भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 5.3

5.3.1

अथातो जङ्गमविषविज्ञानीयं कल्पं व्याख्यास्यामः॥

5.3.2

यथोवाच भगवान् धन्वन्तरिः॥

5.3.3

जङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोडश।
समासेन मया यानि विस्तरस्तेषु वक्ष्यते॥

5.3.4

तत्र दृष्टिनिःश्वासदंष्ट्रानखमूत्रपुरीषशुक्रलालार्तवमुखसन्दंशविशर्धिततुण्डास्थिपित्तशूकशवानीति॥

5.3.5

तत्र दृष्टिनिःश्वासविषा दिव्याः सर्पाः, भौमास्तु दंष्ट्राविषाः, मार्जारश्ववानरमकरमण्डूकपाकमत्स्यगोधाशम्बूकप्रचलाकगृहगोधिकाचतुष्पादकीटास्तथान्ये दंष्ट्रानखविषाः, चिपिटपिच्चिटककषायवासिकसर्षपकतोटकवर्चःकीटकौण्डिन्यकाः शकृन्मूत्रविषाः, मूषिकाः शुक्रविषाः, लूता लालामूत्रपुरीषमुखसन्दंशनखशुक्रार्तवविषाः, वृश्चिकविश्वम्भरवरटीराजीवमत्स्योच्चिटिङ्गाः समुद्रवृश्चिकाश्चाल(र)विषाः, चित्रशिरःसरावकुर्दिशतदारुकारिमेदकसारिकामुखा मुखसन्दंशविशर्धितमूत्रपुरीषविषाः, मक्षिकाकणभजलायुका मुखसन्दंशविषाः, विषहतास्थि सर्पकण्टकवरटीमत्स्यास्थि चेत्यस्थिविषाणि, शकुलीमत्स्यरक्तराजिवरकी(टी)मत्स्याश्च पित्तविषाः, सूक्ष्मतुण्डोच्चिटिङ्गवरटीशतपदीशूकवलभिकाशृङ्गिभ्रमराः शूकतुण्डविषाः, कीटसर्पदेहा गतासवः शवविषाः; शेषास्त्वनुक्ता मुखसन्दंशविषेष्वेव गणयितव्याः॥

5.3.6

भवन्ति चात्र राज्ञोऽरिदेशे रिपवस्तृणाम्बुमार्गान्नधूमश्वसनान् विषेण।
संदूषयन्त्येभिरतिप्रदुष्टान् विज्ञाय लिङ्गैरभिशोधयेत्तान्॥

5.3.7

दुष्टं जलं पिच्छिलमुग्रगन्धि फेनान्वितं राजिभिरावृतं च।
मण्डूकमत्स्यं म्रियते विहङ्गा मत्ताश्च सानूपचरा भ्रमन्ति॥

5.3.8

मज्जन्ति ये चात्र नराश्वनागास्ते छर्दिमोहज्वरदाहशोफान्।
ऋच्छन्ति(गच्छन्ति) तेषामपहृत्य दोषान् दुष्टं जलं शोधयितुं यतेत॥

5.3.9

धवाश्वकर्णासनपारिभद्रान् सपाटलान् सिद्धकमोक्षकौ च।
दग्ध्वा सराजद्रुमसोमवल्कांस्तद्भस्म शीतं वितरेत् सरःसु॥

5.3.10

भस्माञ्जलिं चापि घटे निधाय विशोधयेदीप्सितमेवमम्भः।
क्षितिप्रदेशं विषदूषितं तु शिलातलं तीर्थमथेरिणं वा॥

5.3.11

स्पृशन्ति गात्रेण तु येन येन गोवाजिनागोष्ट्रखरा नरा वा।
तच्छूनतां यास्त्यथ दह्यते च विशीर्यते रोमनखं तथैव॥

5.3.12

तत्राप्यनन्तां सह सर्वगन्धैः पिष्ट्वा सुराभिर्विनियोज्य मार्गम्।
सिञ्चेत् पयोभिः सुमृदन्वितैस्तं विडङ्गपाठाकटभीजलैर्वा॥

5.3.13

तृणेषु भक्तेषु च दूषितेषु सीदन्ति मूर्च्छन्ति वमन्ति चान्ये।
विड्भेदमृच्छन्त्यथवा म्रियन्ते तेषां चिकित्सां प्रणयेद्यथोक्ताम्॥

5.3.14

विषापहैर्वाप्यगदैर्विलिप्य वाद्यानि चित्राण्यपि वादयेत।
तारः सुतारः ससुरेन्द्रगोपः सर्वैश्च तुल्यः कुरुविन्दभागः॥

5.3.15

पित्तेन युक्तः कपिलान्वयेन वाद्यप्रलेपो विहितः प्रशस्तः।
वाद्यस्य शब्देन हि यान्ति नाशं विषाणि घोराण्यपि यानि सन्ति॥

5.3.16

धूमेऽनिले वा विषसंप्रयुक्ते खगाः श्रमार्ताः प्रपतन्ति भूमौ।
कासप्रतिश्यायशिरोरुजश्च भवन्ति तीव्रा नयनामयाश्च॥

5.3.17

लाक्षाहरिद्रातिविषाभयाब्दहरेणुकैलादलवक्रकुष्ठम्।
प्रियङ्गुकां चाप्यनले निधाय धूमानिलौ चापि विशोधयेत॥

5.3.18

प्रजामिमामात्मयोनेर्ब्रह्मणः सृजतः किल।
अकरोदसुरो विघ्नं कैटभो नाम दर्पितः॥

5.3.19

तस्य क्रुद्धस्य वै वक्त्राद्ब्रह्मणस्तेजसो निधेः।
क्रोधो विग्रहवान् भूत्वा निपपातातिदारुणः॥

5.3.20

स तं ददाह गर्जन्तमन्तकाभं महाबलम्।
ततोऽसुरं घातयित्वा तत्तेजोऽवर्धताद्भुतम्॥

5.3.21

ततो विषादो देवानामभवत्तं निरीक्ष्य वै।
विषादजननत्वाच्च विषमित्यभिधीयते॥

5.3.22

ततः सृष्ट्वा प्रजाः शेषं तदा तं क्रोधमीश्वरः।
विन्यस्तवान् स भूतेसु स्थावरेषु चरेषु च॥

5.3.23

यथाव्यक्तरसं तोयमन्तरीक्षान्महीगतम्।
तेषु तेषु प्रदेशेषु रसं तं तं नियच्छति॥

5.3.24

एवमेव विषं यद्यद्द्रव्यं व्याप्यावतिष्ठते।
स्वभवादेव तं तस्य रसं समनुवर्तते॥

5.3.25

विषे यस्माद्गुणाः सर्वे तीक्ष्णाः प्रायेण सन्ति हि।
विषं सर्वमतो ज्ञेयं सर्वदोषप्रकोपणम्॥

5.3.26

ते तु वृत्तिं प्रकुपिता जहति स्वां विषार्दिताः।
नोपयति विषं पाकमतः प्राणान् रुणद्धि च॥

5.3.27

श्लेष्मणाआवृतमार्गत्वादुच्छ्वासोऽस्य निरुध्यते।
विसंज्ञः सति जीवेऽपि तस्मात्तिष्ठति मानवः॥

5.3.28

शुक्रवत् सर्वसर्पाणां विषं सर्वशरीरगम्।
क्रुद्धानामेति चाङ्गेभ्यः शुक्रं निर्मन्थनादिव॥

5.3.29

तेषां बडिशवद्दंष्ट्रास्तासु सज्जति चागतम्।
अनुद्वृत्ता विषं तस्मान्न मुञ्चन्ति च भोगिनः॥

5.3.30

यस्मादत्यर्थमुष्णं च तीक्ष्णं च पठितं विषम्।
अतः सर्वविषेषूक्तः परिषेकस्तु शीतलः॥

5.3.31

मन्दं कीटेषु नात्युष्णं बहुवातकफं विषम्।
अतः कीटविषे चापि स्वेदो न प्रतिषिध्यते॥

5.3.32

कीटैर्दष्टानुग्रविषैः सर्पवत् समुपाचरेत्।
स्वभावादेव तिष्ठेत्तु प्रहारादंशयोर्विषम्॥

5.3.33

व्याप्य सावयवं देहं दिग्धविद्धाहिदष्टयोः।
लौल्याद्विषान्वितं मांसं यः खादेन्मृतमात्रयोः॥

5.3.34

यथाविषं स रोगेण क्लिश्यते म्रियतेऽपि वा।
अतश्चाप्यनयोर्मांसमभक्ष्यं मृतमात्रयोः॥

5.3.35

मुहूर्तात्तदुपादेयं प्रहारादंशबर्जितम्।
सवातं गृहधूमाभं पुरीषं योऽतिसार्यते॥

5.3.36

आध्मातोऽत्यर्थमुष्णास्रो विवर्णः सादपीडितः।
उद्वमत्यथ फेनं च विषपीतं तमादिशेत्॥

5.3.37

न चास्य हृदयं वह्निर्विषजुष्टं दहत्यपि।
तद्धि स्थानं चेतनायाः स्वभवाद्व्याप्य तिष्ठिति॥

5.3.38

अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु।
याम्ये सपित्र्ये परिवर्जनीया ऋक्षे नरा मर्मसु ये च दष्टाः॥

5.3.39

दर्वीकराणां विषमाशुघाति सर्वाणि चोष्णे द्विगुणीभवन्ति।
अजीर्णपित्तातपपीडितेषु बालप्रमेहिष्वथ गर्भिणीषु॥

5.3.40

वृद्धातुरक्षीणबुभुक्षितेषु रूक्षेषु भीरुष्वथ दुर्दिनेषु।
शस्त्रक्षते यस्य न रक्तमेति राज्यो लताभिश्च न संभवन्ति॥

5.3.41

शीताभिरद्भिश्च न रोमहर्षो विषाभिभूतं परिवर्जयेत्तम्।
जिह्वा सिता यस्य च केशशातो नासावभङ्गश्च सकण्ठभङ्गः॥

5.3.42

कृष्णः सरक्तः श्वयथुश्च दंशे हन्वोः स्थिरत्वं च स वर्जनीयः।
वर्तिर्घना यस्य निरेति वक्त्राद्रक्तं स्रवेदूर्ध्वमधश्च यस्य॥

5.3.43

दंष्ट्रानिपाताः सकलाश्च यस्य तं चापि वैद्यः परिवर्जयेत्तु।
उन्मत्तमत्यर्थमुपद्रुतं वा हीनस्वरं वाप्यथवा विवर्णम्॥

5.3.44

सारिष्टमत्यर्थमवेगिनं च जह्यान्नरं तत्र न कर्म कुर्यात्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc