सुश्रुतसंहिता · अध्याय 5.5
अथातः सर्पदष्टविषचिकित्सितं कल्पं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
सर्वैरेवादितः सर्पैः शाखादष्टस्य देहिनः।
दंशस्योपति बध्नीयादरिष्टाश्चतुरङ्गुले॥
प्लोतचर्मान्तवल्कानां मृदुनान्यतमेन वै।
न गच्छति विषं देहमरिष्टाभिर्निवारितम्॥
दहेद्दंशमथोत्कृत्य यत्र बन्धो न जायते।
आचूषणच्छेददाहाः सर्वत्रैव तु पूजिताः॥
प्रतिपूर्य मुखं वस्त्रैर्हितमाचूषणं भवेत्।
स दष्टव्योऽथवा सर्पो लोष्टो वापि हि तत्क्षणम्॥
अथ मण्डलिना दष्टं न कथंचन दाहयेत्।
स पित्तबाहुल्यविषाद्दंशो दाहाद्विसर्पते॥
अरिष्टामपि मन्त्रैश्च बध्नीयान्मन्त्रकोविदः।
सा तु रज्ज्वादिभिर्बद्धा विषप्रतिकरी मता॥
देवब्रह्मर्षिभिः प्रोक्ता मन्त्राः सत्यतपोमयाः।
भवन्ति नान्यथा क्षिप्रं विषं हन्युः सुदुस्तरम्॥
विषं तेजोमयैर्मन्त्रैः सत्यब्रह्मतपोमयैः।
यथा निवार्यते क्षिप्रं प्रयुक्तैर्न तथौषधैः॥
मन्त्राणां ग्रहणं कार्यं स्त्रीमांसमधुवर्जिना।
मिताहारेण शुचिना कुशास्तरणशायिना॥
गन्धमाल्योपहारैश्च बलिभिश्चापि देवताः।
पूजयेन्मन्त्रसिद्ध्यर्थं जपहोमैश्च यत्नतः॥
मन्त्रास्त्वविधिना प्रोक्ता हीना वा स्वरवर्णतः।
यस्मान्न सिद्धिमायान्ति तस्माद्योज्योऽगदक्रमः॥
समन्ततः सिरा दंशाद्विध्येत्तु कुशलो भिषक्।
शाखाग्रे वा ललाटे वा व्यध्यास्ता विऋते विषे॥
रक्ते निर्ह्रियमाणे तु कृत्स्नं निर्ह्रियते विषम्।
तस्माद्विस्रावयेद्रक्तं सा ह्यस्य परमा क्रिया॥
समन्तादगदैर्दंशं प्रच्छयित्वा प्रलेपयेत्।
चन्दनोशीरयुक्तेन वारिणा परिषेचयेत्॥
पाययेतागदांस्तांस्तान् क्षीरक्षौद्रघृतादिभिः।
तदलाभे हिता वा स्यात् कृष्णा वल्मीकमृत्तिका॥
कोविदारशिरीषार्ककटभीर्वापि भक्षयेत्।
न पिबेत्तैलकौलत्थमद्यसौवीरकाणि च॥
द्रवमन्यत्तु यत्किञ्चित् पीत्वा पीत्वा तदुद्वमेत्।
प्रायो हि वमनेनैव मुखं निर्ह्रियते विषम्॥
फणिनां विषवेगे तु प्रथमे शोणितं हरेत्।
द्वितीये मधुसर्पिर्भ्यां पाययेतागदं भिसक्॥
नस्यकर्माञ्जने युञ्ज्यात्तृतीये विषनाशने।
वान्तं चतुर्थे पूर्वोक्तां यवागूमथ दापयेत्॥
शीतोपचारं कृत्वाआदौ भिषक् पञ्चमषष्ठयोः।
पाययेच्छोधनं तीक्ष्णं यवागूं चापि कीर्तिताम्॥
सप्तमे त्ववपीडेन शिरस्तीक्ष्णेन शोधयेत्।
तीक्ष्णमेवाञ्जनं दद्यात् तीक्ष्णशस्त्रेण मूर्ध्नि च॥
कृत्वा काकपदं चर्म सासृग्वा पिशितं क्षिपेत्।
पूर्वे मण्डलिनां वेगे दर्वीकरवदाचरेत्॥
अगदं मधुसर्पिर्भ्यां द्वितीये पाययेत च।
वामयित्वा यवागूं च पूर्वोक्तामथ दापयेत्॥
तृतीये शोधितं तीक्ष्णैर्वागूं पाययेद्धिताम्।
चतुर्थे पञ्चमे चापि दर्वीकरवदाचरेत्॥
काकोल्यादिर्हितः षष्ठे पेयश्च मधुरोऽगदः।
हितोऽवपीडे त्वगदः सप्तमे विषनाशनः॥
पूर्वे राजिमतां वेगेऽलाबुधिः शोणितं हरेत्।
अगदं मधुसर्पिर्भ्यां संयुक्तं पाययेत च॥
वान्तं द्वितीये त्वगदं पाययेद्विषनाशनम्।
तृतीयादिषु त्रिष्वेवं विधिर्दार्वीकरो हितः॥
षष्ठेऽञ्जनं तीक्ष्णतममवपीडश्च सप्तमे।
गर्भिणीबालवृद्धानां सिराव्यधनवर्जितम्॥
विषार्तानां यथोद्दिष्टं विधानं शस्यते मृदु।
रक्तावसेकाञ्जनानि नरतुल्यान्यजाविके॥
त्रिगुणं महिषे सोष्ट्रे गवाश्वे द्विगुणं तु तत्।
चतुर्गुणं तु नागानां केवलं सर्वपक्षिणाम्॥
परिषेकान् प्रदेहांश्च सुशीतानवचारयेत्।
माषकं त्वञ्जनस्येष्टं द्विगुणं नस्यतो हितम्।
पाने चतुर्गुणं पथ्यं वमनेऽष्टगुणं पुनः॥
देशप्रकृतिसात्म्यर्तुविषवेगबलाबलम्।
प्रधार्य निपुणं बुद्ध्या ततः कर्म समाचरेत्॥
वेगानुपूर्व्या कर्मोक्तमिदं विषविनाशनम्।
कर्मावस्थाविशेषेण विषयोरुभयोः शृणु॥
विवर्णे कठिने शूने सरुजेऽङ्गे विषान्विते।
तूर्णं विस्रवणं कार्यमुक्तेन विधिना ततः॥
क्षुधार्तमनिलप्रायं तद्विषार्तं समाहितः।
पाययेत रसं सर्पिः शुक्तं क्षौद्रं तथा दधि॥
तृड्दाहधर्मसंमोहे पैत्तं पैत्तविषातुरम्।
शीतैः संवाहनस्नानप्रदेहैः समुपाचरेत्॥
शीते शीतप्रसेकार्तं श्लैष्मिकं कफकृद्विषम्।
वामयेद्वमनैस्तीक्ष्णैस्तथा मूर्च्छामदान्वितम्॥
कोष्ठदाहरुजाध्मानमूत्रसङ्गरुगन्वितम्।
विरेचयेच्छकृद्वायुसङ्गपित्तातुरं नरम्॥
शूनाक्षिकूटं निद्रार्तं विवर्णाविललोचनम्।
विवर्णं चापि पश्यन्तमञ्जनैः समुपाचरेत्॥
शिरोरुग्गौरवालस्यहनुस्तम्भगलग्रहे।
शिरो विरेचयेत् क्षिप्रं मन्यास्तम्भे च दारुणे॥
नष्टसंज्ञं विवृत्ताक्षं भग्नग्रीवं विरेचनैः।
चूर्णैः प्रधमनैस्तीक्ष्णैर्विषार्तं समुपाचरेत्॥
ताडयेच्च सिराः क्षिप्रं तस्य शाखाललाटजाः।
तास्वप्रसिच्यमानासु मूर्ध्नि शस्त्रेण शस्त्रवित्॥
कुर्यात् काकपदाकारं व्रणमेवं स्रवन्ति ताः।
सरक्तं चर्म मांसं वा निक्षिपेच्चास्य मूर्धनि॥
चर्मवृक्षकषायं वा कल्कं वा कुशलो भिषक्।
वादयेच्चागदैर्लिप्त्वा दुन्दुभींस्तस्य पार्श्वयोः॥
लब्धसंज्ञं पुनश्चैनमूर्ध्वं चाधश्च शोधयेत्।
निःशेषं निर्हरेच्चैवं विषं परमदुर्जयम्॥
अल्पमप्यवशिष्टं हि भूयो वेगाय कल्पते।
कुर्याद्वा सादवैवर्ण्यज्वरकासशिरोरुजः॥
शोफशोषप्रतिश्यायतिमिरारुचिपीनसान्।
तेषु चापि यथादोषं प्रतिकर्म प्रयोजयेत्॥
विषार्तोपद्रवांश्चापि यथास्वं समुपाचरेत्।
अथारिष्टां विमुच्याशु प्रच्छयित्वाङ्कितं तया॥
दह्यात्तत्र विषं स्कन्नं भूयो वेगाय कल्पते।
एवमौषधिभिर्मन्त्रैः क्रियायोगैश्च यत्नतः॥
विषे हृतगुणे देहाद्यदा दोषः प्रकुप्यति।
तदा पवनमुद्वृत्तं स्नेहाद्यैः समुपाचरेत्॥
तैलमत्स्यकुलत्थाम्लवर्ज्यैर्विषहरायुतैः।
पित्तज्व्रहरैः पित्तं कषायस्नेहबस्तिभिः॥
कफमारग्वधाद्येन सक्षौद्रेण गणेन तु।
श्लेष्मघ्नैरगदैश्चैव तिक्तै रूक्षैश्च भोजनैः॥
वृक्षप्रपातविषमपतितं मृतमम्भसि।
उद्बद्धं च मृतं सद्यश्चिकित्सेन्नष्टसंज्ञवत्॥
गाढं बद्धेऽरिष्टया प्रच्छिते वा तीक्ष्णैर्लेपैस्तद्विधैर्वावशिष्टैः।
शूने गात्रे क्लिन्नमत्यर्थपूति ज्ञेयं मांसं तद्विषात् पूति कष्टम्॥
सद्यो विद्धं निस्रवेत् कृष्णरक्तं पाकं यायाद्दह्यते चाप्यभीक्ष्णम्।
कृष्णीभूतं क्लिन्नमत्यर्थपूति शीर्णं मांसं यात्यजस्रं क्षताच्च॥
तृष्णा मूर्च्छा भ्रान्तिदाहौ ज्वरश्च यस्य स्युस्तं दिग्धविद्धं व्यवस्येत्।
पूर्वोद्दिष्टं लक्षणं सर्वमेतज्जुष्टं यस्यालं विषेण व्रणाः स्युः॥
लूतादष्टा दिग्धविद्धा विषैर्वा जुष्टा प्रायस्ते व्रणाः पूतिमांसाः।
तेषां युक्त्या पूतिमांसान्यपोह्य वार्योकोभिः शोणितं चापहृत्य॥
हृत्वा दोषान् क्षिप्रमूर्ध्वं त्वधश्च सम्यक् सिञ्चेत् क्षीरिणां त्वक्कषायैः।
अन्तर्वस्त्रं दापयेच्च प्रदेहान् शीतैर्द्रव्यैराज्ययुक्तैर्विषघ्नैः॥
भिन्ने त्वस्थ्ना दुष्टजातेन कार्यः पूर्वो मार्गः पैत्तिके यो विषे च।
त्रिवृद्विशल्ये मधुकं हरिद्रे रक्ता नरेन्द्रो लवणश्च वर्गः॥
कटुत्रिकं चैव सुचूर्णितानि शृङ्गे निदध्यान्मधुसंयुतानि।
एषोऽगदो हन्ति विषं प्रयुक्तः पानाञ्जनाभ्यञ्जननस्ययोगैः॥
अवार्यवीर्यो विषवेगहन्ता महागदो नाम महाप्रभावः।
विडङ्गपाठात्रिफलाजमोदाहिङ्गूनि वक्रं त्रिकटूनि चैव॥
सर्वश्च वर्गो लवणः सुसूक्ष्मः सचित्रकः क्षौद्रयुतो निधेयः।
शृङ्गे गवां शृङ्गमयेन चैव प्रच्छादितः पक्षमुपेक्षितश्च॥
एषोऽगदः स्थावरजङ्गमानां जेता विषाणामजितो हि नाम्ना।
प्रपौण्डरीकं सुरदारु मुस्ता कालानुसार्या कटुरोहिणी च॥
स्थौणेयकध्यामकगुग्गुलूनि पुन्नागतालीशसुवर्चिकाश्च।
कुटन्नटैलासितसिन्धुवाराः शैलेयकुष्ठे तगरं प्रियङ्गुः॥
रोध्रं जलं काञ्चनगैरिकं च समागधं चन्दनसैन्धवं च।
सूक्ष्माणि चूर्णानि समानि कृत्वा शृङ्गे निदध्यान्मधुसंयुतानि॥
एषोऽगदस्तार्क्ष्य इति प्रदिष्टो विषं निहन्यादपि तक्षकस्य।
मांसीहरेणुत्रिफलामुरङ्गीरक्तालतायष्टिकपद्मकानि॥
विडङ्गतालीशसुगन्धिकैलात्वक्कुष्ठपत्राणि सचन्दनानि।
भार्गी पटोलं किणिही सपाठा मृगादनी कर्कटिका पुरश्च॥
पालिन्द्यशोकौ क्रमुकं सुरस्याः प्रसूनमारुष्करजं च पुष्पम्।
सूक्ष्मानि चूर्णानि समानि शृङ्गे न्यसेत् सपित्तानि समाक्षिकाणि॥
वराहगोधाशिखिशल्लकीनां मार्जारजं पार्षतनाकुले च।
यस्यागदोऽयं सुकृतो गृहे स्यान्नम्नर्षभो नाम नरर्षभस्य॥
न तत्र सर्पाः कुत एव कीटास्त्यजन्ति वीर्याणि विषाणि चैव।
एतेन भेर्यः पटहाश्च दिग्धा नानद्यमाना विषमाशु हन्युः॥
दिग्धाः पताकाश्च निरीक्ष्य सद्यो विषाभिभूता ह्यविषा भवन्ति।
लाक्षा हरेणुर्नलदं प्रियङ्गुः शिग्रुद्वयं यष्टिकपृथ्विकाश्च॥
चूर्णीकृतोऽयं रजनीविमिश्रो सर्पिर्मधुभ्यां सहितो निधेयः।
शृङ्गे गवां पूर्ववदापिधानस्ततः प्रयोज्योऽञ्जननस्यपानैः॥
संजीवनो नाम गतासुकल्पानेषोऽगदो जीवयतीह मर्त्यान्।
श्लेष्मातकीकट्फलमातुलुङ्ग्यः श्वेता गिरिह्वा किणिही सिता च॥
सतण्डुलीयोऽगद एष मुख्यो विषेषु दर्वीकरराजिलानाम्।
द्राक्षा सुगन्धा नगवृत्तिका च श्वेता समङ्गा समभागयुक्ता॥
देयो द्विभागः सुरसाच्छदस्य कपित्थबिल्वादपि दाडिमाच्च।
तथार्धभागः सितसिन्धुवारादङ्कोठमूलादपि गैरिकाच्च॥
एषोऽगदः क्षौद्रयुतो निहन्ति विशेषतो मण्डलिनां विषाणि।
वंशत्वगार्द्राआमलकं कपित्थं कटुत्रिकं हैमवती सकुष्ठा॥
करञ्जबीजं तगरं शिरीषपुष्पं च गोपित्तयुतं निहन्ति।
विषाणि लूतोन्दुरपन्नगानां कैटं च लेपाञ्जननस्यपानैः॥
पूरीषमूत्रानिलगर्भसङ्गान्निहन्ति वर्त्यञ्जननाभिलेपैः।
काचार्मकोथान् पटलांश्च घोरान् पुष्पं च हन्त्यञ्जननस्ययोगैः॥
समूलपुष्पाङ्कुरवल्कबीजात् क्वाथः शिरीषात् त्रिकटुप्रगाढः।
सलावणः क्षौद्रयुतोऽथ पीतो विशेषतः कीटविषं निहन्ति॥
कुष्ठं त्रिकटुकं दार्वी मधुकं लवणद्वयम्।
मालती नागपुष्पं च सर्वाणि मधुराणि च॥
कपित्थरसपिष्टोऽयं शर्कराक्षौद्रसंयुतः।
विषं हन्त्यगदः सर्वं मूषिकाणां विशेषतः॥
सोमराजीफलं पुष्पं कटभी सिन्धुवारकः।
चोरको वरुणः कुष्ठं सर्पगन्धा ससप्तला॥
पुनर्नवा शिरीषस्य पुष्पमारग्वधार्कजम्।
श्यामाम्बष्ठा विडङ्गानि तथाम्राश्मन्तकानि च॥
भूमी कुरबकश्चैव गण एकसरः स्मृतः।
एकशो द्वित्रिशो वापि प्रयोक्तव्यो विषापहः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0