सुश्रुतसंहिता · अध्याय 4.35
अथातो नेत्रबस्तिप्रमाणप्रविभागचिकित्सितं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
तत्र स्नेहादीनां कर्मणां बस्तिकर्म प्रधानतममाहुराचार्याः। कस्मात् अनेककर्मकरत्वाद्बस्तेः; इह खलु बस्तिर्नानाविधद्रव्यसंयोगाद्दोषाणां संशोधनसंशमनसंग्रहणानि करोति, क्षीणशुक्रं वाजीकरोति, कृशं बृंहयति, स्थूलं कर्शयति, चक्षुः प्रीणयति, वलीपलितमपहन्ति, वयः स्थापयति॥
शरीरोपचयं वर्णं बलमारोग्यमायुषः। कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः॥
तथा ज्वरातीसारतिमिरप्रतिश्यायशिरोरोगाधिमन्थार्दिताक्षेपकपक्षाघातैकाङ्गसर्वाङ्गरोगाध्मानोदरयोनिशूलशर्कराशूलवृद्ध्युपदंशानाहमूत्रकृच्छ्रगुल्मवातशोणितवातमूत्रपुरीषोदावर्तशुक्रार्तवस्तन्यनाशहृद्धनुमन्याग्रहशर्कराश्मरीमूढगर्भप्रभृतिषु चास्यर्थमुपयुज्यते॥
भवति चात्र बस्तिर्वाते च पित्ते च कफे रक्ते च शस्यते। संसर्गे सन्निपाते च बस्तिरेव हितः सदा॥
तत्र सांवत्सरिकाष्टद्विरष्टवर्षाणां षडष्टदशाङ्गुलप्रमाणानि कनिष्ठिकानामिकामध्यमाङ्गुलिपरिणाहान्यग्रेऽध्यर्धाङ्गुलद्व्यङ्गुलार्धतृतीयाङ्गुलसन्निविष्टकर्णिकानि कङ्कश्येनबर्हिणपक्षनाडीतुल्यप्रवेशानि मुद्गमाषकलायमात्रस्रोतांसि विदध्यान्नेत्राणि। तेषु चास्थापनद्रव्यप्रमाणमातुरहस्तसंमितेन प्रसृतेन संमितौ प्रसृतौ द्वौ चत्वारोऽष्टौ च विधेयाः॥
वर्षान्तरेषु नेत्राणां बस्तिमानस्य चैव हि। वयोबलशरीराणि समीक्ष्योत्कर्षयेद्विधिम्॥
पञ्चविंशतेरूर्ध्वं द्वादशाङ्गुलं, मूलेऽङ्गुष्ठोदरपरीणाहम्, अग्रे कनिष्ठिकोदरपरीणाहम्, अग्रे त्र्यङ्गुलसन्निविष्टकर्णिकं, गृध्रपक्षनाडींतुल्यप्रवेशं, कोलास्थिमात्रछिद्रं, क्लिन्नकलायमात्रछिद्रमित्येके; सर्वाणि मूले बस्तिनिबन्धनार्थं द्विकर्णिकानि। आस्थापनद्रव्यप्रणाणं तु विहितं द्वादशप्रसृताः। सप्ततेस्तूर्ध्वं नेत्रप्रमाणमेतदेव, द्रव्यप्रमाणं तु द्विरष्टवर्षवत्॥
मृदुर्बस्तिः प्रयोक्तव्यो विशेषाद्बालवृद्धयोः। तयोस्तीक्ष्णः प्रयुक्तस्तु बस्तिर्हिंस्याद् बलायुषी॥
(व्रणनेत्रमष्टाङ्गुलं मुद्गवाहिस्रोतः; व्रणमवेक्ष्य यथास्वं स्नेहकषाये विदधीत॥)
तत्र नेत्राणि सुवर्णरजतताम्रायोरीतिदन्तशृङ्गमणितरुसारमयानि श्लक्ष्णानि दृढानि गोपुच्छाकृतीन्यृजूनि गुटिकामुखानि च॥
बस्तयश्च बन्ध्या मृदवो नातिवहला दृढाः प्रमाणवन्तो गोमहिषवराहाजोरभ्राणाम्॥
नेत्रालाभे हिता नाडी नलवंशास्थिसंभवा। बस्त्यलाभे हितं चर्म सूक्ष्मं वा तान्तवं घनम्॥
बस्तिं निरुपदिग्धं तु शुद्धं सुपरिमार्जितम्। मृद्वनुद्धतहीनं च मुहुः स्नेहविमर्दितम्॥
नेत्रामूले प्रतिष्ठाप्य न्युब्जं तु विवृताननम्। बद्ध्वा लोहेन तप्तेन चर्मस्रोतसि निर्दहेत्॥
परिवर्त्य ततो बस्तिं बद्ध्वा गुप्तं निधापयेत्। आस्थापनं च तैलं च यथावत्तेन दापयेत्॥
तत्र द्विविधो बस्तिः नैरूहिकः, स्नैहिकश्च। आस्थापनं, निरूह इत्यनर्थान्तरं; तस्य विकल्पो माधुतैलिकः; तस्य प्रयायशब्दो यापनो, युक्तरथः, सिद्धबस्तिरिति। स दोषनिर्हरणाच्छरीरनीरोहणाद्वा निरूहः, बयःस्थापनादायुःस्थापनाद्वा आस्थापनम्। माधुतैलिकविधानं च निरूहोपक्रमचिकित्सिते वक्ष्यामः। यथाप्रमाणगुणविहितः स्नेहबस्तिविकल्पोऽनुवासनः पादाव(पादाप)कृष्टः। अनुवसन्नपि न दुष्यत्यनुदिवसं वा दीयत इत्यनुवासनः। तस्यापि विकल्पोऽर्धार्धमात्रावकृष्टोऽपरिहार्यो मात्राबस्तिरिति॥
निरूहः शोधनो लेखी स्नैहिको बृंहणो मतः। निरूहशोधितान्मार्गान् सम्यक् स्नेहोऽनुगच्छति। अपेतसर्वदोषासु नाडीष्विव वहज्जलम्॥
सर्वदोषहरश्चासौ शरीरस्य च जीवनः। तस्माद्विशुद्धदेहस्य स्नेहबस्तिर्विधीयते॥
तत्रोन्मादभयशोकपिपासारोचकाजीर्णार्शःपाण्डुरोगभ्रममदमूर्च्छाच्छर्दिकुष्ठमेहोदरस्थौल्यश्वासकासकण्ठशोषशोफोपसृष्टक्षतक्षीणचतुस्त्रिमासगर्भिणीदुर्बलाग्न्यसहा बालवृद्धौ च वातरोगादृते क्षीणा नानुवास्या नास्थापयितव्याः॥
उदरी च प्रमेही च कुष्ठी स्थूलश्च मानवः। अवश्यं स्थापनीयास्ते नानुवास्याः कथञ्चन॥
असाध्यता विकाराणां स्यादेषामनुवासनात्। असाध्यत्वेऽपि भूयिष्ठं गात्राणां सदनं भवेत्॥
पक्वाशये तथा श्रोण्यां नाभ्यधस्ताच्च सर्वतः। सम्यक्प्रणिहितो बस्तिः स्थानेष्वेतेषु तिष्ठति॥
पक्वाशयाद्बस्तिवीर्यं खैर्देहमनुसर्पति। वृक्षमूले निषिक्तानामपां वीर्यमिव द्रुमम्॥
स चापि सहसा बस्तिः केवलः समलोऽपि वा। प्रत्येति वीर्यं त्वनिलैरपानाद्यैर्विनीयते॥
वीर्येण बस्तिरादत्ते दोषानापादमस्तकात्(न्)। पक्वाशयस्थोऽम्बरगो भूमेरर्को रसानिव॥
स कटीपृष्ठकोष्ठस्थान् वीर्येणालोड्य संचयान्। उत्खातमूलान् हरति दोषाणां साधुयोजितः॥
दोषत्रयस्य यस्माच्च प्रकोपे वायुरीश्वरः। तस्मात्तस्यातिवृद्धस्य शरीरमभिनिघ्नतः॥
वायोर्विषहते वेगं नान्या बस्तेरृते क्रिया। पवनाविद्धतोयस्य वेला वेगमिवोदधेः॥
शरीरोपचयं वर्णं बलमारोग्यमायुषः। कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः॥
अत ऊर्ध्वं व्यापदो वक्ष्यामः। तत्र नेत्रं विचलितं, विवर्तितं, पार्श्वावपीडितम्, अत्युत्क्षिप्तम्, अवसन्नं, तिर्यक्प्रक्षिप्तमिति षट् प्रणिधानदोषाः; अतिस्थूलं, कर्कशम्, अवनतं, अणुभिन्नं, सन्निकृष्टविप्रकृष्टकर्णिकं, सूक्ष्मातिच्छिद्रम्, अतिदीर्घम्, अतिह्रस्वम्, अस्रिमदित्येकादश नेत्रदोषाः; बहलता, अल्पता, सच्छिद्रता, प्रस्तीर्णता, दुर्बद्धतेति पञ्च बस्तिदोषाः; अतिपीडितता, शिथिलपीडितता, भूयो भूयोऽवपीडनं, कालातिक्रम इति चत्वारः पीडनदोषाः; आमता, हीनता, अतिमात्रता, अतिशीतता, अत्युष्णता, अतितीक्ष्णता, अतिमृदुता, अतिस्निग्धता, अतिरूक्षता, अतिसान्द्रता, अतिद्रवता, इत्येकादश द्रव्यदोषाः; अवाक्शीर्षोच्छीर्षन्युब्जोत्तानसङ्कुचितदेहस्थितदक्षिणपार्श्वशायिनः प्रदानमिति सप्त शय्यादोषाः; एवमेताश्चतुश्चत्वारिंशद्व्यापदो वैद्यनिमित्ताः। आतुरनिमित्ताः पञ्चदश आतुरोपद्रवचिकित्सिते वक्ष्यन्ते। स्नेहस्त्वष्टभिः कारणैः प्रतिहतो न प्रत्यागच्छति त्रिभिर्दोषैः, अशनाभिभूतो, मलव्यामिश्रो, दूरानुप्रविष्टो, अस्विन्नस्य, अनुष्णो, अल्पम्भुक्तवतो, अल्पश्चेति वैद्यातुरनिमित्ता भवन्ति। अयोगस्तूभयोः, आध्मानं, परिकर्तिका, परिस्रावः, प्रवाहिका, हृदयोपसरणम्, अङ्गप्रग्रहो, अतियोगो, जीवादानमिति नव व्यापदो वैद्यनिमित्ता भवन्ति॥
भवति चात्र षट्सप्ततिः समासेन व्यापदः परिकीर्तिताः। तासां वक्ष्यामि विज्ञानं सिद्धिं च तदनन्तरम्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0