भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 5.6

5.6.1

अथातो दुन्दुभिस्वनीयं कल्पं व्याख्यास्यामः॥

5.6.2

यथोवाच भगवान् धन्वन्तरिः॥

5.6.3

धवाश्वकर्णशिरीषतिनिशपलाशपिचुमर्दपाटलिपारिभद्रकाम्रोदुम्बरकरहाटकार्जुनककुभसर्जकपीतनश्लेष्मातकाङ्कोठामलकप्रग्रहकुटजशमीकपित्थाश्मन्तकार्कचिरबिल्वमहावृक्षारुष्करारलुमधुकमधुशिग्रुशाकगोजीमूर्वाभूर्जतिल्वकेक्षुरकगोपघोण्टारिमेदानां भस्मान्याहृत्य गवां मूत्रेण क्षारकल्पेन परिस्राव्य विपचेत्, दद्याच्चात्र पिप्पलीमूलतण्डुलीयकवराङ्गचोचमञ्जिष्ठाकरञ्जिकाहस्तिपिप्पलीमरिचविडङ्गगृहधूमानन्तासोमसरलाबाह्लीकगुहाकोशाम्रश्वेतसर्षपवरुणलवणप्लक्षनिचुलकवञ्जुलवक्रालवर्धमानपुत्रश्रेणीसप्तपर्णटुण्टुकैलवालुकनागदन्त्यतिविषाभयाभद्रदारुकुष्ठहरिद्रावचाचूर्णानि लोहानां च समभागानि, ततः क्षारवदागतपाकमवतार्य लोहकुम्भे निदध्यात्॥

5.6.4

अनेन दुन्दुभिं लिम्पेत् पताकां तोरणानि च।
श्रवणाद्दर्शनात् स्पर्शात् विषात् संप्रतिमुच्यते॥

5.6.5

एष क्षारागदो नाम शर्करास्वश्मरीषु च।
अर्शःसु वातगुल्मेषु कासशूलोदरेषु च॥

5.6.6

अजीर्णे ग्रहणीदोषे भक्तद्वेषे च दारुणे।
शोफे सर्वसरे चापि देयः श्वासे च दारुणे॥

5.6.7

सदा सर्वविषार्तानां सर्वयैवोपयुज्यते।
एष तक्षकमुख्यानामपि दर्याङ्कुशोऽगदः॥

5.6.8

विडङ्गत्रिफलादन्तीभद्रदारुहरेणवः।
तालीशपत्रमञ्जिष्ठाकेशरोत्पलपद्मकम्॥

5.6.9

दाडिमं मालतीपुष्पं रजन्यौ सारिवे स्थिरे।
प्रियङ्गुस्तगरं कुष्ठं बृहत्यौ चैलवालुकम्॥

5.6.10

सचन्दनगवाक्षीभिरेतैः सिद्धं विषापहम्।
सर्पिः कल्पाणकं ह्येतद्ग्रहापस्मारनाशनम्॥

5.6.11

पाण्ड्वामयगरश्वासमन्दाग्निज्वरकासनुत्।
शोषिणामल्पशुक्राणां वन्ध्यानां च प्रशस्यते॥

5.6.12

अपामार्गस्य बीजानि शिरीषस्य च माषकान्।
श्वेते द्वे काकमाचीं च गवां मूत्रेण पेषयेत्॥

5.6.13

सर्पिरेतैस्तु संसिद्धं विषसंशमनं परम्।
अमृतं नाम विख्यातमपि संजीवयेन्मृतम्॥

5.6.14

चन्दनागुरुणी कुष्ठं तगरं तिलपर्णिकम्।
प्रपौण्डरीकं नलदं सरलं देवदारु च॥

5.6.15

भद्रश्रियं यवफलां भार्गीं नीलीं सुगन्धिकाम्।
कालेयकं पद्मकं च मधुकं नागरं जटाम्॥

5.6.16

पुन्नागैलैलवालूनि गैरिकं ध्यामकं बलाम्।
तोयं सर्जरसं मांसीं शतपुष्पां हरेणुकाम्॥

5.6.17

तालीशपत्रं क्षुद्रैलां प्रियङ्गुं सकुटन्नटम्।
शिलापुष्पं सशैलेयं पत्रं कालानुसारिवाम्॥

5.6.18

कटुत्रिकं शीतशिवं काश्मर्यं कटुरोहिणीम्।
सोमराजीमतिविषां पृथ्विकामिन्द्रवारुणीम्॥

5.6.19

उशीरं वरुणं मुस्तं कुस्तुम्बुरु नखं तथा।
श्वेते हरिद्रे स्थौणेयं लाक्षां च लवणानि च॥

5.6.20

कुमुदोत्पलपद्मानि पुष्पं चापि तथार्कजम्।
चम्पकाशोकसुमनस्तिल्वकप्रसवानि च॥

5.6.21

पाटलीशाल्मलीशैलुशिरीषाणां तथैव च।
कुसुमं तृणमूल्याश्च सुरभीसिन्धुवारजम्॥

5.6.22

धवाश्वकर्णपार्थानां पुष्पाणि तिनिशस्य च।
गुग्गुलुं कुङ्कुमं बिम्बीं सर्पाक्षीं गन्धनाकुलीम्॥

5.6.23

एतत् संभृत्य संभारं सूक्ष्मचूर्णानि कारयेत्।
गोपित्तमधुसर्पिर्भिर्युक्तं शृङ्गे निधापयेत्॥

5.6.24

भग्नस्कन्धं विवृताक्षं मृत्योर्दंष्ट्रान्तरं गतम्।
अनेनागदमुख्येन मनुष्यं पुनराहरेत्॥

5.6.25

एषोऽग्निकल्पं दुर्वारं क्रुद्धस्यामिततेजसः।
विषं नागपतेर्हन्यात् प्रसभं वासुकेरपि॥

5.6.26

महासुगन्धिनामायं पञ्चाशीत्यङ्गसंयुतः।
राजागदानां सर्वेषां राज्ञो हस्ते भवेत् सदा॥

5.6.27

स्नातानुलिप्तस्तु नृपो भवेत् सर्वजनप्रियः।
भ्राजिष्णुतां च लभते शत्रुमध्यगतोऽपि सन्॥

5.6.28

उष्णवर्ज्यो विधिः कार्यो विषार्तानां विजानता।
मुक्त्वा कीटविषं तद्धि शीतेनाभिप्रवर्धते॥

5.6.29

अन्नपानविधावुक्तमुपधार्य शुभाशुभम्।
शुभं देयं विषार्तेभ्यो विरुद्धेभ्यश्च वारयेत्॥

5.6.30

फाणितं शुग्रुसौवीरमजीर्णाध्यशनं तथा।
वर्जयेच्च समासेन नवधान्यादिकं गणम्॥

5.6.31

दिवास्वप्नं व्यवायं च व्यायामं क्रोधमातपम्।
सुरातिलकुलत्थांश्च वर्जयेद्धि विषातुरः॥

5.6.32

प्रसन्नदोषं प्रकृतिस्थधातुमन्नाभिकाङ्क्षं समसूत्रजिह्वम्।
प्रसन्नवर्णेन्द्रियचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc