सुश्रुतसंहिता · अध्याय 4.32
अथातः स्वेदावचारणीयं चिकित्सितं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
चतुर्विधः स्वेदः तद्यथा तापस्वेद, ऊष्मस्वेद, उपनाहस्वेदो, द्रवस्वेद इति अत्र सर्वस्वेदविकल्पावरोधः॥
तत्र तापस्वेदः पाणिकांस्यकन्दुककपालवालुकावस्त्रैः प्रयुज्यते, शयानस्य चाङ्गतापो बहुशः खादिराङ्गारैरिति॥
ऊष्मस्वेदस्तु कपालपाषाशेष्टकालोहपिण्डानग्निवर्णानद्भिरासिञ्चेदम्लद्रव्यैर्वा, तैरार्द्रालक्तकपरिवेष्टितैरङ्गप्रदेशं स्वेदयेत्। मांसरसपयोदधिस्नेहधान्याम्लवातहरपत्रभङ्गक्वाथपूर्णां वा कुम्भीमनुतप्तां प्रावृत्योष्माणं गृह्णीयात्। पार्श्वच्छिद्रेण वा कुम्भेनाधोमुखेन तस्या मुखमभिसन्धाय तस्मिञ्छिद्रेहस्तिशुण्डाकारां नाडीं प्रणिधाय तं स्वेदयेत्॥
सुखोपविष्टं स्वभ्यक्तं गुरुप्रावरणावृतम्। हस्तिशुण्डिकया नाड्या स्वेदयेद्वातरोगिणम्। सुखा सर्वाङ्गगा ह्येषा न च क्लिश्नाति मानवम्॥
व्यामार्धमात्रा त्रिर्वक्रा हस्तिहस्तसमाकृतिः। स्वेदनार्थे हिता नाडी कैलिञ्जी हस्तिशुण्डिका॥
पुरुषायाममात्रां च भूमिमुत्कीर्य खादिरैः। काष्ठैर्दग्ध्वा तथाभ्युक्ष्य क्षीरधान्याम्लवारिभिः॥
पत्रभङ्गैरवच्छाद्य शयानं स्वेदयेत्ततः। पूर्ववत् स्वेदयेद्दग्ध्वा भस्मापोह्यापि वा शिलाम्॥
पूर्ववत् कुटीं वा चतुर्द्वारां कृत्वा तस्यामुपविष्टस्यान्तश्चतुर्द्वारेऽङ्गारानुपसन्धाय तं स्वेदयेत्॥
कोशधान्यानि वा सम्यगुपस्वेद्यास्तीर्य किलिञ्जेऽन्यस्मिन् वा तत्प्रतिरूपके शयानं प्रावृत्य स्वेदयेत्; एवं पांशुगोशकृत्तुषबुसपलालोष्मभिः स्वेदयेत्॥
उपनाहस्वेदस्तु वातहरमूलकल्कैरम्लपिष्टैर्लवणप्रगाढैः सुस्निग्धैः सुखोष्णैः प्रदिह्य स्वेदयेत्। एवं काकोल्यादिभिरेलादिभिः सुरसादिभिस्तिलातसीसर्षपकल्कैः कृशरापायसोत्कारिकाभिर्वेशवारैः साल्वणैर्वा तनुवस्त्रावनद्धैः स्वेदयेत्॥
द्रवस्वेदस्तु वातहरद्रव्यक्वाथपूर्णे कोष्णकटाहे द्रोण्यां वावगाह्य स्वेदयेत्, एवं पयोमांसरसयूषतैलधान्याम्लघृतवसामूत्रेष्ववगाहेत; एतैरेव सुखोष्णैः कषायैश्च परिषिञ्चेदिति॥
तत्र तापोष्मस्वेदौ विशेषतः श्लेष्मघ्नौ, उपनाहस्वेदो वातघ्नः, अन्यतरस्मिन् पित्तसंसृष्टे द्रवस्वेद इति॥
कफमेदोन्विते वायौ निवातातपगुरुप्रावरणनियुद्धाध्वव्यायामभारहरणामर्षैः स्वेदमुत्पादयेदिति॥
भवन्ति चात्र चतुर्विधो योऽभिहितो द्विधा स्वेदः प्रयुज्यते। सर्वस्मिन्नेव देहे तु देहस्यावयवे तथा॥
येषां नस्यं विधातव्यं बस्तिश्चैव हि देहिनाम्। शोधनीयाश्च ये केचित् पूर्वं स्वेद्यास्तु ते मताः॥
पश्चात् स्वेद्या हृते शल्ये मूढगर्भानुपद्रवा। सम्यक् प्रजाता काले या पश्चात् स्वेद्या विजानता॥
स्वेद्यः पूर्वं च पश्चाच्च भगन्दर्यर्शसस्तथा। अश्मर्या चातुरो जन्तुः शेषाञ्छास्त्रे प्रचक्ष्महे॥
नानभ्यक्ते नापि चास्निग्धदेहे स्वेदो योज्यः स्वेदविद्भिः कथञ्चित्। दृष्टं लोके काष्ठमस्निग्धमाशु गच्छेद्भङ्गं स्वेदयोगैर्गृहीतम्॥
स्नेहक्लिन्ना धातुसंस्थाश्च दोषाः स्वस्थानस्था ये च मार्गेषु लीनाः। सम्यक् स्वेदैर्योजितैस्ते द्रवत्वं प्राप्ताः कोष्ठं शोधनैर्यान्त्यशेषम्॥
अग्नेर्दीप्तिं मार्दवं त्वक्प्रसादं भक्तश्रद्धां स्रोतसां निर्मलत्वम्। कुर्यात् स्वेदो हन्ति निद्रां सतन्द्रां सन्धीन् स्तब्धांश्चेष्टयेदाशु युक्तः॥
स्वेदास्रावो व्याधिहानिर्लघुत्वं शीतार्थित्वं मार्दवं चातुरस्य। सम्यक्स्विन्ने लक्षणं प्राहुरेतन्मिथ्यास्विन्ने व्यत्ययेनैतदेव॥
स्विन्नेऽत्यर्थं सन्धिपीडा विदाहः स्फोटोत्पत्तिः पित्तरक्तप्रकोपः। मूर्च्छा भ्रान्तिर्दाहतृष्णे क्लमश्च कुर्यात्तूर्णं तत्र शीतं विधानम्॥
पाण्डुर्मेही पित्तरक्ती क्षयार्तः क्षामोऽजीर्णी चोदरार्तो विषार्तः। तृड्च्छर्द्यार्तो गर्भिणी पीतमद्यो नैते स्वेद्या यश्च मर्त्योअतिसारी। स्वेदादेषां यान्ति देहा विनाशं नोसाध्यत्वं यान्ति चैषां विकाराः॥
स्वेदैः साध्यो दुर्बलोऽजीर्णभक्तः स्यातां चेद्द्वौ स्वेदनीयौ ततस्तौ। एतेषां स्वेदसाध्या ये व्याधयस्तेषु बुद्धिमान्। मृदून् स्वेदान् प्रयुञ्जीत तथा हृन्मुष्कदृष्टिषु॥
सर्वान् स्वेदान्निवाते च जीर्णान्नस्यावचारयेत्। स्नेहाभ्यक्तशरीरस्य शीतैराच्छाद्य चक्षुषी॥
स्विद्यमानस्य च मुहुर्हृदयं शीतलैः स्पृशेत्। सम्यक्स्विन्नं विमृदितं स्नातमुष्णाम्बुभिः शनैः॥
स्वभ्यक्तं प्रावृताङ्गं च निवातशरणस्थितम्। भोजयेदनभिष्यन्दि सर्वं चाचारमादिशेत्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0