भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 5.1

5.1.1

अथातोऽन्नपानरक्षकल्पं व्याख्यास्यामः॥

5.1.2

यथोवाच भगवान् धन्वन्तरिः॥

5.1.3

धन्वन्तरिः काशिपतिस्तपोधर्मभृतां वरः।
सुश्रुतप्रभृतीञ्छिष्याञ्छशासाहतशासनः॥

5.1.4

रिपवो विक्रमाक्रान्ता ये च स्वे कृत्यतां गताः।
सिसृक्षवः क्रोधविषं विवरं प्राप्य तादृशम्॥

5.1.5

विषैर्निहन्युर्निपुणं नृपतिं दुष्टचेतसः।
स्त्रियो वा विविधान् योगान् कदाचित्सुभगेच्छया॥

5.1.6

विषकन्योपयोगाद्वा क्षणाज्जह्यादसून्नरः।
तस्माद्वैद्येन सततं विषाद्रक्ष्यो नराधिपः॥

5.1.7

यस्माच्च चेतोऽनित्यत्वमश्ववत् प्रथितं नृणाम्।
न विश्वस्यात्ततो राजा कदाचिदपि कस्यचित्॥

5.1.8

कुलीनं धार्मिकं स्निग्धं सुभृतं संततोत्थितम्।
अलुब्धमशठं भक्तं कृतज्ञं प्रियदर्शनम्॥

5.1.9

क्रोधपारुष्यमात्सर्यमायालस्यविवर्जितम्।
जितेन्द्रियं क्षमावन्तं शुचिं शीलदयान्वितम्॥

5.1.10

मेधाविनमसंश्रान्तमनुरक्तं हितैषिणम्।
पटुं प्रगल्भं निपुणं दक्षमालस्यवर्जितम्॥

5.1.11

पूर्वोक्तैश्च गुणैर्युक्तं नित्यं सन्निहितागदम्।
महानसे प्रयुञ्जीत वैद्यं तद्विद्यपूजितम्॥

5.1.12

प्रशस्तदिग्देशकृतं शुचिभाण्डं महच्छुचि।
सजालकं गवाक्षाढ्यमाप्तवर्गनिषेवितम्॥

5.1.13

विकक्षसृष्टसंसृष्टं सवितानं कृतार्चनम्।
परीक्षितस्त्रीपुरुषं भवेच्चापि महानसम्॥

5.1.14

तत्राध्यक्षं नियुञ्जीत प्रायो वैद्यगुणान्वितम्।
शुचयो दक्षिणा दक्षा विनीताः प्रियदर्शनाः॥

5.1.15

संविभक्ताः सुमनसो नीचकेशनखाः स्थिराः।
स्नाता दृढं संयमिनः कृतोष्णीषाः सुसंयताः॥

5.1.16

तस्य चाज्ञाविधेयाः स्युर्विविधाः परिकर्मिणः।
आहारस्थितयश्चापि भवन्ति प्राणिनो यतः॥

5.1.17

तस्मान्महानसे वैद्यः प्रमादरहितो भवेत्।
माहानसिकवोढारः सौपौदनिकपौपिकाः॥

5.1.18

भवेयुर्वैद्यवशगा ये चाप्यन्येऽत्र केचन।
इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः॥

5.1.19

विद्याद्विषस्य दातारमेभिर्लिङ्गैश्च बुद्धिमान्।
न ददात्युत्तरं पृष्टो विवक्षन् मोहमेति च॥

5.1.20

अपार्थं बहु सङ्कीर्णं भाषते चापि मूढवत्।
स्फोटयत्यङ्गुलीर्भूमिमकस्माद्विलिखेद्धसेत्॥

5.1.21

वेपथुर्जायते तस्य त्रस्तश्चान्योऽन्यमीक्षते।
क्षामो विवर्णवक्त्रश्च नखैः किञ्चिच्छिनत्त्यपि॥

5.1.22

आलभेतासकृद्दीनः करेण च शिरोरुहान्।
निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः॥

5.1.23

वर्तते विपरीतं तु विषदाता विचेतनः।
केचिद्भयात् पार्थिवस्य त्वरिता वा तदाज्ञया॥

5.1.24

असतामपि सन्तोऽपि चेष्टां कुर्वन्ति मानवाः।
तस्मात् परीक्षणं कार्यं भृत्यानामादृतैर्नृपैः॥

5.1.25

अन्ने पाने दन्तकाष्ठे तथाभ्यङ्गेऽवलेखने।
उत्सादने कषाये च परिषेकेऽनुलेपने॥

5.1.26

स्रुक्षु वस्त्रेषु शय्यासु कवचाभरणेषु च।
पादुकापादपीठेषु पृष्ठेषु गजवाजिनाम्॥

5.1.27

विषजुष्टेषु चान्येषु नस्यधूमाञ्जनादिषु।
लक्षणानि प्रवक्ष्यामि चिकित्सामप्यनन्तरम्॥

5.1.28

नृपभक्ताद्बलिं न्यस्तं सविषं भक्षयन्ति ये।
तत्रैव ते विनश्यन्ति मक्षिकावायसादयः॥

5.1.29

हुतभुक् तेन चान्नेन भृशं चटचटायते।
मयूरकण्ठप्रतिमो जायते चापि दुःसहः॥

5.1.30

भिन्नार्चिस्तीक्ष्णधूमश्च नचिराच्चोपशाम्यति।
चकोरस्याक्षिवैराग्यं जायते क्षिप्रमेव तु॥

5.1.31

दृष्ट्वान्नं विषसंसृष्टं म्रियन्ते जीवजीवकाः।
कोकिलः स्वरवैकृत्यं क्रौञ्चस्तु मदमृच्छति॥

5.1.32

हृष्येन्मयूर उद्विग्नः क्रोशतः शुकसारिके।
हंसः क्ष्वेडति चात्यर्थं भृङ्गराजस्तु कूजति॥

5.1.33

पृषतो विसृजत्यश्रुं विष्ठां मुञ्चति मर्कटः।
सन्निकृष्टांस्ततः कुर्याद्राज्ञस्तान् मृगपक्षिणः॥

5.1.34

वेश्मनोऽथ विभूषार्थं रक्षार्थं चात्मनः सदा।
उपक्षिप्तस्य चान्नस्य बाष्पेणोर्ध्वं प्रसर्पता॥

5.1.35

हृत्पीडा भ्रान्तनेत्रत्वं शिरोदुःखं च जायते।
तत्र नस्याञ्जने कुष्ठं लामज्जं नलदं मधु॥

5.1.36

कुर्याच्छिरीषरजनीचन्दनैश्च प्रलेपनम्।
हृदि चन्दनलेपस्तु तथा सुखमवाप्नुयात्॥

5.1.37

पाणिप्राप्तं पाणिदाहं नखशातं करोति च।
अत्र प्रलेपः श्यामेन्द्रगोपासोमोत्पलानि च॥

5.1.38

स चेत् प्रमादान्मोहाद्वा तदन्नमुपसेवते।
अष्ठीलावत्ततो जिह्वा भवत्यरसवेदिनी॥

5.1.39

तुद्यते दह्यते चापि श्लेष्मा चास्यात् प्रसिच्यते।
तत्र बाष्पेरितं कर्म यच्च स्याद्दान्तकाष्ठिकम्॥

5.1.40

मूर्च्छां छर्दिमतीसारमाध्मानं दाहवेपथू।
इन्द्रियाणां च वैकृत्यं कुर्यादामाशयं गतम्॥

5.1.41

तत्राशु मदनालाबुबिम्बीकोशातकीफलैः।
छर्दनं दध्युदश्विद्भ्यामथवा तण्डुलाम्बुना॥

5.1.42

दाहं मूर्च्छामतीसारं तृष्णामिन्द्रियवैकृतम्।
आटोपं पाण्डुतां कार्श्यं कुर्यात् पक्वाशयं गतम्॥

5.1.43

विरेचनं ससर्पिष्कं तत्रोक्तं नीलिनीफलम्।
दध्ना दूषीविषारिश्च पेयो वा मधुसंयुतः॥

5.1.44

द्रवद्रव्येषु सर्वेषु क्षीरमद्योदकादिषु।
भवन्ति विविधा राज्यः फेनबुद्बुदजन्म च॥

5.1.45

छायाश्चात्र न दृश्यन्ते दृश्यन्ते यदि वा पुनः।
भवन्ति यमलाश्छिद्रास्तन्व्यो वा विकृतास्तथा॥

5.1.46

शाकसूपान्नमांसानि क्लिन्नानि विरसानि च।
सद्यः पर्युषितानीव विगन्धानि भवन्ति च॥

5.1.47

गन्धवर्णरसैर्हीनाः सर्वे भक्ष्याः फलानि च।
पक्वान्याशु विशीर्यन्ते पाकमामानि यान्ति च॥

5.1.48

विशीर्यते कूर्चकस्तु दन्तकाष्ठगते विषे।
जिह्वादन्तौष्ठमांसानां श्वयथुश्चोपजायते॥

5.1.49

अथास्य धातकीपुष्पपथ्याजम्बूफलास्थिभिः।
सक्षौद्रैः प्रच्छिते शोफे कर्तव्यं प्रतिसारणम्॥

5.1.50

अथावाङ्कोठमूलानि त्वचः सप्तच्छदस्य वा।
शिरीषमाषका वापि सक्षौद्राः प्रतिसारणम्॥

5.1.51

जिह्वानिर्लेखवलौ दन्तकाष्ठवदादिशेत्।
पिच्छिलो बहुलोऽभ्यङ्गो विवर्णो वा विषान्वितः॥

5.1.52

स्फोटजन्मरुजास्रावत्वक्पाकः स्वेदनं ज्वरः।
दरणं चापि मांसानामभ्यङ्गे विषसंयुते॥

5.1.53

तत्र शीताम्बुसिक्तस्य कर्तव्यमनुलेपनम्।
चन्दनं तगरं कुष्ठमुशीरं वेणुपत्रिका॥

5.1.54

सोमवल्ल्यमृता श्वेता पद्मं कालीयकं त्वचम्।
कपित्थरसमूत्राभ्यां पानमेतच्च युज्यते॥

5.1.55

उत्सादने परीषेके कषाये चानुलेपने।
शय्यावस्त्रतनुत्रेषु ज्ञेयमभ्यङ्गलक्षणैः॥

5.1.56

केशशातः शिरोदुःखं खेभ्यश्च रुधिरागमः।
ग्रन्थिजन्मोत्तमाङ्गेषु विषजुष्टेऽवलेखने॥

5.1.57

प्रलेपो बहुशस्तत्र भविताः कृष्णमृत्तिकाः।
ऋष्यपित्तघृतश्यामापालिन्दीतण्डुलीयकैः॥

5.1.58

गोमयस्वरसो वापि हितो वा मालतीरसः।
रसो मूषिकपर्ण्या वा धूमो वागारसंभवः॥

5.1.59

शिरोऽभ्यङ्गः शिरस्त्राणं स्नानमुष्णीषमेव च।
स्रजश्च विषसंसृष्टाः साधयेदवलेखनात्॥

5.1.60

मुखालेपे मुखं श्यावं युक्तमभ्यङ्गलक्षणैः।
पद्मिनीकण्टकप्रख्यैः कण्टकैश्चोपचीयते॥

5.1.61

तत्र क्षौद्रघृतं पानं प्रलेपश्चन्दनं घृतम्।
पयस्या मधुकं फञ्जी बन्धुजीवः पुनर्नवा॥

5.1.62

अस्वास्थ्यं कुञ्जरादीनां लालास्रावोऽक्षिरक्तता।
स्फिक्पायुमेढ्रमुष्केषु यातुश्च स्फोटसंभवः॥

5.1.63

तत्राभ्यङ्गवदेवेष्टा यातृवाहनयोः क्रिया।
शोणितागमनं खेभ्यः शिरोरुक्कफस्ंस्रवः॥

5.1.64

नस्यधूमगते लिङ्गमिन्दिर्याणां च वैकृतम्।
तत्र दुग्धैर्गवादीनां सर्पिः सातिविषैः शृतम्॥

