सुश्रुतसंहिता · अध्याय 4.31
अथातः स्नेहोपयौगिकचिकित्सितं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
स्नेहसारोऽयं पुरुषः, प्राणाश्च स्नेहभूयिष्टाः स्नेहसाध्याश्च भवन्ति। स्नेहो हि पानानुवासनमस्तिष्कशिरोवस्त्युत्तरबस्तिनस्यकर्णपूरणगात्राभ्यङ्गभोजनेषूपयोज्यः॥
तत्र द्वियोनिश्चतुर्विकल्पोऽभिहितः स्नेहः स्नेहगुणाश्च। तत्र जङ्गमेभ्यो गव्यं घृतं प्रधानं, स्थावरेभ्यस्तिलतैलं प्रधानमिति॥
अत ऊर्ध्वं यथाप्रयोजनं यथाप्रधानं च स्थावरस्नेहानुपदेक्ष्यामः तत्र तिल्वकैरण्डकोशाम्रदन्तीद्रवन्तीसप्तलाशङ्खिनीपलाशविषाणिकागवाक्षीकम्पिल्लकशम्पाकनीलिनीस्नेहा विरेचयन्ति, जीमूतककुटजकृतवेधनेक्ष्वाकुधामार्गवमदनस्नेहा वामयन्ति, विडङ्गखरमञ्जरीमधुशिग्रुसूर्यवल्लीपीलुसिद्धार्थकज्योतिष्मतीस्नेहाः शिरो विरेचयन्ति, करञ्जपूतीककृतमालमातुलुङ्गेङ्गुदीकिराततिक्तकस्नेहा दुष्टव्रणेषूपयुज्यन्ते, तुवरककपित्थकम्पिल्लकभल्लातकपटोलस्नेहा महाव्याधिषु, त्रपुसैर्वारुककर्कारुकतुम्बीकूष्माण्डस्नेहा मूत्रसङ्गेषु, कपोतवङ्कावल्गुजहरीतकीस्नेहाः शर्कराश्मरीषु, कुसुम्भसर्षपातसीपिचुमर्दातिमुक्तकभाण्डीकटुतुम्बीकटभीस्नेहाः प्रमेहेषु, तालनारिकेलपनसमोचप्रियालबिल्वमधूकश्लेष्मातकाम्रातकफलस्नेहाः पित्तसंसृष्टे वायौ, बिभीतकभल्लातकपिण्डीतकस्नेहाः कृष्णीकरणे, श्रवणकङ्गुकटुण्टुकस्नेहाः पाण्डूकरणे, सरलपीतदारुशिंशपागुरुसारस्नेहा दद्रुकुष्ठकिटिमेषु, सर्व एव स्नेहा वातमुपघ्नन्ति, तैलगुणाश्च समासेन व्याख्याताः॥
अत ऊर्ध्वं कषायस्नेहपाकक्रममुपदेक्ष्यामः। तत्र केचिदाहुः त्वक्पत्रफलमूलादीनां भागस्तच्चतुर्गुणं जलं चतुर्भागावशेषं निष्क्वाथ्यापहरेदित्येष कषायपाककल्पः; स्नेहप्रसृतेषु षट्सु चतुर्गुणं द्रवमावप्य चतुरश्चाक्षसमान् भेषजपिण्डानित्येष स्नेहपाककल्पः। एतत्तु न सम्यक्; कस्मात् आगमासिद्धत्वात्॥
पलकुडवादीनामतो मानं तु व्याख्यास्यामः तत्र द्वादश धान्यमाषा मध्यमाः सुवर्णमाषकः, ते षोडश सुवर्णम्; अथवा मध्यमनिष्पावा एकोनविंशतिर्धरणं, ताव्यर्धतृतीयानि कर्षः; ततश्चोर्ध्वं चतुर्गुणमभिवर्धयन्तः पलकुडवप्रस्थाढकद्रोणा इत्यभिनिष्पद्यन्ते, तुला पुनः पलशतं, ताः पुनर्विंशतिर्भारः; शुष्काणामिदं मानम्, आर्द्रद्रवाणां च द्विगुणमिति॥
तत्रान्यतमपरिमाणसंमितानां यथायोगं त्वक्पत्रफलमूलादीनामातपपरिशोषितानां छेद्यानि खण्डशश्छेदयित्वा भेद्यान्यणुशो भेदयित्वावकुट्याष्टगुणेन षोडशगुणेन वाम्भसाभिषिच्यस्थाल्यां चतुर्भागावशिष्टं क्वाथयित्वापहरेदित्येष कषाययाककल्पः। स्नेहाच्चतुर्भागावशिष्टं क्वाथयित्वापहरेदित्येष कषायपाककल्पः। स्नेहाच्चतुर्गुणो द्रवः, स्नेहचतुर्थंशो भेषजकल्कः, तदैकध्यं संऋज्य विपचेदित्येष स्नेहपाककल्पः। अथवा तत्रोदकद्रोणे त्वक्पत्रफलमूलादीनां तुलामावाप्य चतुर्भागावशिष्टं निष्क्वाथ्यापहरेदित्येष कषायपाककल्पः; स्नेहकुडवे भेषजपलं पिष्टं कल्कं चतुर्गुणं द्रवमावाप्य विपचेदित्येष स्नेहपाककल्पः॥
भवतश्चात्र स्नेहभेषजतोयानां प्रमाणं यत्र नेरितम्। तत्रायं विधिरास्थेयो निर्दिष्टे तद्वदेव तु॥
अनुक्ते द्रवकार्ये तु सर्वत्र सलिलं मतम्। कल्कक्वाथावनिर्देशे गणात्तस्मात् प्रयोजयेत्॥
अत ऊर्ध्वं स्नेहपाकक्रममुपदेक्ष्यामः। स तु त्रिविधः; तद्यथा मृदुः, मध्यमः, खर इति। तत्र स्नेहौषधिविवेकमात्रं यत्र भेषजं स मृदुरिति, मधूच्छिष्टमिव विशदमविलेपि यत्र भेषजं स मध्यमः, कृष्णमवसन्नमीषद्विशदं चिक्कणं च यत्र भेषजं स खर इति; अत ऊर्ध्वं दग्धस्नेहो भवति, तं पुनः साधु साधयेत्। तत्र पानाभ्यवहारयोर्मृदुः, नस्याभ्यङ्गयोर्मध्यमः, बस्तिकर्णपूरणयोस्तु खर इति॥
भवतश्चात्र शब्दस्योपरमे प्राप्ते फेनस्योपशमे तथा। गन्धवर्णरसादीनां संपत्तौ सिद्धिमादिशेत्॥
घृतस्यैवं विपक्वस्य जानीयात् कुशलो भिषक्। फेनोऽतिमात्रं तैलस्य शेषं घृतवदादिशेत्॥
अत ऊर्ध्वं स्नेहपानक्रममुपदेक्ष्यामः अथ खलु लघुकोष्ठायातुराय कृतमङ्गलस्वस्तिवाचनायोदयगिरिशिखरसंस्थिते प्रतप्तकनकनिकरपीतलोहिते सवितरि यथाबलं तैलस्य घृतस्य वा मात्रां पातुं प्रयच्छेत्। पीतमात्रे चोष्णोदकेनोपस्पृश्य सोपानत्को यथासुखं विहरेत्॥
रूक्षक्षतविषार्तानां वातपित्तविकारिणाम्। हीनमेधास्मृतीनां च सर्पिःपानं प्रशस्यते॥
कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः। पिबेयुस्तैलसात्म्याश्च तैलं दार्ढ्यार्थिनश्च ये॥
व्यायामकर्शिताः शुष्करेतोरक्ता महारुजः। महाग्निमारुतप्राणा वसायोग्या नराः स्मृताः॥
क्रूराशयाः क्लेशसहा वातार्ता दीप्तवह्नयः। मज्जानमाप्नुयुः सर्वे सर्पिर्वा स्वौषधान्वितम्॥
केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम्। देयं बहुकफे चापि व्योषक्षारसमायुतम्॥
दोषाणामल्पभूयस्त्वं संसर्गं समवेक्ष्य च। युञ्ज्यात्त्रिषष्टिधाभिन्नैः समासव्यासतो रसैः॥
स्नेहसात्म्यः क्लेशसहः काले नात्युष्णशीतले। अच्छमेव पिबेत् स्नेहमच्छपानं हि पूजितम्॥
शीतकाले दिवा स्नेहमुष्णकाले पिबेन्निशि। वातपित्ताधिको रात्रौ वातश्लेष्माधिको दिवा॥
वातपित्ताधिकस्योष्णे तृणमूर्च्छोन्मादकारकः। शीते वातकफार्तस्य गौरवारुचिशूलकृत्॥
स्नेहपीतस्य चेत्तृष्णा पिबेदुष्णोदकं नरः। एवं चानुपशाम्यन्त्यां स्नेहमुष्णाम्बुना वमेत्॥
दिह्याच्छीतैः शिरः शीतं तोयं चाप्यवगाहयेत्। या मात्रा परिजीर्येत चतुर्भागगतेऽहनि॥
सा मात्रा दीपयत्यग्निमल्पदोषे च पूजिता। या मात्रा परिजीर्येत तथार्धदिवसे गते॥
सा वृष्या बृंहणी या च मध्यदोषे च पूजिता। या मात्रा परिजीर्येत चतुर्भागावशेषिते॥
स्नेहनीया च सा मात्रा बहुदोषे च पूजिता। या मात्रा परिजीर्येत्तु तथा परिणतेऽहनि॥
ग्लानिमूर्च्छामदान् हित्वा सा मात्रा पूजिता भवेत्। अहोरात्रादसंदुष्टा या मात्रा परिजीर्यति॥
सा तु कुष्ठवोषोन्मादग्रहापस्मारनाशिनी। यथाग्नि प्रथमां मात्रां पाययेत विचक्षणः॥
पीतो ह्यतिबहुः स्नेहो जनयेत् प्राणसंशयम्। मिथ्याचाराद्बहुत्वाद्वा यस्य स्नेहो न जीर्यति॥
विष्टभ्य चापि जीर्येत्तं वारिणोष्णेन वामयेत्। ततः स्नेहं पुनर्दद्याल्लघुकोष्ठाय देहिने। जीर्णाजीर्णविशङ्कायां स्नेहस्योष्णोदकं पिबेत्॥
तेनोद्गारो भवेच्छुद्धो भक्तं रुचिस्तथा। स्युः पच्यमाने तृड्दाहभ्रमसादारतिक्लमाः॥
परिषिच्याद्भिरुष्णाभिर्जीर्णस्नेहं ततो नरम्। यवागूं पाययेच्चोष्णां कामं क्लिन्नाल्पतण्डुलाम्॥
देयौ यूषरसौ वापि सुगन्धी स्नेहवर्जितौ। कृतौ वात्यल्पसर्पिष्कौ विलेपी वा विधीयते॥
पिबेत्त्र्यहं चतुरहं पञ्चाहं षडहं तथा। सप्तरात्रात् परं स्नेहः सात्म्यीभवति सेवितः॥
सुकुमारं कृशं वृद्धं शिशुं स्नेहद्विषं तथा। तृष्णार्तमुष्णकाले च सह भक्तेन पाययेत्॥
पिप्पल्यो लवणं स्नेहाश्चत्वारो दधिमस्तुकः। पीतमैकध्यमेतद्धि सद्यःस्नेहनमुच्यते॥
भृष्टा मांसरसे स्निग्धा यवागूः सूपकल्पिता। प्रक्षुद्रा पीयमाना तु सद्यःस्नेहनमुच्यते॥
सर्पिष्मती पयःसिद्धा यवागूः स्वल्पतण्डुला। सस्वोष्णा सेव्यमाना तु सद्यःस्नेहनमुच्यते॥
पिप्पल्यो लवणं सर्पिस्तिलपिष्टं वराहजा। वसा च पीतमैकध्यं सद्यःस्नेहनमुच्यते॥
शर्कराचूर्णसंसृष्टे दोहनस्थे घृते तु गाम्। दुग्ध्वा क्षीरं पिबेद्रूक्षः सद्यःस्नेहनमुच्यते॥
यवकोलकुलत्थानां क्वाथो मागधिकान्वितः। पयो दधि सुरा चेति घृतमप्यष्टमं भवेत्॥
सिद्धमेतैर्घृतं पीतं सद्यःस्नेहनमुत्तमम्। राज्ञे राजसमेभ्यो वा देयमेतद्घृतोत्तमम्॥
बलहीनेषु वृद्धेषु मृद्वग्निस्त्रीहतात्मसु। अल्पदोषेषु योज्याः स्युर्ये योगाः सम्यगीरिताः॥
विवर्जयेत् स्नेहपानमजीर्णी तरुणज्वरी। दुर्बलोऽरोचकी स्थूलो मूर्च्छार्तो मदपीडितः॥
छर्द्यर्दितः पिपासार्तः श्रान्तः पानक्लमान्वितः। दत्तबस्तिर्विरिक्तश्च वान्तो यश्चापि मानवः॥
अकाले दुर्दिने चैव न च स्नेहं पिबेन्नरः। अकाले च प्रसूता स्त्री स्नेहपानं विवर्जयेत्॥
स्नेहपानाद्भवन्त्येषां नॄणां नानाविधा गदाः। गदा वा कृच्छ्रतां यान्ति न सिध्यन्त्यथवा पुनः॥
गर्भाशयेऽवशेषाः स्यू रक्तक्लेदमलास्ततः। स्नेहं जह्यान्निषेवेत पाचनं रूक्षमेव च॥
दशरात्रात्ततः स्नेहं यथावदवचारयेत्। पुरीषं ग्रथितं रूक्षं कृच्छ्रादन्नं विपच्यते॥
उरो विदहते वायुः कोष्ठादुपरि धावति। दुर्वर्णो दुर्बलश्चैव रूक्षो भवति मानवः॥
सुस्निग्धा त्वग्विट्शैथिल्यं दीप्तोऽग्निर्मृदुगात्रता। ग्लानिर्लाघवमङ्गानामधस्तात् स्नेहदर्शनम्। सम्यक्स्निग्धस्य लिङ्गानि स्नेहोद्वेगस्तथैव च॥
भक्तद्वेषो मुखस्रावो गुददाहः प्रवाहिका। पुरीषातिप्रवृत्तिश्च भृशस्निग्धस्य लक्षणम्॥
रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम्। श्यामाककोरदूषान्नतक्रपिण्याकशक्तुभिः॥
दीप्तान्तरग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः। दृढेन्द्रियो मन्दजरः शतायुः स्नेहोपसेवी पुरुषो भवेत्तु॥
स्नेहो हितो दुर्बलह्निदेहसन्धुक्षणे व्याधिनिपीडितस्य। बलान्वितौ भोजनदोषजातैः प्रमर्दितुं तौ सहसा न साध्यौ॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0