सुश्रुतसंहिता · अध्याय 5.2
अथातः स्थावरविषविज्ञानीयमध्यायं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
स्थाबरं जङ्गमं चैव द्विविधं विषमुच्यते।
दशाधिष्ठानमाद्यं तु द्वितीयं षोडशाश्रयम्॥
मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सार एव च।
निर्यासो धातवश्चैव कन्दश्च दशमः स्मृतः॥
तत्र क्लीतकाश्वमारगुञ्जासुगन्धगर्गरककरघाटविद्युच्छिखाविजयानीत्यष्टौ मूलविषाणि; विषपत्रिकालम्बावरदारुकरम्भमहाकरम्भाणि पञ्च पत्रविषाणि; कुमुद्वतीवेणुकाकरम्भमहाकरम्भकर्कोटकरेणुकखद्योतकचर्मरीभगन्धासर्पघातिनन्दनसारपाकानीति द्वादश फलविषाणि; वेत्रकादम्बवल्लीजकरस्भमहाकरम्भाणि पञ्च पुष्पविषाणि; अन्त्रपाचककर्तरीयसौरीयककरघाटकरम्भनन्दननाराचकानि सप्त त्वक्सारनिर्यासविषाणि; कुमुदघ्नीस्नुहीजालक्षीरीणि त्रीणि क्षीरविषाणि; फेनाश्म(भस्म)हरितालं च द्वे धातुविषे; कालकूटवत्सनाभसर्षपपालककर्दमकवैराटकमुस्तकशृङ्गीविषप्रपुण्डरीकमूलकहालाहलमहाविषकर्कटकानीति त्रयोदश कन्दविषाणि; इत्येवं पञ्चपञ्चाशत् स्थावरविषाणि भवन्ति॥
चत्वारि वत्सनाभानि मुस्तके द्वे प्रकीर्तिते
षट् चैव सर्षपाण्याहुः शेषाण्येकैकमेव तु॥
उद्वेष्टनं मूलविषैः प्रलापो मोह एव च।
जृम्भाङ्गोद्वेष्टनश्वासा ज्ञेयाः पत्रविषेण तु॥
मुष्कशोफः फलविषैर्दाहोऽन्नद्वेष एव च।
भवेत् पुष्पविषैश्छर्दिराध्मानं मोह एव च॥
त्वक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि।
आस्यदौर्गन्ध्यपारुष्यशिरोरुक्कफसंस्रवाः॥
फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता।
हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि॥
प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत्।
कन्दजानि तु तीक्ष्णानि तेषां वक्ष्यामि विस्तरम्॥
स्पर्शाज्ञानं कालकूटे वेपथुः स्तम्भ एव च।
ग्रीवास्तम्भो वत्सनाभे पीतविण्मूत्रनेत्रता॥
सर्षपे वातवैगुण्यमानाहो ग्रन्थिजन्म च।
ग्रीवादौर्बल्यवाक्सङ्गौ पालकेऽनुमताविह॥
प्रसेकः कर्दमाख्येन विङ्भेदो नेत्रपीतता।
वैराटकेनाङ्गदुःखं शिरोरोगश्च जायते॥
गात्रस्तम्भो वेपथुश्च जायते मुस्तकेन तु।
शृङ्गीविषेणाङ्गसाददाहोदरविवृद्धयः॥
पुण्डरीकेण रक्तत्वमक्ष्णोर्वृद्धिस्तथोदरे।
वैवर्ण्यं मूलकैश्छर्दिर्हिक्काशोफप्रमूढताः॥
चिरेणोच्छ्वसिति श्यावो नरो हालाहलेन वै।
महाविषेण हृदये ग्रन्थिशूलोद्गमौ भृशम्॥
कर्कटेनोत्पतत्यूर्ध्वं हसन् दन्तान् दशत्यपि।
कन्दजान्युग्रवीर्याणि प्रत्युक्तानि त्रयोदश॥
सर्वाणि कुशलैर्ज्ञेयान्येतानि दशभिर्गुणैः।
रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशुव्यवायि च॥
विकाशि विशदं चैव लघ्वपाकि च तत् स्मृतम्।
तद्रौक्ष्यात् कोपयेद्वायुमौष्ण्यात् पित्तं सशोणितम्॥
मतिं च मोहयेत्तैक्ष्ण्यान्मर्मबन्धान् छिनत्ति च।
शरीरावयवान् सौक्ष्म्यात् प्रविशेद्विकरोति च॥
आशुत्वादाशु तद्धन्ति व्यवायात् प्रकृतिं भजेत्।
क्षपयेच्च विकाशित्वाद्दोषान्धातून्मलानपि॥
वैशद्यादतिरिच्येत दुश्चिकित्स्यं च लाघवात्।
दुर्हरं चाविपाकित्वात्तस्मात् क्लेशयते चिरम्॥
स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम्।
सद्यो व्यापादयेत्तत्तु ज्ञेयं दशगुणान्वितम्॥
यत् स्थावरं जङ्गमकृत्रिमं वा देहादशेषं यदनिर्गतं तत्।
जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा॥
स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति।
वीर्याल्पमावान्न निपातयेत्तत् कफावृतं वर्षगणानुबन्धि॥
तेनार्दितो भिन्नपुरीषवर्णो विगन्धवैरस्यमुखः पिपासी।
मूर्च्छन् वमन् गद्गदवाग्विषण्णो भवेच्च दुष्योदरलिङ्गजुष्टः॥
आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी।
भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षस्तु यथा विहङ्गः॥
स्थितं रसादिष्वथवा यथोक्तान् करोति धातुप्रभवान् विकारान्।
कोपं च शीतानिलदुर्दिनेषु यात्याशु पूर्वं शृणु तत्र रूपम्॥
निद्रा गुरुत्वं च विजृम्भणं च विश्लेषहर्षावथवाङ्गमर्दः।
ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठमोहान्॥
धातुक्षयं पादकरास्यशोफं दकोदरं छर्दिमथातिसारम्।
वैवर्ण्यमूर्च्छाविषमज्वरान् वा कुर्यात् प्रवृद्धां प्रबलां तृषां वा॥
उन्मादमन्यज्जनयेत्तथान्यदानाहमन्यत् क्षपयेच्च शुक्रम्।
गाद्गद्यमन्यज्जनयेच्च कुष्ठं तांस्तान् विकारांश्च बहुप्रकारान्॥
दूषितं देशकालान्नदिवास्वप्नैरभीक्ष्णशः।
यस्माद्दूषयते धातून् तस्माद्दूषीविषं स्मृतम्॥
स्थावरस्योपयुक्तस्य वेगे तु प्रथमे नृणाम्।
श्यावा जिह्वा भवेत्स्तब्धा मूर्च्छा श्वासश्च जायते॥
द्वितीये वेपथुः सादो दाहः कण्ठरुजस्तथा।
विषमामाशयप्राप्तं कुरुते हृदि वेदनाम्॥
तालुशोषं तृतीये तु शूलं चामाशये भृशम्।
दुर्वर्णे हरिते शूने जायेते चास्य लोचने॥
पक्वामाशययोस्तोदो हिक्का कासोऽन्त्रकूजनम्।
चतुर्थे जायते वेगे शिरसश्चातिगौरवम्॥
कफप्रसेको वैवर्ण्यं पर्वभेदश्च पञ्चमे।
सर्वदोषप्रकोपश्च पक्वाधाने च वेदना॥
षष्ठे प्रज्ञाप्रणाशश्च भृशं चाप्यतिसार्यते।
स्कन्धपृष्ठकटीभङ्गः सन्निरोधश्च सप्तमे॥
प्रथमे विषवेगे तु वान्ते शीताम्बुसेचितम्।
अगदं मधुसर्पिर्भ्यां पाययेत समायुतम्॥
द्वितीये पूर्ववद्वान्तं पाययेत्तु विरेचनम्।
तृतीयेऽगदपानं तु हितं नस्यं तथाञ्जनम्॥
चतुर्थे स्नेहसंमिश्रं पाययेतागदं भिषक्।
पञ्चमे क्षौद्रमधुकक्वाथयुक्तं प्रदापयेत्॥
षष्ठेऽतीसारवत् सिद्धिरवपीडश्च सप्तमे।
मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत्॥
वेगान्तरे त्वन्यतमे कृते कर्मणि शीतलाम्।
यवागूं सघृतक्षौद्रामिमां दद्याद्विषापहाम्॥
कोषातक्योऽग्निकः पाठासूर्यवल्ल्यमृताभयाः।
शिरीषः किणिही शेलुर्गिर्याह्वा रजनीद्वयम्॥
पुनर्नवे हरेणुश्च त्रिकटुः सारिवे बला।
एषां यवागूर्निष्क्वाथे कृता हन्ति विषद्वयम्॥
मधुकं तगरं कुष्ठं भद्रदारु हरेणवः।
पुन्नागैलैलवालूनि नागपुष्पोत्पलं सिता॥
विडङ्गं चन्दनं पत्रं प्रियङ्गुर्ध्यामकं तथा।
हरिद्रे द्वे बृहत्यौ च सारिवे च स्थिरा सहा॥
कल्कैरेषां घृतं सिद्धमजेयमिति विश्रुतम्।
विषाणि हन्ति सर्वाणि शीघ्रमेवाजितं क्वचित्॥
दूषीविषार्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम्।
पाययेतागदं नित्यमिमं दूषिविषापहम्॥
पिप्पल्यो ध्यामकं मांसी शावरः परिपेलवम्।
सुवर्चिका ससूक्ष्मैला तोयं कनकगैरिकम्॥
क्षौद्रयुक्तोऽगदो ह्येष दूषीविषमपोहति।
नाम्ना दूषीविषारिस्तु न चान्यत्रापि वार्यते॥
ज्वरे दाहे च हिक्कायामानाहे शुक्रसंक्षय।
शोफेऽतिसारे मूर्च्छायां हृद्रोगे जठरेऽपि च॥
उन्मादे वेपथौ चैव ये चान्ये स्युरुपद्रवाः।
यथास्वं तेषु कुर्वीत विषघ्नैरौषधैः क्रियाम्॥
साध्यमात्मवतः सद्यो याप्यं सवत्सरोत्थितम्।
दूषीविषमसाध्यं तु क्षीणस्याहितसेविनः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0