भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 5.7

5.7.1

अथातो मूषिककल्पं व्याख्यास्यामः॥

5.7.2

यथोवाच भगवान् धन्वन्तरिः॥

5.7.3

पूर्वं शुक्रविषा उक्ता भूषिका ये समासतः।
नामलक्षणभैषज्यैरष्टादश निबोध मे॥

5.7.4

लालनः पुत्रकः कृष्णो हंसिरश्चिक्विरस्(हंसिरश्चिक्किरस्) तथा।
छुच्छुन्दरोऽलसश्चैव कषायदशनोऽपि च॥

5.7.5

कुलिङ्गश्चाजितश्चैव चपलः कपिलस्तथा।
कोकिलोऽरुणसंज्ञश्च महाकृष्णस्तथोन्दुरः॥

5.7.6

श्वेतेन महता सार्धं कपिलेनाखुना तथा।
मूषिकश्च कपोताभस्तथैवाष्टादश स्मृताः॥

5.7.7

शुक्रं पतति यत्रैषां शुक्रस्पृष्टैः स्पृशन्ति वा।
नखदन्तादिभिस्तस्मिन् गात्रे रक्तं प्रदुष्यति॥

5.7.8

जायन्ते ग्रन्थयः शोफाः कर्णिका मण्डलानि च।
पीडकोपचयश्चोग्रो विसर्पाः किटिभानि च॥

5.7.9

पर्वभेदो रुजस्तीव्रा मूर्च्छाङ्गसदनं ज्वरः।
दौर्बल्यमरुचिः श्वासो वमथुर्लोमहर्षणम्॥

5.7.10

दष्टरूपं समासोक्तमेतद्व्यासमतः शृणु।
लालास्रावो लालनेन हिक्का छर्दिश्च जायते॥

5.7.11

तण्डुलीयककल्कं तु लिह्यात्तत्र समाक्षिकम्।
पुत्रकेणाङ्गसादश्च पाण्डुवर्णश्च जायते॥

5.7.12

चीयते ग्रन्थिभिश्चाङ्गमाखुशावकसन्निभैः।
शिरीषेङ्गुदकल्कं तु लिह्यात्तत्र समाक्षिकम्॥

5.7.13

कृष्णेन दंशे शोफोऽसृक्छर्दिः प्रायश्च दुर्दिने।
शिरीषफलकुष्ठं तु पिबेत् किंशुकभस्मना॥

5.7.14

हंसिरेणान्नविद्वेषो जृम्भा रोम्णां च हर्षणम्।
पिबेदारग्वधादिं तु सुवान्तस्तत्र मानवः॥

5.7.15

चिक्विरेण(चिक्किरेण) शिरोदुःखं शोफो हिक्का वमिस्तथा।
जालिनीमदनाङ्कोठकषायैर्वामयेत्तु तम्॥

5.7.16

यवनालर्षभीक्षारं बृहत्योश्चात्र दापयेत्।
छुच्छुन्दरेण तट् छर्दिर्ज्वरो दौर्बल्यमेव च॥

5.7.17

ग्रीवास्तम्भः पृष्ठशोफो गन्धाज्ञानं विसूचिका।
चव्यं हरीतकी शुण्ठी विडङ्गं पिप्पली मधु॥

5.7.18

अङ्कोठबीजं च तथा पिबेदत्र विषापहम्।
ग्रीवास्तम्भोऽलसेनोर्ध्ववायुर्दंशे रुजा ज्वरः॥

5.7.19

महागदं ससर्पिष्कं लिह्यात्तत्र समाक्षिकम्।
निद्रा कषायदन्तेन हृच्छोषः कार्श्यमेव च॥

5.7.20

क्षौद्रोपेताः शिरीषस्य लिह्यात् सारफलत्वचः।
कुलिङ्गेन रुजः शोफो राज्यश्च दंशमण्डले॥

5.7.21

सहे ससिन्धुवारे च लिह्यात्तत्र समाक्षिके।
अजितेनाङ्गकृष्णत्वं छर्दिर्मूर्च्छा च हृद्ग्रहः॥

5.7.22

स्नुक्क्षीरपिष्टां पालिन्दीं मञ्जिष्ठां मधुना लिहेत्।
चपलेन भवेच्छर्दिर्मूर्च्छा च सह तृष्णया॥

5.7.23

क्षौद्रेण त्रिफलां लिह्याद्भद्रकाष्ठजटान्विताम्।
कपिलेन व्रणे कोथो ज्वरो ग्रन्थ्युद्गमः सतृट्॥

5.7.24

लिह्यान्मधुयुतां श्वेतां श्वेतां चापि पुनर्नवाम्।
ग्रन्थयः कोकिलेनोग्रा ज्वरो दाहश्च दारुणः॥

5.7.25

वर्षाभूनीलिनीक्वाथकल्कसिद्धं घृतं पिबेत्।
अरुणेनानिलः क्रुद्धो वातजान् कुरुते गदान्॥

5.7.26

महाकृष्णेन पित्तं च श्वेतेन कफ एव च।
महता कपिलेनासृक् कपोतेन चतुष्टयम्॥

5.7.27

भवन्ति चैषां दंशेषु ग्रन्थिमण्डलकर्णिकाः।
पिडकोपचयश्चोग्रः शोफश्च भृशदारुणः॥

5.7.28

दधिक्षीरघृतप्रस्थास्त्रयः प्रत्येकशो मताः।
करञ्जारग्वधव्योषबृहत्यंशुमतीस्थिराः॥

5.7.29

निष्क्वाथ्य चैषां क्वाथस्य चतुर्थोऽंशः पुनर्भवेत्।
त्रिवृद्गोज्यमृतावक्रसर्पगन्धाः समृत्तिकाः॥

5.7.30

कपित्थदाडिमत्वक् च श्लक्ष्णपिष्टाः प्रदापयेत्।
तत् सर्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत्॥

5.7.31

पञ्चानामरुणादीनां विषमेतद्व्यपोहति।
काकादनीकाकमाच्योः स्वरसेष्वथवा कृतम्॥

5.7.32

सिराश्च स्रावयेत् प्राप्ताः कुर्यात् संशोधनानि च।
सर्वेषां च विधिः कार्यो मूषिकाणां विषेष्वयम्॥

5.7.33

दग्ध्वा विस्रावयेद्दंशं प्रच्छितं च प्रलेपयेत्।
शिरीषरजनीकुष्ठकुङ्कुमैरमृतायुतैः॥

5.7.34

छर्दनं जालिनीक्वाथैः शुकाख्याङ्कोठयोरपि।
शुकाख्याकोषवत्योश्च मूलं मदन एव च॥

5.7.35

देवदालीफलं चैव दध्ना पीत्वा विषं वमेत्।
सर्वमूषिकदष्टानामेष योगः सुखावहः॥

5.7.36

फलं वचा देवदाली कुष्ठं गोमूत्रपेषितम्।
पूर्वकल्पेन योज्याः स्युः सर्वोन्दुरुविषच्छिदः॥

5.7.37

विरेचने त्रिवृद्दन्तीत्रिफलाकल्क इष्यते।
शिरोविरेचने सारः शिरीषस्य फलानि च॥

5.7.38

हितस्त्रिकटुकाढ्यश्च गोमयस्वरसोऽञ्जने।
कपित्थगोमयरसौ लिह्यान्माक्षिकसंयुतौ॥

5.7.39

रसाञ्जनहरिद्रेन्द्रयवकट्वीषु वा कृतम्।
प्रातः सातिविषं कल्कं लिह्यान्माक्षिकसंयुतम्॥

5.7.40

तण्डुलीयकमूलेषु सर्पिः सिद्धं पिबेन्नरः।
आस्फोतमूलसिद्धं वा पञ्चकापित्थमेव वा॥

5.7.41

मूषिकाणां विषं प्रायः कुप्यत्यभ्रेष्वनिर्हृतम्।
तत्राप्येष विधिः कार्यो यश्च दूषिविषापहः॥

5.7.42

स्थिराणां रुजतां वापि व्रणानां कर्णिकां भिषक्।
पाटयित्वा यथादोषं व्रणवच्चापि शोधयेत्॥

5.7.43

श्वशृगालतरक्ष्वृक्षव्याघ्रादीनां यदानिलः।
श्लेष्मप्रदुष्टो मुष्णाति संज्ञां संज्ञावहाश्रितः॥

5.7.44

तदा प्रस्रस्तलाङ्गूलहनुस्कन्धोऽतिलालवान्।
अत्यर्थबधिरोऽन्धश्च सोऽन्योन्यमभिधावति॥

5.7.45

तेनोन्मत्तेन दष्टस्य दंष्ट्रिणा सविषेण तु।
सुप्तता जायते दंशे कृष्णं चातिस्रवत्यसृक्॥

5.7.46

दिग्धविद्धस्य लिङ्गेन प्रायशश्चोपलक्षितः।
येन चापि भवेद्दष्टस्तस्य चेष्टां रुतं नरः॥

5.7.47

बहुशः प्रतिकुर्वाणः क्रियाहीनो विनश्यति।
दंष्ट्रिणा येन दष्टश्च तद्रूपं यस्तु पश्यति॥

5.7.48

अप्सु वा यदि वाआदर्शोऽरिष्टं तस्य विनिर्दिशेत्।
त्रस्यत्यकस्माद्योऽभीक्ष्णं दृष्ट्वा स्पृष्ट्वापि वा जलम्॥

5.7.49

जलत्रासं तु विद्यात्तं रिष्टं तदपि कीर्तितम्।
अदष्टो वा जलत्रासी न कथञ्चन सिध्यति॥

5.7.50

प्रसुप्तोऽथोत्थितो वापि स्वस्थस्त्रस्तो न सिध्यति।
दंशं विस्राव्य तैर्दष्टे सर्पिषा परिदाहितम्॥

5.7.51

प्रदिह्यादगदैः सर्पिः पुराणं पाययेत च।
अर्कक्षीरयुतं ह्यस्य दद्याच्चापि विशोधनम्॥

5.7.52

श्वेतां पुनर्नवां चास्य दद्याद्धत्तूरकायुताम्।
पललं तिलतैलं च रूपिकायाः पयो गुडः॥

5.7.53

निहन्ति विषमालर्कं मेघवृन्दमिवानिलः।
मूलस्य शरपुङ्खायाः कर्षं धत्तूरकार्धिकम्॥

5.7.54

तण्डुलोदकमादाय पेषयेत्तण्डुलैः सह।
उन्मत्तकस्य पत्रैस्तु संवेष्ट्यापूपकं पचेत्॥

5.7.55

खादेदौषधकाले तमलर्कविषदूषितः।
करोति श्वविकारांस्तु तस्मिञ्जीर्यति चौषधे॥

5.7.56

विकाराः शिशिरे याप्या गृहे वारिविवर्जिते।
ततः शान्तविकारस्तु स्नात्वा चैवापरेऽहनि॥

5.7.57

शालिषाष्टिकयोर्भक्तं क्षीरेणोष्णेन भोजयेत्।
दिनत्रये पञ्चमे वा विधिरेषोऽर्धमात्रया॥

5.7.58

कर्तव्यो भिषजावश्यमलर्कविषनाशनः।
कुप्येत् स्वयं विषं यस्य न स जीवति मानवः॥

5.7.59

तस्मात् प्रकोपयेदाशु स्वयं यावत् प्रकुप्यति।
बीजरत्नौषधीगर्भैः कुम्भैः शीताम्बुपूरितैः॥

5.7.60

स्नापयेत्तं नदीतीरे समन्त्रैर्वा चतुष्पथे।
बलिं निवेद्य तत्रापि पिण्याकं पललं दधि॥

5.7.61

माल्यानि च विचित्राणि मांसं पक्वामकं तथा।
अलकाधिपते यक्ष सारमेयगणाधिप॥

5.7.62

अलर्कजुष्टमेतन्मे निर्विषं कुरु माचिरात्।
दद्यात् संशोधनं तीक्ष्णमेवं स्नातस्य देहिनः॥

5.7.63

अशुद्धस्य सुरूढेऽपि व्रणे कुप्यति तद्विषम्।
श्वादयोऽभिहिता व्याला येऽत्र दंष्ट्राविषा मया॥

5.7.64

अतः करोति दष्टस्तु तेषां चेष्टां रुतं नरः।
बहुशः प्रतिकुर्वाणो न चिरान्म्रियते च सः॥

5.7.65

नखदन्तक्षतं व्यालैर्यत्कृतं तद्धिमर्दयेत्।
सिञ्चेत्तैलेन कोष्णेन ते हि वातप्रकोपकाः॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc