।
षट्सप्ततिर्विकाराणामेषा संग्रहकीर्तिता॥
नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः।
शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः॥
सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु।
बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ।
भूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0