5.1.65

पाने नस्ये च सश्वेतं हितं समदयन्तिकम्।
गन्धहानिर्विवर्णत्वं पुष्पाणां म्लानता भवेत्॥

5.1.66

जिघ्रतश्च शिरोदुःखं वारिपूर्णे च लोचने।
तत्र बाष्पेरितं कर्म मुखालेपे च यत् स्मृतम्॥

5.1.67

कर्णतैलगते श्रोत्रवैगुण्यं शोफवेदने।
कर्णस्रावश्च तत्राशु कर्तव्यं प्रतिपूरणम्॥

5.1.68

स्वरसो बहुपुत्रायाः सघृतः क्षौद्रसंयुतः।
सोमवल्करसश्चापि सुशीतो हित इष्यते॥

5.1.69

अश्रूपदेहो दाहश्च वेदना दृष्टिविभ्रमः।
अञ्जने विषसंसृष्टे भवेदान्ध्यमथापि च॥

5.1.70

तत्र सद्यो घृतं पेयं तर्पणं च समागधम्।
अञ्जनं मेषशृङ्गस्य निर्यासो वरुणस्य च॥

5.1.71

मुष्ककस्याजकर्णस्य फेनो गोपित्तसंयुतः।
कपित्थमेषशृङ्ग्योश्च पुष्पं भल्लातकस्य वा॥

5.1.72

एकैकं कारयेत् पुष्पं बन्धूकाङ्कोटयोरपि।
शोफः स्रावस्तथा स्वापः पादयोः स्फोटजन्म च॥

5.1.73

भवन्ति विषजुष्टाभ्यां पादुकाभ्यामसंशयम्।
उपानत्पादपीठानि पादुकावत् प्रसाधयेत्॥

5.1.74

भूषणानि हतार्चींषि न विभान्ति यथा पुरा।
स्वानि स्थानानि हन्युश्च दाहपाकावदारणैः॥

5.1.75

पादुकाभूषणेषूक्तमभ्यङ्गविधिमाचरेत्।
विषोपसर्गो बाष्पादिर्भूषणान्तो य ईरितः॥

5.1.76

समीक्ष्योपद्रवांस्तस्य विदधीत चिकित्सितम्।
महासुगन्धिमगदं यं प्रवक्ष्यामि तं भिषक्॥

5.1.77

पानालेपननस्येषु विदधीताञ्जनेषु च।
विरेचनानि तीक्ष्णानि कुर्यात् प्रच्छर्दनानि च॥

5.1.78

सिराश्च व्यधयेत् क्षिप्रं प्राप्तं विस्रावणं यदि।
मूसिकाजरुहा वापि हस्ते बद्धा तु भूपतेः॥

5.1.79

करोति निर्विषं सर्वमन्नं विषसमायुतम्।
हृदयावरणं नित्यं कुर्याच्च मित्रमध्यगः॥

5.1.80

पिबेद्घृतमजेयाख्यममृताख्यं च बुद्धिमान्।
सर्पिर्दधि पयः क्षौद्रं पिबेद्वा शीतलं जलम्॥

5.1.81

मयूरान्नकुलान् गोधाः पृषतान् हरिणानपि।
सततं भक्षयेच्चापि रसांस्तेषां पिबेदपि॥

5.1.82

गोधानकुलमांसेषु हरिणस्य च बुद्धिमान्।
दद्यात् सुपिष्टां पालिन्दीं मधुकं शर्करां तथा॥

5.1.83

शर्करातिविषे देये मायूरे समहौषधे।
पार्षते चापि देयाः स्युः पिप्पल्यः समहौषधाः॥

5.1.84

सक्षौद्रः सघृतश्चैव शिम्बीयूषो हितः सदा।
विषघ्नानि च सेवेत भक्ष्यभोज्यानि बुद्धिमान्॥

5.1.85

पिप्पलीमधुकक्षौद्रशर्करेक्षुरसाम्बुभिः।
छर्दयेद्गुप्तहृदयो भक्षितं यदि वै विषम्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc