भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 4.39

4.39.1

अथात आतुरोपद्रवचिकित्सितं व्याख्यास्यामः॥

4.39.2

यथोवाच भगवान् धन्वन्तरिः॥

4.39.3

स्नेहपीतस्य वान्तस्य विरिक्तस्य स्रुतासृजः। निरूढस्य च कायाग्निर्मन्दो भवति देहिनः॥

4.39.4

सोऽग्नैरत्यर्थगुरुभिरुपयुक्तैः प्रशाम्यति। अल्पो महद्भिर्बहुभिश्छादितोऽग्निरिवेन्धनैः॥

4.39.5

स चाल्पैर्लघुभिश्चान्नैरुपयुक्तैर्विवर्धते। काष्ठैरणुभिरल्पैश्च सन्धुक्षित इवानलः॥

4.39.6

हृतदोषप्रमाणेन सदाआहारविधिः स्मृतः। त्रीणि चात्र प्रमाणानि प्रस्थोऽर्धाढकमाढकम्॥

4.39.7

तत्रावरं प्रस्थमात्रं द्वे शेषे मध्यमोत्तमे। प्रस्थे परिस्रुते देया यवागूः खल्पतण्डुला॥

4.39.8

द्वे चैवार्धाढके देये तिस्रश्चाप्याढके गते। विलेपीमुचिताद्भक्ताच्चतुर्थांशकृतां ततः॥

4.39.9

दद्यादुक्तेन विधिना क्लिन्नसिक्थामपिच्छिलाम्। अग्निग्धलवणं स्वच्छमुद्गयूषयुतं ततः॥

4.39.10

अंशद्वयप्रमाणेन दद्यात् सुस्विन्नमोदनम्। ततस्तु कृतसंज्ञेन हृद्येनेन्द्रियबोधिना॥

4.39.11

त्रीनंशान् वितरेद्भोक्तुमातुरायौदनं मृदु। ततो यथोचितं भक्तं भोक्तुमस्मै विचक्षणः॥

4.39.12

लावैणहरिणादीनां रसैर्दद्यात् सुसंस्कृतैः। हीनमध्योत्तमेष्वेषु विरेकेषु प्रकीर्तितः॥

4.39.13

एकद्वित्रिगुणः सम्यगाहारस्य क्रमस्त्वयम्। कफपित्ताधिकान्मद्यनित्यान् हीनविशोधितान्॥

4.39.14

पेयाभिष्यन्दयेत्तेषां तर्पणादिक्रमो हितः। वेदनालाभनियमशोकवैचित्त्यहेतुभिः॥

4.39.15

नरानुपोषितांश्चापि विरिक्तवदुपाचरेत्। आढकार्धाढकप्रस्थसंख्या ह्येषा विरेचने॥

4.39.16

श्लेष्मान्तत्वाद्विरेकस्य न तामिच्छति तद्विदः। एको विरेकः श्लेष्मान्तो न द्वितीयोऽस्ति कश्चन॥

4.39.17

बलं यत्त्रिविधं प्रोक्तमतस्तत्र क्रमस्त्रिधा। तत्रानुक्रममेकं तु बलस्थः सकृदाचरेत्॥

4.39.18

द्विराचरेन्मध्यबलस्त्रीन् वारान् दुर्बलस्तथा। केचिदेवं क्रमं प्राहुर्मन्दमध्योत्तमाग्निषु॥

4.39.19

संसर्गेण विवृद्धेऽग्नौ दोषकोपभयाद्भजेत्। प्राक् स्वादुतिक्तौ स्निग्धाम्ललवणान् कटुकं ततः॥

4.39.20

स्वाद्वम्ललवणान् भूयः स्वादुतिक्तावतः परम्। स्निग्धरूक्षान् रसांश्चैव व्यत्यासात् स्वस्थवत्ततः॥

4.39.21

केवलं स्नेहपीतो वा वान्तो यश्चापि केवलम्। स सप्तरात्रं मनुजो भुञ्जीत लघु भोजनम्॥

4.39.22

कृतः सिराव्यधो यस्य कृतं यस्य च शोधनम्। स ना परिहरेन्मासं यावद्वा बलवान् भवेत्॥

4.39.23

त्र्यहं त्र्यहं परिहरेदेकैकं बस्तिमातुरः॥ तृतीये तु परीहारे यथायोगं समाचरेत्॥

4.39.24

तैलपूर्णामृद्भाण्डसधर्माणो व्रणातुराः। स्निग्धशुद्धाक्षिरोगार्ता ज्वरातीसारिणश्च ये॥

4.39.25

क्रुध्यतः कुपितं पित्तं कुर्यात्तांस्तानुपद्रवान्। आयास्यतः शोचतो वा चित्तं विभ्रममृच्छति॥

4.39.26

मैथुनोपगमाद्घोरान् व्याधीनाप्नोति दुर्मतिः। आक्षेपकं पक्षघातमङ्गप्रग्रहमेव च॥

4.39.27

गुह्यप्रदेशे श्वयथुं कासश्वासौ च दारुणौ। रुधिरं शुक्रवच्चापि सरजस्कं प्रवर्तते॥

4.39.28

लभते च दिवास्वप्नात्तांस्तान् व्याधीन् कफात्मकान्। प्लीहोदरं प्रतिश्यायं पाण्डुतां श्वयथुं ज्वरम्॥

4.39.29

मोहं सदनमङ्गानामविपाकं तथारुचिम्। तमसा चाभिभूतस्तु स्वप्नमेवाभिनन्दति॥

4.39.30

उच्चैः संभाषणाद्वायुः शिरस्यापादयेद्रुजम्। आन्ध्यं जाड्यमजिघ्रत्वं बाधिर्यं मूकतां तथा॥

4.39.31

हनुमोक्षमधीमन्थमर्दितं च सुदारुणम्। नेत्रस्तम्भं निमेषं वा तृष्णां कासं प्रजागरम्॥

4.39.32

लभते दन्तचालं च तांस्तांश्चान्यानुपद्रवान्। यानयानेन लभते छर्दिमूर्च्छाभ्रमक्लमान्॥

4.39.33

तथैवाङ्गग्रहं घोरमिन्द्रियाणां च विभ्रमम्। चिरासनात्तथा स्थानाच्छ्रोण्यां भवति वेदना॥

4.39.34

अतिचङ्क्रमणाद्वायुर्जङ्घयोः कुरुते रुजः। सक्थिप्रशोषं शोफं वा पादहर्षमथापि वा॥

4.39.35

शीतसंभोगतोयानां सेवा मारुतवृद्धये। ततोऽङ्गमर्दविष्टम्भशूलाध्मानप्रवेपकाः॥

4.39.36

वातातपाभ्यां वैवर्ण्यं ज्वरं चापि समाप्नुयात्। विरुद्धाध्यशनान्मृत्युं व्याधिं वा घोरमृच्छति॥

4.39.37

असात्म्यभोजनं हन्याद्बलवर्णमसंशयम्। अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः। रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि॥

4.39.38

व्यापदां कारणं वीक्ष्य व्यापत्स्वेतासु बुद्धिमान्। प्रयतेतातुरारोग्ये प्रत्यनीकेन हेतुना॥

4.39.39

विरिक्तवान्तैर्हरिणैणलावकाः शशश्च सेव्यः समयूरतित्तिरिः। सषष्टिकाश्चैव पुराणशालयस्तथैव मुद्गा लघु यच्च कीर्तितम्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc