भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 4.38

4.38.1

अथातो निरूहक्रमचिकित्सितं व्याख्यास्यामः॥

4.38.2

यथोवाच भगवान् धन्वन्तरिः॥

4.38.3

अथानुवासितमास्थापयेत्; स्वभ्यक्तस्विन्नशरीरमुत्सृष्टबहिर्वेगमवाते शुचौ वेश्मनि मध्याह्ने प्रततायां शय्यायामधःसुपरिग्रहायां श्रोणिप्रदेशप्रतिव्यूढायामनुपधानायां वामपार्श्वशायिनमाकुञ्चितदक्षिणसक्थिमितरप्रसारितसक्थिं सुमनसं जीर्णान्नं वाग्यतं सुनिषण्णदेहं विदित्वा, ततो वामपादस्योपरि नेत्रं कृत्वेतरपादाङ्गुष्ठाङ्गुलिभ्यां कर्णिकामुपरि निष्पीड्य, सव्यपाणिकनिष्ठिकानामिकाभ्यां बस्तेर्मुखार्धं सङ्कोच्य, मध्यमाप्रदेशिन्यङ्गुष्ठैरर्धं तु विवृतास्यं कृत्वा, बस्तावौषधं प्रक्षिप्य, दक्षिणहस्ताङ्गुष्ठेन प्रदेशिनीमध्यमाभ्यां चानुसिक्तमनायतमबुद्बुदमसङ्कुचितमवातमौषधासन्नमुपसंगृह्य, पुनरुपरि तदितरेण गृहीत्वा दक्षिणेनावसिञ्चेत्, ततः सूत्रेणैवौषधान्ते द्विस्त्रिर्वाआवेष्ट्य बध्नीयात्, अथ दक्षिणेनोत्तानेन पाणिना बस्तिं गृहीत्वा वामहस्तमध्यमाङ्गुलिप्रदेशिनीभ्यां नेत्रमुपसंगृह्याङ्गुष्टेन नेत्रद्वारं पिधाय, घृताभ्यक्ताग्रनेत्रं घृताक्तमुपादाय प्रयच्छेदनुपृष्ठवंशं सममुन्मुखमाकर्णिकं नेत्रं प्रणिधत्स्वेति ब्रूयात्॥

4.38.4

बस्तिं सव्ये करे कृत्वा दक्षिणेनावपीडयेत्। एकेनैवावपीडेन न द्रुतं न विलम्बितम्॥

4.38.5

ततो नेत्रमपनीय त्रिंशन्मात्राः पीडनकालादुपेक्ष्योत्तिष्ठेत्यातुरं ब्रूयात्। अथातुरमुपवेशयेदुत्कुटुकं बस्त्यागमनार्थम्। निरूहप्रत्यागमनकालस्तु मुहूर्तो भवति॥

4.38.6

अनेन विधिना बस्तिं दद्याद्बस्तिविशारदः। द्वितीयं वा तृतीयं वा चतुर्थं वा यथार्थतः॥

4.38.7

सम्यङ्निरूढलिङ्गे तु प्राओते बस्तिं निवारयेत्। विशेषात् सुकुमाराणां हीन एव क्रमो हितः॥

4.38.8

अपि हीनक्रमं कुर्यान्न तु कुर्यादतिक्रमम्। यस्य स्याद्बस्तिरल्पोऽल्पवेगो हीनमलानिलः॥

4.38.9

दुर्निरूढः स विज्ञेयो मूत्रार्त्यरुचिजाड्यवान्। यान्येव प्राङ्मयोक्तानि लिङ्गान्यतिविरेचिते॥

4.38.10

तान्येवातिनिरूढेऽपि विज्ञेयानि विपश्चिता। यस्य क्रमेण गच्छन्ति विट्पित्तकफवायवः॥

4.38.11

लाघवं चोपजायेत सुनिरूढं तमादिशेत्। सुनिरूढं ततो जन्तुं स्नातवन्तं तु भोजयेत्॥

4.38.12

पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात्। सर्वं वा जाङ्गलरसैर्भोजयेदविकारिभिः॥

4.38.13

त्रिभागहीनमर्धं वा हीनमात्रमथापि वा। यथाग्निदोषं मात्रेयं भोजनस्य विधीयते॥

4.38.14

अनन्तरं ततो युञ्ज्याद्यथास्वं स्नेहबस्तिना। विविक्तता मनस्तुष्टिः स्निग्धता व्याधिनिग्रहः॥

4.38.15

आस्थापनस्नेहबस्त्योः सम्यग्दाने तु लक्षणम्। तदहस्तस्य पवनाद्भयं बलवदिष्यते॥

4.38.16

रसौदनस्तेन शस्तस्तदहश्चानुवासनम्। पश्चादग्निबलं मत्वा पवनस्य च चेष्टितम्॥

4.38.17

अन्नोपस्तम्भिते कोष्ठे स्नेहबस्तिर्विधीयते। अनायान्तं मुहूर्तात्तु निरूहं शोधनैर्हरेत्॥

4.38.18

तीक्ष्णैर्निरूहैर्मतिमान् क्षारमूत्राम्लसंयुतैः। विगुणानिलविष्टब्धं चिरं तिष्ठन्निरूहणम्॥

4.38.19

शूलारतिज्वरानाहान्मरणं वा प्रवर्तयेत्। नतु भुक्तवतो देयमास्थापनमिति स्थितिः॥

4.38.20

विसूचिकां वा जनयेच्छदिं वापि सुदारुणाम्। कोपयेत् सर्वदोषान् वा तस्माद्दद्यादभोजिने॥

4.38.21

जीर्णान्नस्याशये दोषाः पुंसः प्रव्यक्तिमागताः। निःशेषाः सुखमायान्ति भोजनेनाप्रपीडिताः॥

4.38.22

नवाआस्थापनविक्षिप्तमन्नमग्निः प्रधावति। तस्मादास्थापनं देयं निराहाराय जानता॥

4.38.23

आवस्थिकं क्रमं चापि बुद्ध्वा कार्यं निरूहणम्। मलेऽपकृष्टे दोषाणां बलवत्त्वं न विद्यते॥

4.38.24

क्षीराण्यम्लानि मूत्राणि स्नेहाः क्वाथा रसास्तथा। लवणानि फलं क्षौद्रं शताह्वा सर्षपं वचा॥

4.38.25

एला त्रिकटुकं रास्ना सरलो देवदारु च। रजनी मधुकं हिङ्गु कुष्ठं संशोधनानि च॥

4.38.26

कटुका शर्करा मुस्तमुशीरं चन्दनं शटी। मञ्जिष्ठा मदनं चण्डा त्रायमाणा रसाञ्जनम्॥

4.38.27

बिल्वमध्यं यवानी च फलिनी शक्रजा यवाः। काकोली क्षीरकाकोली जीवकर्षभकावुभौ॥

4.38.28

तथा मेदा महामेदा ऋद्धिर्वृद्धिर्मधूलिका। निरूहेषु यथालाभमेष वर्गो विधीयते॥

4.38.29

स्वस्थे क्वाथस्य चत्वारो भागाः स्नेहस्य पञ्चमः। कुद्धेऽनिले चतुर्थस्तु षष्ठः पित्ते कफेऽष्टमः॥

4.38.30

सर्वेषु चाष्टमो भागः कल्कानां लवणं पुनः। क्षौद्रं मूत्रं फलं क्षीरमम्लं मांसरसं तथा॥

4.38.31

युक्त्या प्रकल्पयेद्धीमान् निरूह् कल्पना त्वियम्॥

4.38.32

कल्कस्नेहकषायाणामविवेकाद्भिषग्वरैः। बस्तेः सुकल्पना प्रोक्ता तस्य दानं यथार्थकृत्॥

4.38.33

दत्त्वाआदौ सैन्धवस्याक्षं मधुनः प्रसृतद्वयम्। पात्रे तलेन मथ्नीयात्तद्वत् स्नेहं शनैः शनैः॥

4.38.34

सम्यक् सुमथिते दद्यात् फलकल्कमतः परम्। ततो यथोचितान् कल्कान् भागैः स्वैः श्लक्ष्णपेषितान्॥

4.38.35

गम्भीरे भाजनेऽन्यस्मिन्मश्नीयात्तं खजेन च। यथा वा साधु मन्येत न सान्द्रो न तनुः समः॥

4.38.36

रसक्षीराम्लमूत्राणां दोषावस्थामवेक्ष्य तु। कषायप्रसृतान् पञ्च सुपूतांस्तत्र दापयेत्॥

4.38.37

अत ऊर्ध्वं द्वादशप्रसृतान् वक्ष्यामः। दत्त्वाआदौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम्। विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रसृतित्रयम्॥

4.38.38

एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत्। संमूर्च्छिते कषायं तु चतुःप्रसृतिसंमितम्॥

4.38.39

वितरेच्च तदावापमन्ते द्विप्रसृतोन्मितम्। एवं प्रकल्पितो बस्तिर्द्वादशप्रसृतो भवेत्॥

4.38.40

ज्येष्ठायाः खलु मात्रायाः प्रमाणमिदमीरितम्। अपह्रासे भिषक्कुर्यात्तद्वत् प्रसृतिहापनम्॥

4.38.41

यथावयो निरूहाणां कल्पनेयमुदाहृता। सैन्धवादिद्रवान्तानां सिद्धिकामैर्भिषग्वरैः॥

4.38.42

अत ऊर्ध्वं प्रवक्ष्यन्ते बस्तयोऽत्र विभागशः। यथादोषं प्रयुक्ता ये हन्युर्नानाविधान् गदान्॥

4.38.43

शम्पाकोरुबुवर्षाभूवाजिगन्धानिशाच्छदैः। पञ्चमूलीबलारास्नागुडूचीसुरदारुभिः॥

4.38.44

क्वथितैः पालिकैरेभिर्मदनाष्टकसंयुतैः। कल्कैर्मागधिकाम्भोदहपुषामिसिसैन्धवैः॥

4.38.45

वत्साह्वयप्रियङ्गूग्रायष्ट्याह्वयरसाञ्जनैः। दद्यादास्थापनं कोष्णं क्षौद्राद्यैरभिसंस्कृतम्॥

4.38.46

पृष्ठोरुत्रिकशूलाश्मविण्मूत्रानिलसङ्गिनाम्। ग्रहणीमारुतार्शोघ्नं रक्तमांसबलप्रदम्॥

4.38.47

गुडूचीत्रिफलारास्नादशमूलबलापलैः। क्वथितैः श्लक्ष्णपिष्टस्तु प्रियङ्गुघनसैन्धवैः॥

4.38.48

शतपुष्पावचाकृष्णायवानीकुष्ठबिल्वजैः। सगुडैरक्षमात्रैस्तु मदनार्धपलान्वितैः॥

4.38.49

क्षौद्रतैलघृतक्षीरशुक्तकाञ्जिकमस्तुभिः। समालोड्य च मूत्रेण दद्यादास्थापनं परम्॥

4.38.50

तेजोवर्णबलोत्साहवीर्याग्निप्राणवर्धनम्। सर्वमारुतरोगघ्नं वयःस्थापनमुत्तमम्॥

4.38.51

कुशादिपञ्चमूलाब्दत्रिफलोत्पलवासकैः। सारिवोशीरमञ्जिष्ठारास्नारेणुपरूषकैः॥

4.38.52

पालिकैः क्वथितैः सम्यग् द्रव्यैरेभिश्च पेषितैः। शृङ्गाटकात्मगुप्तेभकेसरागुरुचन्दनैः॥

4.38.53

विदारीमिसिमञ्जिष्ठाश्यामेन्द्रयवसिन्धुजैः। फलपद्मकयष्ट्याह्वैः क्षौद्रक्षीरघृताप्लुतैः॥

4.38.54

दत्तमास्थापनं शीतमम्लहीनैस्तथा द्रवैः। दाहासृग्दरपित्तासृक्पित्तगुल्मज्वराञ्जयेत्॥

4.38.55

रोध्रचन्दनमञ्जिष्ठारास्नानन्ताबलर्धिभिः। सारिवावृषकाश्मर्यमेदामधुकपद्मकैः॥

4.38.56

स्थिरादितृणमूलैश्च क्वाथः कर्षत्रयोन्मितैः। पिष्टैर्जीवककाकोलीयुगर्धिमधुकोत्पलैः॥

4.38.57

प्रपौण्डरीकजीवन्तीमेदारेणुपरूषकैः। अभीरुमिसिसिन्धूत्थवत्सकोशीरपद्मकैः॥

4.38.58

कसेरुशर्करायुक्तैः सर्पिर्मधुपयःप्लुतैः। द्रवैस्तीक्ष्णाम्लवर्ज्यैश्च दत्तो बस्तिः सुशीतलः॥

4.38.59

गुल्मासृग्दरहृत्पाण्डुरोगान् सविषमज्वरान्। असृक्पित्तातिसारौ च हन्यात्पित्तकृतान् गदान्॥

4.38.60

भद्रानिम्बकुलत्थार्ककोशातक्यमृतामरैः। सारिवाबृहतीपाठामूर्वारग्वधवत्सकैः॥

4.38.61

क्वाथः कल्कस्तु कर्तव्यो वचामदनसर्षपैः। सैन्धवामरकुष्ठैलापिप्पलीबिल्वनागरैः॥

4.38.62

कटुतैलमधुक्षारमूत्रतैलाम्लसंयुतैः। कार्यमास्थापनं तूर्णं कामलापाण्डुमेहिनाम्॥

4.38.63

मेदस्विनामनग्नीनां कफरोगाशनद्विषाम्। गलगण्डगरग्लानिश्लीपदोदररोगिणाम्॥

4.38.64

दशमूलीनिशाबिल्वपटोलत्रिफलामरैः। क्वथितैः कल्कपिष्टैस्तु मुस्तसैन्धवदारुभिः॥

4.38.65

पाठामागधिकेन्द्राह्वैस्तैलक्षारमधुप्लुतैः। कुर्यादास्थापनं सम्यङ्मूत्राम्लफलयोजितैः॥

4.38.66

कफपाण्डुगदालस्यमूत्रमारुतसंगिनाम्। आमाटोपापचीश्लेष्मगुल्मक्रिमिविकारिणाम्॥

4.38.67

वृषाश्मभेदवर्षाभूधान्यगन्धर्वहस्तकैः। दशमूलबलामूर्वायवकोलनिशाच्छदैः॥

4.38.68

कुलत्थबिल्वभूनिम्बैः क्वाथितैः पलसंमितैः। कल्कैर्मदनयष्ट्याह्वषड्ग्रन्थामरसर्षपैः॥

4.38.69

पिप्पलीमूलसिन्धूत्थयवानीमिसिवत्सकैः। क्षौद्रेक्षुक्षीरगोमूत्रसर्पिस्तैलरसाप्लुतैः॥

4.38.70

तूर्णमास्थापनं कार्यं संसृष्टबहुरोगिणाम्। गृध्रसीशर्कराष्ठीलातूनीगुल्मगदापहम्॥

4.38.71

रास्नारग्वधवर्षाभूकटुकोशीरवारिदैः। त्रायमाणामृतारक्तापञ्चमूलीबिभीतकैः॥

4.38.72

सबलैः पालिकैः क्वाथः कल्कस्तु मदनान्वितैः। यष्ट्याह्वमिसिसिन्धूत्थफलिनीन्द्रयवाह्वयैः॥

4.38.73

रसाञ्जनरसक्षौद्रद्राक्षासौवीरसंयुतैः। युक्तो बस्तिः सुखोष्णोऽयं मांसशुक्रबलौजसाम्॥

4.38.74

आयुषोऽग्नेश्च संस्कर्ता हन्ति चाशु गदानिमान्। गुल्मासृग्दरवीसर्पमूत्रकृच्छ्रक्षतक्षयान्॥

4.38.75

विषमज्वरमर्शासि ग्रहणीं वातकुण्डलीम्। जानुजङ्घाशिरोबस्तिग्रहोदावर्तमारुतान्॥

4.38.76

वातासृक्शर्कराष्ठीलाकुक्षिशूलोदरारुचीः। रक्तपित्तकफोन्मादप्रमेहाध्मानहृद्ग्रहान्॥

4.38.77

वातघ्नौषधनिष्क्वाथाः सैन्धवत्रिवृतायुताः। साम्लाः सुखोष्णा योज्याः स्युर्बस्तयः कुपितेऽनिले॥

4.38.78

न्यग्रोधादिगणक्वाथाः काकोल्यादिसमायुताः। विधेया बस्तयः पित्ते ससर्पिष्काः सशर्कराः॥

4.38.79

आरग्वधादिनिष्क्वाथाः पिप्पल्यादिसमायुताः। सक्षौद्रमूत्रा देयाः स्युर्बस्तयः कुपिते कफे॥

4.38.80

शर्करेक्षुरसक्षीरघृतयुक्ताः सुशीतलाः। क्षीरवृक्षकषायाढ्या बस्तयः शोणिते हिताः॥

4.38.81

शोधनद्रव्यनिष्क्वाथास्तत्कल्कस्नेहसैन्धवैः। युक्ताः खजेन मथितबस्तयः शोधनाः स्मृताः॥

4.38.82

त्रिफलाक्वाथगोमूत्रक्षौद्रक्षारसमायुताः। ऊषकादिप्रतीवापा बस्तयो लेखनाः स्मृताः॥

4.38.83

बृंहणद्रव्यनिष्क्वाथाः कल्कैर्मधुरकैर्युताः। सर्पिर्मांसरसोपेता बस्तयो बृंहणाः स्मृताः॥

4.38.84

चटकाण्डोच्चटाक्वाथाः सक्षीरघृतशर्कराः। आत्मगुप्ताफलावापाः स्मृता वाजीकरा नृणाम्॥

4.38.85

बदर्यैरावतीशेलुशाल्मलीधन्वनाङ्कुराः। क्षीरसिद्धाः क्षौद्रयुताः सास्राः पिच्छिलसंज्ञिताः॥

4.38.86

वाराहमाहिषौरभ्रबैडालैणेयकौक्कुटम्। सद्यस्कमसृगाजं वा देयं पिच्छिलबस्तिषु॥

4.38.87

प्रियङ्ग्वादिगणक्वाथा अम्बष्ठाद्येन संयुताः। सक्षौद्राः सघृताश्चैव ग्राहिणो बस्तयः स्मृताः॥

4.38.88

एतेष्वेव च योगेषु स्नेहाः सिद्धाः पृथक् पृथक्। समस्तेष्वथवा सम्यग्विधेयाः स्नेहबस्तयः॥

4.38.89

वन्ध्यानां शतपाकेन शोधितानां यथाक्रमम्। बलातैलेन देयाः स्युर्बस्तयस्त्रैवृतेन च॥

4.38.90

नरस्योत्तमसत्त्वस्य तीक्ष्णं बस्तिं निधापयेत्। मध्यमं मध्यसत्त्वस्य विपरीतस्य वै मृदुम्॥

4.38.91

एवं कालं बलं दोषं विकारं च विकारवित्। बस्तिद्रव्यबलं चैव वीक्ष्य बस्तीन् प्रयोजयेत्॥

4.38.92

दद्यादुत्क्लेशनं पूर्वं मध्ये दोषहरं पुनः। पश्चात् संशमनीयं च दद्याद्बस्तिं विचक्षणः॥

4.38.93

एरण्डबीजं मधुकं पिप्पली सैन्धवं वचा। हपुषाफलकल्कश्च बस्तिरुत्क्लेशनः स्मृतः॥

4.38.94

शताह्वा मधुकं बीजं कौटजं फलमेव च। सकाञ्जिकः सगोमूत्रो बस्तिर्दोषहरः स्मृतः॥

4.38.95

प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम्। सक्षीरः शस्यते बस्तिर्दोषाणां शमनः परः॥

4.38.96

नृपाणां तत्समानानां तथा सुमहतामपि। नारीणां सुकुमाराणां शिशुस्थविरयोरपि॥

4.38.97

दोषनिर्हरणार्थाय बलवर्णोदयाय च। समासेनोपदेक्ष्यामि विधानं माधुतैलिकम्॥

4.38.98

यानस्त्रीभोज्यपानेषु नियमश्चात्र नोच्यते। फलं च विपुलं दृष्टं व्यापदां चाप्यसंभवः॥

4.38.99

योज्यस्त्वतः सुखेनैव निरूहक्रममिच्छता। यदेच्छति तदैवैष प्रयोक्तव्यो विपश्चिता॥

4.38.100

मधुतैले समे स्यातां क्वाथश्चैरण्डमूलजः। पलार्धं शतपुष्पायास्ततोऽर्धं सैन्धवस्य च॥

4.38.101

फलेनैकेन संयुक्तः खजेन च विलोडितः। देयः सुखोष्णो भिषजा माधुतैलिकसंज्ञितः॥

4.38.102

वचामधुकतैलं च क्वाथः सरससैन्धवः। पिप्पलीफलसंयुक्तो बस्तिर्युक्तरथः स्मृतः॥

4.38.103

सुरदारु वरा रास्ना शतपुष्पा वचा मधु। हिङ्गुसैन्धवसंयुक्तो बस्तिर्दोषहरः स्मृतः॥

4.38.104

पञ्चमूलीकषायं च तैलं मागधिका मधु। बस्तिरेष विधातव्यः सशताह्वः ससैन्धवः॥

4.38.105

यवकोलकुलत्थानां क्वाथो मागधिका मधु। ससैन्धवः सयष्ट्याह्वः सिद्धबस्तिरिति स्मृतः॥

4.38.106

मुस्तापाठामृतातिक्ताबलारास्नापुनर्नवाः। मञ्जिष्ठारग्वधोशीरत्रायमाणाख्यगोक्षुरान्॥

4.38.107

पालिकान् पञ्चमूलाल्पसहितान्मदनाष्टकम्। जलाढके पचेत् क्वाथं पादशेषं पुनः पचेत्॥

4.38.108

क्षीरार्धाढकसंयुक्तमाक्षीरात् सुपरिस्रुतम्। अपदेन जाङ्गलरसस्ततहा मधुघृतं समम्॥

4.38.109

शताह्वाफलिनीयष्टीवत्सकैः सरसाञ्जनैः। कार्षिकैः सैन्धवोन्मिश्रैः कल्कैर्बस्तिः प्रयोजितः॥

4.38.110

वातासृङ्मेहशोफार्शोगुल्ममूत्रविबन्धनुत्। विसर्पज्वरविड्भङ्गरक्तपित्तविनाशनः॥

4.38.111

बल्यः संजीवनो वृष्यश्चक्षुष्यः शूलनाशनः। यापनानामयं राजा बस्तिर्मुस्तादिको मतः॥

4.38.112

अवेक्ष्य भेषजं बुद्ध्या विकारं च विकारवित्। बीजेनानेन शास्त्रज्ञः कुर्याद्बस्तिशतान्यपि॥

4.38.113

अजीर्णे न प्रयुञ्जीत दिवास्वप्नं च वर्जयेत्। आहाराचारिकं शेषमन्यत् कामं समाचरेत्॥

4.38.114

यस्मान्मधु च तैलं च प्राधान्येन प्रदीयते। माधुतैलिक इत्येवं भिषग्भिर्बस्तिरुच्यते॥

4.38.115

रथेष्वपि च युक्तेषु हस्त्यश्वे चापि कल्पिते। यस्मान्न प्रतिषिद्धोऽयमतो युक्तरथः स्मृतः॥

4.38.116

बलोपचयवर्णानां यस्माद् व्याधिशतस्य च। भवत्येतेन सिद्धिस्तु सिद्धबस्तिरतो मतः॥

4.38.117

सुखिनामल्पदोषाणां नित्यं स्निग्धाश्च ये नराः। मृदुकोष्ठाश्च ये तेषां विधेया माधुतैलिकाः॥

4.38.118

मृदुत्वात् पादहीनत्वादकृत्स्नविधिसेवनात्। एकबस्तिप्रदानाच्च सिद्धबस्तिष्वयन्त्रणा॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc