भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 4.36

4.36.1

अथातो नेत्रबस्तिव्यापच्चिकित्सितं व्याख्यास्यामः॥

4.36.2

यथोवाच भगवान् धन्वन्तरिः॥

4.36.3

अथ नेत्रे विचलिते तथा चैव विवर्तिते। गुदे क्षतं रुजा वा स्यात्तत्र सद्यःक्षतक्रियाः॥

4.36.4

अत्युत्क्षिप्तेऽवसन्ने च नेत्रे पायौ भवेद्रुजा। विधिरत्रापि पित्तघ्नः कार्यः स्नेहैश्च सेचनम्॥

4.36.5

तिर्यक्प्रणिहिते नेत्रे तथा पार्श्वावपीडिते। मुखस्यावरणाद्बस्तिर्न सम्यक् प्रतिपद्यते। ऋजु नेत्रं विधेयं स्यात्तत्र सम्यग्विजानता॥

4.36.6

अतिस्थूले कर्कशे च नेत्रेऽस्त्रिमति घर्षणात्। गुदे भवेत् क्षतं रुक् च साधनं तस्य पूर्ववत्॥

4.36.7

आसन्नकर्णिके नेत्रे भिन्नेऽणौ वाप्यपार्थकः। अवसेको भवेद्बस्तेस्तस्माद्दोषान् विवर्जयेत्॥

4.36.8

प्रकृष्टकर्णिके रक्तं गुदमर्मप्रपीडनात्। क्षरत्यत्रापि पित्तघ्नो विधिर्बस्तिश्च पिच्छिलः॥

4.36.9

ह्रस्वे त्वणुस्रोतसि च क्लेशो बस्तिश्च पूर्ववत्। प्रत्यागच्छंस्ततः कुर्याद्रोगान् बस्तिविघातजान्॥

4.36.10

दीर्घे महास्रोतसि च ज्ञेयमत्यवपीडवत्। प्रस्तीर्णे बहले चापि बस्तौ दुर्बद्धदोषवत्॥

4.36.11

बस्तावल्पेऽल्पता वापि द्रव्यस्याल्पा गुणा मताः। दुर्बद्धे चाणुभिन्ने च विज्ञेयं भिन्ननेत्रवत्॥

4.36.12

अतिप्रपीडितो बस्तिः प्रयात्यामाशयं ततः। वातेरितो नासिकाभ्यां मुखतो वा प्रपद्यते॥

4.36.13

तत्र तूर्णं गलापीडं कुर्याच्चाप्यवधूननम्। शिरःकायविरेकौ च तीक्ष्णौ सेकांश्च शीतलान्॥

4.36.14

शनैः प्रपीडितो बस्तिः पक्वाधानं च गच्छति। न च संपादयत्यर्थं तस्माद्युक्तं प्रपीडयेत्॥

4.36.15

भूयो भूयोऽवपीडेन वायुरन्तः प्रपीड्यते। तेनाध्मानं रुजश्चोग्रा यथास्वं तत्र बस्तयः॥

4.36.16

कालातिक्रमणात् क्लेशो व्याधिश्चाभिप्रवर्धते। तत्र व्याधिबलघ्नं तु भूयो बस्तिं निधापयेत्॥

4.36.17

गोदोपदेहशोफौ तु स्नेहोऽपक्वः करोति हि। तत्र संशोधनो बस्तिर्हितं चापि विरेचनम्॥

4.36.18

हीनमात्रावुभौ बस्ती नातिकार्यकरौ मतौ। अतिमात्रौ तथाआनाहक्लमातीसारकारकौ॥

4.36.19

मूर्च्छां दाहमतीसारं पित्तं चात्युष्णतीक्ष्णकौ। मृदुशीतावुभौ वातविबन्धाध्मानकारकौ॥

4.36.20

तत्र हीनादिषु हितः प्रत्यनीकः क्रियाविधिः। गुदबस्त्युपदेहं तु कुर्यात् सान्द्रो निरूहणः॥

4.36.21

प्रवाहिकां वा जनयेत्तनुरल्पगुणावहः। तत्र सान्द्रे तनुं बस्तिं तनौ सान्द्रं च दापयेत्॥

4.36.22

स्निग्धोऽतिजाड्यकृद्रूक्षः स्तम्भाध्मानकृदुच्यते। बस्तिं रूक्षमतिस्निग्धे स्निग्धं रूक्षे च दापयेत्॥

4.36.23

अतिपीडितवद्दोषान् विद्धि चाप्यवशीर्षके। उच्छीर्षके समुन्नाहं बस्तिः कुर्याच्च मेहनम्॥

4.36.24

तत्रोत्तरो हितो बस्तिः सुस्विन्नस्य सुखावहः। न्युब्जस्य बस्तिर्नाप्नोति पक्वाधानं विमार्गगः॥

4.36.25

हृद्गुदं बाधते चात्र वायुः कोष्ठमथापि च। उत्तानस्यावृते मार्गे बस्तिर्नान्तः प्रपद्यते॥

4.36.26

नेत्रसंवेजनभ्रान्तो वायुश्चान्तः प्रकुप्यति। देहे सङ्कुचिते दत्तः सक्थ्नोरप्युभयोस्तथा॥

4.36.27

न सम्यगनिलाविष्टो बस्तिः प्रत्येति देहिनः। स्थितस्य बस्तिर्दत्तस्तु क्षिप्रमायात्यवाङ्मुखः॥

4.36.28

न चाशयं तर्पयति तस्मान्नार्थकरो हि सः। नाप्नोति बस्तिर्दत्तस्तु कृत्स्नं पक्वाशयं पुनः॥

4.36.29

दक्षिणाश्रितपार्श्वस्य वामपार्श्वानुगो यतः। न्युब्जादीनां प्रदानं च बस्तेर्नैव प्रशस्यते॥

4.36.30

पश्चादनिलकोपोऽत्र यथास्वं तत्र कारयेत्। व्यापदः स्नेहबस्तेस्तु वक्ष्यन्ते तच्चिकित्सिते॥

4.36.31

अयोगाद्यास्तु वक्ष्यामि व्यापदः सचिकित्सिताः। अनुष्णोऽल्पौषधो हीनो बस्तिर्नैति प्रयोजितः॥

4.36.32

विष्टम्भाध्मानशूलैश्च तमयोगं प्रचक्षते। तत्र तीक्ष्णो हितो बस्तिस्तीक्ष्णं चापि विरेचनम्॥

4.36.33

सशेषान्नेऽथवा भुक्ते बहुदोषे च योजितः। अत्याशितस्यातिबहुर्बस्तिर्मन्दोष्ण एव च॥

4.36.34

अनुष्णलवणस्नेहो ह्यतिमात्रोऽथवा पुनः। तथा बहुपुरीषं च क्षिप्रमाध्मापयेन्नरम्॥

4.36.35

हृत्कटीपार्श्वपृष्ठेषु शूलं तत्रातिदारुणम्। तत्र तीक्ष्णतरो बस्तिर्हितं चाप्यनुवासनम्॥

4.36.36

अतितीक्ष्णोतिलवणो रूक्षो बस्तिः प्रयोजितः। सपित्तं कोपयेद्वायुं कुर्याच्च परिकर्तिकाम्॥

4.36.37

नाभिबस्तिगुदं तत्र छिनत्तीवातिदेहिनः। पिच्छाबस्तिर्हितस्तस्य स्नेहश्च मधुरैः शृतः॥

4.36.38

अत्यम्ललवणस्तीक्ष्णः परिस्रावाय कल्पते। दौर्बल्यमङ्गसादश्च जायते तत्र देहिनः॥

4.36.39

परिस्रवेत्ततः पित्तं दाहं सञ्जनयेद्गुदे। पिच्छाबस्तिर्हितस्तत्र बस्तिः क्षीरघृतेन च॥

4.36.40

प्रवाहिका भवेत्तीक्ष्णान्निरूहात् सानुवासनात्। सदाहशूलं कृच्छ्रेण कफासृगुपवेश्यते॥

4.36.41

पिच्छाबस्तिर्हितस्तत्र पयसा चैव भोजनम्। सर्पिर्मधुरकैः सिद्धं तैलं चाप्यनुवासनम्॥

4.36.42

अतितीक्ष्णो निरूहो वा सवाते चानुवासनः। हृदयस्योपसरणं कुरुते वा सवाते चानुवासनः॥

4.36.43

दोषैस्तत्र रुजस्तास्ता मदो मूर्च्छाङ्गगौरवम्। सर्वदोषहरं बस्तिं शोधनं तत्र दापयेत्॥

4.36.44

रूक्सस्य बहुवातस्य तथा दुःशायितस्य च। बस्तिरङ्गग्रहं कुर्याद्रूक्सो मृद्वल्पभेषजः॥

4.36.45

तत्राङ्गसादः प्रस्तम्भो जृम्भोद्वेष्टनवेपकाः। पर्वभेदश्च तत्रेष्टाः स्वेदाभ्यञ्जनबस्तयः॥

4.36.46

अत्युष्णतीक्ष्णोऽतिबहुर्दत्तोऽतिस्वेदितस्य च। अल्पदोषस्य वा बस्तिरतियोगाय कल्पते॥

4.36.47

विरेचनातियोगेन समानं तस्य लक्षणम्। पिच्छाबस्तिप्रयोगश्च तत्र शीतः सुखावहः॥

4.36.48

अतियोगात् परं यत्र जीवादानं विरिक्तवत्। देयस्तत्र हितश्चाप्सु पिच्छाबस्तिः सशोणितः॥

4.36.49

नवैता व्यापदो यास्तु निरूहं प्रत्युदाहृताः। स्नेहबस्तिष्वपि हि ता विज्ञेयाः कुशलैरिह॥

4.36.50

इत्युक्ता व्यापदः सर्वाः सलक्षणचिकित्सिताः। भिषजा च तथा कार्यं यथैता न भवन्ति हि॥

4.36.51

पक्साद्विरेको वान्तस्य ततश्चापि निरूहणम्। सद्यो निरूढोऽनुवास्यः सप्तरात्राद्विरेचितः॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc