भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 4.37

4.37.1

अथातोऽनुवासनोत्तरबस्तिचिकित्सितं व्याख्यास्यामः॥

4.37.2

यथोवाच भगवान् धन्वन्तरिः॥

4.37.3

विरेचनात् सप्तरात्रे गते जातबलाय वै। कृतान्नायानुवास्याय सम्यग्देयोऽनुवासनः॥

4.37.4

यथावयो निरूहाणां या मात्राः परिकीर्तिताः। पादावकृष्टास्ताः कार्याः स्नेहबस्तिषु देहिनाम्॥

4.37.5

उत्सृष्टानिलविण्मूत्रे नरे बस्तिं विधापयेत्। एतैर्हि विहतः स्नेहो नैवान्तः प्रतिपद्यते॥

4.37.6

स्नेहवस्तिर्विधेयस्तु नाविशुद्धस्य देहिनः। स्नेहवीर्यं तथा दत्ते देहं चानुविसर्पति॥

4.37.7

अत ऊर्ध्वं प्रवक्ष्यामि तैलानीह यथाक्रमम्। पानान्वासननस्येषु यानि हन्युर्गदान् बहून्॥

4.37.8

शटीपुष्करकृप्णाह्वामदनामरदारुभिः। शताह्वाकुष्ठयष्ट्याह्ववचाबिल्वहुताशनैः॥

4.37.9

सुपिष्टैर्द्विगुणक्षीरं तैलं तोयचतुर्गुणम्। पक्त्वा बस्तौ विधातव्यं मूढवातानुलोमनम्॥

4.37.10

अर्शांसि ग्रहणीदोषमानाहं विषमज्वरम्। कठ्यूरुपृष्ठकोष्ठस्थान् वातरोगांश्च नाशयेत्॥

4.37.11

वचापुष्करकुष्ठैलामदनामरसिन्धुजैः। काकोलीद्वययष्ट्याह्वमेदायुग्मनराधिपैः॥

4.37.12

पाठाजीवकजीवन्तीभार्गीचन्दनकटोफलैः। सरलागुरुबिल्वाम्बुवाजिगन्धाग्निवृद्धिभिः॥

4.37.13

विडङ्गारग्वधश्यामात्रिवृन्मागधिकर्धिभिः। पिष्टैस्तैलं पचेत् क्षीरपञ्चमूलरसान्वितम्॥

4.37.14

गुल्मानाहाग्निषङ्गार्शोग्रहणीमूत्रसङ्गिनाम्। अन्वासस्नविधौ युक्तं शस्यतेऽनिलरोगिणाम्॥

4.37.15

चित्रकातिविषापाठादन्तीबिल्ववचामिपैः। सरलांशुमतीरास्नानीलिनीचतुरङ्गुलैः॥

4.37.16

चव्याजमोदकाकोलीमेदायुग्मसुरद्रुमैः। जीवकर्षभवर्षाभूवस्तगन्धाशताह्वयैः॥

4.37.17

रेण्वश्वगन्धामञ्जिष्ठाशटीपुष्करतस्करैः। सक्षीरं विपचेत्तैलं मारुतामयनाशनम्॥

4.37.18

गृध्रसीखञ्जकुब्जाठ्यमूत्रोदावर्तरोगिणाम्। शस्यतेऽल्पबलाग्नीनां बस्तावाशु नियोजितम्॥

4.37.19

भूतिकैरण्डवर्षाभूरास्नावृषकरोहिषैः। दशमूलसहाभार्गीषड्ग्रन्थामरदारुभिः॥

4.37.20

बलानागबलामूर्वावाजिगन्धामृताद्वयैः। सहाचरवरीविश्वाकाकनासाविदारिभिः॥

4.37.21

यवमाषातसीकोलकुलत्थैः क्वथितैः शृतम्। जीवनीयप्रतीवापं तैलं क्षीरचतुर्गुणम्।

4.37.22

जङ्घोरुत्रिकपार्श्वांसबाहुमन्याशिरःस्थितान्। हन्याद्वातविकारांस्तु बस्तियोगैर्निषेवितम्॥

4.37.23

जीवन्त्यतिबलामेदाकाकोलीद्वयजीवकैः। ऋषभातिविषाकृष्णाकाकनासावचामरैः॥

4.37.24

रास्नामदनयष्ट्याह्वसरलाभीरुचन्दनैः। स्वयङ्गुप्ताशटीशृङ्गीकलसीसारिवाद्वयैः॥

4.37.25

पिष्टैस्तैलघृतं पक्वं क्षीरेणाष्टगुणेन तु। तच्चानुवासने देयं शुक्राग्निबलवर्धनम्॥

4.37.26

बृंहणं वातपित्तघ्नं गुल्मानाहहरं परम्। नस्ये पाने च संयुक्तमूर्ध्वजत्रुगदापहम्॥

4.37.27

मधुकोशीरकाश्मर्यकटुकोत्पलचन्दनैः। श्यामापद्मकजीमूतशक्राह्वातिविषाम्बुभिः॥

4.37.28

तैलपादं पचेत् सर्पिः पयसाष्टगुणेन च। न्यग्रोधादिगणक्वाथयुक्तं बस्तिषु योजितम्॥

4.37.29

दाहासृग्दरवीसर्पवातशोणितविद्रधीन्। पित्तरक्तज्वराद्यांश्च हन्यात् पित्तकृतान् गदान्॥

4.37.30

मृणालोत्पलशालूकसारिवाद्वयकेशरैः। चन्दनद्वयभूनिम्बपद्मबीजकसेरुकैः॥

4.37.31

पटोलकटुकारक्तागुन्द्रापर्पटवासकैः। पिष्टैस्तैलघृतं पक्वं तृणमूलरसेन च॥

4.37.32

क्षीरद्विगुणस्ंयुक्तं बस्तिकर्मणि योजितम्। नस्येऽभ्यञ्जनपाने वा हन्यात् पित्तगदान् बहून्॥

4.37.33

त्रिफलातिविषामूर्वात्रिवृच्चित्रकवासकैः। निम्बारग्वधषट्ग्रन्थासप्तपर्णनिशाद्वयैः॥

4.37.34

गुडूचीन्द्रसुराकृष्णाकुष्ठसर्षपनागरैः। तैलमेभिः समैः पक्वं सुरसादिरसाप्लुतम्॥

4.37.35

पानाभ्यञ्जनगण्डूषनस्यबस्तिषु योजितम्। स्थूलतालस्यकण्ड्वादीन् जयेत्कफकृतान् गदान्॥

4.37.36

पाठाजमोदाशार्ङ्गेष्टापिप्पलीद्वयनागरैः। सरलागुरुकालीयभार्गीचव्यामरद्रुमैः॥

4.37.37

मरिचैलाभयाकट्वीशटीग्रन्थिककट्फलैः। तैलमेरण्डतैलं वा पक्वमेभिः समायुतम्॥

4.37.38

वल्लीकण्टकमूलाभ्यां क्वाथेन द्विगुणेन च। हन्यादन्वासनैर्दत्तं सर्वान् कफकृतान् गदान्॥

4.37.39

विडङ्गोदीच्यसिन्धूत्थशटीपुष्करचित्रकैः। कट्फलातिविषाभार्गीवचाकुष्ठसुराह्वयैः॥

4.37.40

मेदामदनयष्ट्याह्वश्यामानिचुलनागरैः। शताह्वानीलिनीरास्नाकलसीवृषरेणुभिः॥

4.37.41

बिल्वाजमोदकृष्णाह्वादन्तीचव्यनराधिपैः। तैलमेरण्डतैलं वा मुष्ककादिरसाप्लुतम्॥

4.37.42

प्लीहोदावर्तवातासृग्गुल्मानाहकफामयान्। प्रमेहशर्करार्शांसि हन्यादाश्वनुवासनैः॥

4.37.43

अशुद्धमपि वातेन केवलेनातिपीडितम्। अहोरात्रस्य कालेषु सर्वेष्वेवानुवासयेत्॥

4.37.44

रूक्षस्य बहूवातस्य द्वौ त्रीनप्यनुवासनान्। दत्त्वा स्निग्धतनुं ज्ञात्वा ततः पश्चान्निरूहयेत्॥

4.37.45

अस्निग्धमपि वातेन केवलेनातिपीडितम्। स्नेहप्रगाढैर्मतिमान्निरूहैः समुपाचरेत्॥

4.37.46

अथ सम्यङ्गिरूढं तु वातादिष्वनुवासयेत्। बिल्वयष्ट्याह्वमदनफलतैलैर्यथाक्रमम्॥

4.37.47

रात्रौ बस्तिं न दद्यात्तु दोषोत्क्लेशो हि रात्रिजः। स्नेहवीर्ययुतः कुर्यादाध्मानं गौरवं ज्वरम्॥

4.37.48

अह्नि स्थानस्थिते दोषे वह्नौ चान्नरसान्विते। स्फुटस्रोतोमुखे देहे स्नेहौजः परिसर्पति॥

4.37.49

पित्तेऽधिके कफे क्षीणे रूक्षे वातरुगर्दिते। नरे रात्रौ तु दातव्यं काले चोष्णेऽनुवासनम्॥

4.37.50

उष्णे पित्ताधिके वापि दिवा दाहादयो गदाः। संभवन्ति यतस्तस्मात् प्रदोषे योजयेद्भिषक्॥

4.37.51

शीते वसन्ते च दिवा ग्रीष्मप्रावृङ्घनात्यये। स्नेह्यो दिनान्ते पानोक्तान् दोषान् परिजिहीर्षता॥

4.37.52

अहोरात्रस्य कालेषु सर्वेष्वेवानिलाधिकम्। तीव्रायां रुजि जीर्णान्नं भोजयित्वानुवासयेत्॥

4.37.53

न चाभुक्तवतः स्नेहः प्रणिधेयः कथञ्चन। शुद्धत्वाच्छून्यकोष्ठस्य स्नेह ऊर्ध्वं समुत्पतेत्॥

4.37.54

सदानुवासयेच्चापि भोजयित्वाआर्द्रपाणिनम्। ज्वरं विदग्धभुक्तस्य कुर्यात् स्नेहः प्रयोजितः॥

4.37.55

न चातिस्निग्धमशनं भोजयित्वानुवासयेत्। मदं मूर्च्छां च जनयेद् द्विधा स्नेहः प्रयोजितः॥

4.37.56

रूक्षं भुक्तवतो ह्यन्नं बलं वर्णं च हापयेत्। युक्तस्नेहमतो जन्तुं भोजयित्वानुवासयेत्॥

4.37.57

यूषक्षीररसैस्तस्माद्यथाव्याधि समीक्ष्य वा। यथोचितात् पादहीनं भोजयित्वानुवासयेत्॥

4.37.58

अथानुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः। भोजयित्वा यथाशास्त्रं कृतचङ्क्रम्णं ततः॥

4.37.59

विसृज्य च शकृन्मूत्रं योजयेत् स्नेहबस्तिना। प्रणिधानविधानं तु निरूहे संप्रवक्ष्यते॥

4.37.60

ततः प्रणिहितस्नेह उत्तानो वाक्शतं भवेत्। प्रसारितैः सर्वगात्रैस्तथा वीर्यं विसर्पति॥

4.37.61

ताडयेत्तलयोरेनं त्रींस्त्रीन् वाराञ्छनैः शनैः। स्फिचोश्चैनं ततः शय्यां त्रीन् वारानुत्क्षिपेत्ततः॥

4.37.62

एवं प्रणिहिते बस्तौ मन्दायासोऽथ मन्दवाक्। स्वास्तीर्णे शयने काममासीताचारिके रतः॥

4.37.63

स तु सैन्धवचूर्णेन शताह्वेन च योजितः। देयः सुखोष्णश्च तथा निरेति सहसा सुखम्॥

4.37.64

यस्यानुवासनो दत्तः सकृदन्वक्षमाव्रजेत्। अत्यौष्ण्यादतितैक्ष्ण्याद्वा वायुना वा प्रपीडितः॥

4.37.65

सवातोऽधिकमात्रो वा गुरुत्वाद्वा सभेषजः। तस्यान्योऽल्पतरो देयो न हि स्निह्यत्यतिष्ठति॥

4.37.66

विष्टब्धानिलविण्मूत्रः स्नेहहीनेऽनुवासने। दाहक्लमप्रवाहार्तिकरश्चात्यनुवासनः॥

4.37.67

सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु। ओषचोषौ विना शीघ्रं स सम्यगनुवासितः॥

4.37.68

जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः। लघ्वन्नं भोजयेत् कामं दीप्ताग्निस्तु नरो यदि॥

4.37.69

प्रातरुष्णोदकं देयं धान्यनागरसाधितम्। तेनास्य दीप्यते वह्निर्भक्ताकाङ्क्षा च जायते॥

4.37.70

स्नेहबस्तिक्रमेष्वेवं विधिमाहुर्मनीषिणः। अनेन विधिना षड् वा सप्त वाष्टौ नवैव वा॥

4.37.71

विधेया बस्तयस्तेषामन्तरा तु निरूहणम्। दत्तस्तु प्रथमो बस्तिः स्नेहयेद्बस्तिवङ्क्षणौ॥

4.37.72

सम्यग्दत्तो द्वितीयस्तु मूर्धस्थमनिलं जयेत्। जनयेद्बलवर्णौ च तृतीयस्तु प्रयोजितः॥

4.37.73

रसं चतुर्थो रक्तं तु पञ्चमः स्नेहयेत्तथा। षष्ठस्तु स्नेहयेन्मांसं मेदः सप्तम एव च॥

4.37.74

अष्टमो नवमश्चास्थि मज्जानं च यथाक्रमम्। एवं शुक्रगतान् दोषान् द्विगुणः साधु साधयेत्॥

4.37.75

अष्टादशाष्टादशकान् बस्तीनां यो निषेवते। यथोकेन विधानेन परिहारक्रमेण च॥

4.37.76

स कुञ्जरबलोऽश्वस्य जवैस्तुल्योऽमरप्रभः। वीतपाप्मा श्रुतधरः सहस्रायुर्नरो भवेत्॥

4.37.77

स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत्। स्नेहादग्निवधोत्क्लेशौ निरूहात् पवनाद्भयम्॥

4.37.78

तस्मान्निरूढोऽनुवास्यो निरूह्यश्चानुवासितः। नैवं पित्तकफोत्क्लेशौ स्यातां न पवनाद्भयम्॥

4.37.79

रूक्षाय बहुवाताय स्नेहवस्तिं दिने दिने। दद्याद्वैद्यस्ततोऽन्येषामग्न्याबाधभयात्त्र्यहात्॥

4.37.80

स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः। तथा निरूहः स्निग्धानामल्पमात्रः प्रशस्यते॥

4.37.81

अत ऊर्ध्वं प्रवक्ष्यामि व्यापदः स्नेहबस्तिजाः। बलवन्तो यदा दोषाः कोष्ठे स्युरनिलादयः॥

4.37.82

अल्पवीर्यं तदा स्नेहमभिभूय पृथग्विधान्। कुर्वन्त्युपद्रवान् स्नेहः स चापि न निवर्तते॥

4.37.83

तत्र वाताभिभूते तु स्नेहे मुखकषायता। जृम्भा वातरुजस्तास्ता वेपथुर्विषमज्वरः॥

4.37.84

पित्ताभिभूते स्नेहे तु मुखस्य कटुता भवेत्। दाहस्तृष्णा ज्वरः स्वेदो नेत्रमूत्राङ्गपीतता॥

4.37.85

श्लेष्माभिभूते स्नेहे तु प्रसेको मधुरास्यता। गौरवं छर्दिरुच्छ्वासः कृच्छ्राच्छीतज्वरोऽरुचिः॥

4.37.86

तत्र दोषाभिभूते तु स्नेहे बस्तिं निधापयेत्। यथास्वं दोषशमनान्युपयोज्यानि यानि च॥

4.37.87

अत्याशितेऽन्नाभिभवात् स्नेहो नैति यदा तदा। गुरुरामाशयः शूलं वायोश्चाप्रतिसंचरः॥

4.37.88

हृत्पीडा मुखवैरस्य्ंअ श्वासो मूर्च्छा भ्रमोऽरुचिः। तत्रापतर्पणस्यान्ते दीपनो विधिरिष्यते॥

4.37.89

अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः। तदाङ्गसदनाध्माने श्वासः शूलं च जायते॥

4.37.90

पक्वाशयगुरुत्वं च तत्र दद्यान्निरूहणम्। तीक्ष्णं तीक्ष्णौषधैरेव सिद्धं चाप्यनुवासनम्॥

4.37.91

शुद्धस्य दूरानुसृते स्नेहे स्नेहस्य दर्शनम्। गात्रेषु सर्वेन्द्रियाणामुपलेपोऽवसादनम्॥

4.37.92

स्नेहगन्धि मुखं चापि कासश्वासावरोचकः। अतिपीडितवत्तत्र सिद्धिरास्थापनं तथा॥

4.37.93

अस्विन्नस्याविशुद्धस्य स्नेहोऽल्पः संप्रयोजितः। शीतो मृदुश्च नाभ्येति ततो मन्दं प्रवाहते॥

4.37.94

विबन्धगौरवाध्मानशूलाः पक्वाशयं प्रति। तत्रास्थापनमेवाशु प्रयोज्यं सानुवासनम्॥

4.37.95

अल्पं भुक्तवतोऽल्पो हि स्नेहो मन्दगुणस्तथा। दत्तो नैति क्लमोत्क्लेशौ भृशं चारतिमावहेत्॥

4.37.96

तत्राप्यास्थापनं कार्यं शोधनीयेन बस्तिना। (अन्वासनं च स्नेहेन शोधनीयेन शस्यते)॥

4.37.97

अहोरात्रादपि स्नेहः प्रत्यागच्छन्न दुष्यति। कुर्याद्बस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत्॥

4.37.98

यस्य नोपद्रवं कुर्यात् स्नेहबस्तिरनिःसृतः। सर्वोऽल्पो वाआवृतो रौक्ष्यादुपेक्ष्यः स विजानता॥

4.37.99

अनायान्तं त्वहोरात्रात् स्नेहं संशोधनैर्हरेत्। स्नेहबस्तावनायाते नान्यः स्नेहो विधीयते॥

4.37.100

इत्युक्ता व्यापदः सर्वा सलक्षणचिकित्सिताः। बस्तेरुत्तरसंज्ञस्य विधिं वक्ष्याम्यतः परम्॥

4.37.101

चतुर्दशाङ्गुलं नेत्रमातुराङ्गुलसंमितम्। मालतीपुष्पवृन्ताग्रं छिद्रं सर्षपनिर्गमम्॥

4.37.102

स्नेहप्रमाणं परमं प्रकुञ्चश्चात्र कीर्तितः। पञ्चविंशादधो मात्रां विदध्याद्बुद्धिकल्पितम्॥

4.37.103

निविष्टकर्णिकं मध्ये नारीणां चतुरङ्गुले। मूत्रस्रोतःपरीणाहं मुद्गवाहि दशाङ्गुलम्॥

4.37.104

मेढ्रायामसमं केचिदिच्छन्ति खलु तद्विदः। तासामपत्यमार्गे तु निदध्याच्चतुरङ्गुलम्॥

4.37.105

द्व्यङ्गुलं मूत्रमार्गे तु कन्यानां त्वेकमङ्गुलम्। विधेयं चाङ्गुलं तासां विधिवद्वक्ष्यते यथा॥

4.37.106

स्नेहस्य प्रसृतं चात्र स्वाङ्गुलीमूलसंमितम्। देयं प्रमाणं परममर्वाग् बुद्धिविकल्पितम्॥

4.37.107

औरभ्रः शौकरो वापि बस्तिराजश्च पूजितः। तदलाभे प्रयुञ्जीत गलचर्म तु पक्षिणाम्॥

4.37.108

(तस्यालाभे दृतेः पादो मृदुचर्म ततोऽपि वा)। अथातुरमुपस्निग्धं स्विन्नं प्रशिथिलाशयम्॥

4.37.109

यवागूं सघृतक्षीरां पीतवन्तं यथाबलम्। निषण्णमाजानुसमे पीठे सोपाश्रये समम्॥

4.37.110

स्वभ्यक्तबस्तिमूर्धानं तैलेनोष्णेन मानवम्। ततः समं स्थापयित्वा नालमस्य प्रहर्षितम्॥

4.37.111

पूर्वं शलाकयान्विष्य ततो नेत्रमनन्तरम्। शनैः शनैर्घृताभ्यक्तं विदध्यादङ्गुलानि षट्॥

4.37.112

मेढ्रयामसमं केचिदिच्छन्ति प्रणिधानकम्। ततोऽवपीडयेद्बस्तिं शनैर्नेत्रं च निर्हरेत्॥

4.37.113

ततः प्रत्यागतस्नेहमपराह्णे विचक्षणः। भोजयेत् पयसा मात्रां यूषेणाथ रसेन वा॥

4.37.114

अनेन विधिना दद्याद्बस्तींस्त्रींश्चतुरोऽपि वा। ऊर्ध्वजान्वै स्त्रियै दद्यादुत्तानायै विचक्षणः॥

4.37.115

सम्यक् प्रपीडयेद्योनिं दद्यात् सुमृदुपीडितम्। त्रिकर्णिकेन नेत्रेण दद्याद्योनिमुखं प्रति॥

4.37.116

गर्भाशयविशुद्ध्यर्थं स्नेहेन द्विगुणेन तु। क्वाथप्रमाणं प्रसृतं स्त्रिया द्विप्रसृतं भवेत्॥

4.37.117

कन्येतरस्याः कन्यायास्तद्वद्बस्तिप्रमाणकम्। अप्रत्यागच्छति भिषग् बस्तावुत्तरसंज्ञिते॥

4.37.118

भूयो बस्तिं निदध्यात्तु संयुक्तं शोधनैर्गणैः। गुदे वर्तिं निदध्याद्वा शोधनद्रव्यसंभृताम्॥

4.37.119

प्रवेशयेद्वा मतिमान् बस्तिद्वारमथैषणीम्। पीडयेद्वाप्यधो नाभेर्बलेनोत्तरमुष्टिना॥

4.37.120

आरग्वधस्य पत्रैस्तु निर्गुण्ड्याः स्वरसेन च। कुर्याद्गोमूत्रपिष्टेषु वर्तीर्वापि ससैन्धवाः॥

4.37.121

मुद्गैलासर्षपसमाः प्रविभज्य वयांसि तु। बस्तेरागमनार्थाय ता निदध्याछलाकया॥

4.37.122

आगारधूमबृहतीपिप्पलीफलसैन्धवैः। कृता वा शुक्तगोमूत्रसुरापिष्टैः सनागरैः॥

4.37.123

अनुवासनसिद्धिं च वीक्ष्य कर्म प्रयोजयेत्। शर्करामधुमिश्रेण शीतेन मधुकाम्बुना॥

4.37.124

दह्यमाने तदा बस्तौ दद्याद्बस्तिं विचक्षणः। क्षीरवृक्षकषायेण पयसा शीतलेन च॥

4.37.125

शुक्रं दुष्टं शोणितं चाङ्गनानां पुष्पोद्रेकं तस्य नाणं च कष्टम्। मूत्राघातान्मूत्रदोषान् प्रवृद्धान् योनिव्याधिं संस्थितिं चापरायाः॥

4.37.126

शुक्रोत्सेकं शर्करामश्मरीं च शूलं बस्तौ वङ्क्षणे मेहने च। घोरानन्यान् बस्तिजांश्चापि रोगान् हित्वा मेहानुत्तरो हन्ति बस्तिः॥

4.37.127

सम्यग्दत्तस्य लिङ्गानि व्यापदः क्रम एव च। बस्तेरुत्तरसंज्ञस्य समानं स्नेहबस्तिना॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc