भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 4.33

4.33.1

अथातो वमनविरेचनसाध्योपद्रवचिकित्सितं व्याख्यास्यामः॥

4.33.2

यथोवाच भगवान् धन्वन्तरिः॥

4.33.3

दोषाः क्षीणा बृंहयितव्याः, कुपिताः प्रशमयितव्याः, वृद्धा निर्हर्तव्याः, समाः परिपाल्या इति सिद्धान्तः॥

4.33.4

प्राधान्येन वमनविरेचने वर्तते निर्हरणे दोषाणाम्। तस्मात्तयोर्विधानमुच्यमानमुपधारय॥

4.33.5

अथातुरं स्निग्धं स्विन्नमभिष्यन्दिभिराहारैरनवबद्धदोषमवलोक्य श्वो वमनं पाययितास्मीति संभोजयेत्तीक्ष्णाग्निं बलवन्तं बहुदोषं महाव्याधिपरीतं वमनसात्म्यं च॥

4.33.6

भवति चात्र पेशलैर्विविधैरन्नैर्दोषानुत्क्लेश्य देहिनः। स्निग्धस्विन्नाय वमनं दत्तं सम्यक् प्रवर्तते॥

4.33.7

अथापरेद्युः पूर्वाह्णे साधारणे काले वमनद्रव्यकषायकल्कचूर्णस्नेहानामन्यतमस्य मात्रां पाययित्वा वामयेद्यथायोगं कोष्ठविशेषमवेक्ष्य; असात्म्यबीभत्सदुर्गन्धदुर्दर्शनानि च वमनानि विदध्यात्, अतो विपरीतानि विरेचनानि; तत्र सुकुमारं कृशं बालं वृद्धं भीरुं वा वमनसाध्येषु विकारेषु क्षीरदधितक्रयवागूनामन्यतममाकण्ठं पाययेत्, पीतौषधं च पाणिभिरग्नितप्तैः प्रताप्यमानं मुहूर्तमुपेक्षेत; तस्य च स्वेदप्रादुर्भावेण शिथिलतामापन्नं स्वेभ्यः स्थानेभ्यः प्रचलितं कुक्षिमनुसृतं जानीयात्, ततः प्रवृत्तहृल्लासं ज्ञात्वा जानुमात्रासनोपविष्टमाप्तैर्ललाटे पृष्ठे पार्श्वयोः कण्ठे च पाणिभिः सुपरिगृहीतमङ्गुलीगन्धर्वहस्तोत्पलनालानामन्यतमेन कण्ठमभिस्पृशन्तं वामयेत्तावद्यावत् सम्यग्वान्तलिङ्गानीति॥

4.33.8

भवतश्चात्र कफप्रसेकं हृद्याविशुद्धिं कण्डूं च दुश्छर्दितलिङ्गमाहुः। पित्तातियोगं च चिसंज्ञतां च हृत्कण्ठपीडामपि चातिवान्ते॥

4.33.9

पित्ते कफस्यानु सुखं प्रवृत्ते शुद्धेषु हृत्कण्ठशिरःसु चापि। लघौ च देहे कफसंस्रवे च स्थिते सुवान्तं पुरुषं व्यवस्येत्॥

4.33.10

सम्यग्वान्तं चैनमभिसमीक्ष्य स्नेहनविरेचनशमनानां धूमानामन्यतमं सामर्थ्यतः पाययित्वाआचारिकमादिशेत्॥

4.33.11

भवन्ति चात्र ततोऽपराह्णे शुचिशुद्धदेहमुष्णाभिरद्द्भिः परिषिक्तगात्रम्। कुलत्थमुद्गाढकिजाङ्गलानां यूषै रसैर्वाप्युपभोजयेत्तु॥

4.33.12

कासोपलेपस्वरभेदनिद्रातन्द्रास्यदौर्गन्ध्यविषोपसर्गाः। कफप्रसेकग्रहणीप्रदोषा न सन्ति जन्तोर्वमतः कदाचित्॥

4.33.13

छिन्ने तरौ पुष्पफलप्ररोहा यथा विनाशं सहसा व्रजन्ति। तथा हृते श्लेष्मणि शोधनेन तज्जा विकाराः प्रशमं प्रयान्ति॥

4.33.14

न वामयेत्तैमिरिकोर्ध्ववातगुल्मोदरप्लीहकृमिश्रमार्तान्। स्थूलक्षतक्षीणकृशातिवृद्धमूत्रातुरान् केवलवातरोगान्॥

4.33.15

स्वरोपघाताध्ययनप्रसक्तदुश्छर्दिदुःकोष्ठतृडार्तबालाम्। ऊर्ध्वास्रपित्तिक्षुधितातिरूक्षगर्भिण्युदावर्तिरूहितांश्च॥

4.33.16

अवम्यवमनाद्रोगाः कृच्छ्रतां यान्ति देहिनाम्। असाध्यतां वा गच्छन्ति नैते वाम्यास्ततः स्मृताः॥

4.33.17

एतेऽप्यजीर्णव्यथिता वाम्या ये च विषातुराः। अतीव चोल्बणकफास्ते च स्युर्मधुकाम्बुना॥

4.33.18

वाम्यास्तु विषशोषस्तन्यदोषमन्दाग्न्युन्मादापस्मारश्लीपदार्बुदविदारिकामेदोमेहगरज्वरारुच्यपच्यामातीसारहृद्रोगचित्तविभ्रमविसर्पविद्रध्यजीर्णमुखप्रसेकहृल्लासश्वासकासपीनसपूतीनासकण्ठौष्ठवक्त्रपाककर्णस्रावाधिजिह्वोपजिह्विकागलशुण्डिकाधःशोणितपित्तिनः कफस्थानजेषु विकारेष्वन्ये च कफव्याधिपरीता इति॥

4.33.19

विरेचनमपि स्निग्धस्विन्नाय वान्ताय च देयम्; अवान्तस्य हि सम्यग्विरिक्तस्यापि सतोऽधः स्रस्तः श्लेष्मा ग्रहणीं छादयति, गौरवमापादयति, प्रवाहिकां वा जनयति॥

4.33.20

अथातुरं श्वो विरेचनं पाययितास्मीति पूर्वाह्णे लघु भोजयेत्, फलाम्लमुष्णोदकं चैनमनुपाययेत्। अथापरेऽहनि विगतश्लेष्मधातुमातुरोपक्रमणीयादवेक्ष्यातुरमथास्मै औषधमात्रां पातुं प्रयच्छेत्॥

4.33.21

तत्र मृदुः, क्रूरो, मध्यम इति त्रिविधः कोष्ठो भवति। तत्र बहुपित्तो मृदुः, स दुग्धेनापि विरिच्यते; बहुवातश्लेष्मा क्रूरः, स दुर्विरेच्यः; समदोषो मध्यमः, स साधारण इति। तत्र मृदौ मात्रा मृद्वी, तीक्ष्णा क्रूरे, मध्ये मध्या कर्तव्येति। पीतौषधश्च तन्मनाः शय्याभ्याशे विरेच्यते॥

4.33.22

विरेचनं पीतवांस्तु न वेगान् धारयेद्बुधः। निवातशायी शीताम्बु न स्पृशेन्न प्रवाहयेत्॥

4.33.23

यथा च वमने प्रसेकौषधकफपित्तानिलाः क्रमेण गच्छन्ति, एवं विरेचने मूत्रपुरीषपित्तौषधकफा इति॥

4.33.24

भवन्ति चात्र हृत्कुक्ष्यशुद्धिः परिदाहकण्डूविण्मूत्रसङ्गाश्च न सद्विरिक्ते। मूर्च्छागुदभ्रंशकफातियोगाः शूलोद्गमश्चातिविरिक्तलिङ्गम्॥

4.33.25

गतेषु दोषेषु कफान्वितेषु नाभ्या लघुत्वे मनसश्च तुष्टौ। गतेऽनिले चाप्यनुलोमभावं सम्यग्विरिक्तं मनुजं व्यवस्येत्॥

4.33.26

मन्दाग्निमक्षीणमसद्विरिक्तं न पाययेताहनि तत्र पेयाम्। क्षीणं तृषार्तं सुविरेचितं च तन्वीं सुखोष्णां लघु पाययेच्च॥

4.33.27

बुद्धेः प्रसादं बलमिन्दिर्याणां धातुस्थिरत्वं बलमग्निदीप्तिम्। चिराच्च पाकं वयसः करोति विरेचनं सम्यगुपास्यमानम्॥

4.33.28

यथौदकानामुदकेऽपनीते चरस्थिराणां भवति प्रणाशः। पित्ते हृते त्वेवमुपद्रवाणां पित्तात्मकानां भवति प्रणाशः॥

4.33.29

मन्दाग्न्यतिस्नेहितबालवृद्धस्थूलाः क्षतक्षीणभयोपतप्ताः। श्रान्तस्तृषार्तोऽपरिजीर्णभक्तो गर्भिण्यधो गच्छति यस्य चासृक्॥

4.33.30

नवप्रविश्यायमदात्ययी च नवज्रवी या च नवप्रसूता। शल्यार्दिताश्चाप्यविरेचनीयाः स्नेहादिभिर्ये त्वनुपस्कृताश्च॥

4.33.31

विरेचनैर्यान्ति नरा विनाशमज्ञप्रयुक्तैरविरेचनीयाः॥

4.33.32

विरेच्यास्तु ज्वरगरारुच्यर्शोऽर्बुदोदरग्रन्थिविद्रधिपाण्डुरोगापस्मारहृद्रोगवातरक्तभगन्दरच्छर्दियोनिरोगविसर्पगुल्मपक्वाशयरुग्विबन्धविसूचिकालसकमूत्राघातकुष्ठविस्फोटकप्रमेहानाहप्लीहशोफवृद्धिशस्त्रक्षतक्षाराग्निदग्धदुष्टव्रणाक्षिपाककाचतिमिराभिष्यन्दशिरःकर्णाक्षिनासास्यगुदमेढ्रदाहोर्ध्वरक्तपित्तकृमिकोष्ठिनः पित्तस्थानजेष्वन्येषु च विकारेष्वन्ये च पैत्तिकव्याधिपरीता इति॥

4.33.33

सरत्वसौक्ष्म्यतैक्ष्ण्यौष्ण्यविकाशित्वैर्विरेचनम्। वमनं तु हरेद्दोषं प्रकृत्या गतमन्यथा॥

4.33.34

यात्यधो दोषमादाय पच्यमानं विरेचनम्। गुणोत्कर्षाह्व्रजत्यूर्ध्वमपक्वं वमनं पुनः॥

4.33.35

मृदुकोष्ठस्य दीप्ताग्नेरतितीक्ष्णं विरेचनम्। न सम्यङ्निर्हरेद्दोषानतिवेगप्रधावितम्॥

4.33.36

पीतं यदौषधं प्रातर्भुक्तपाकसमे क्षणे। पक्तिं गच्छति दोषांश्च निर्हरेत्तत् प्रशस्यते॥

4.33.37

दुर्बलस्य चलान् दोषानल्पानल्पान् पुनः पुनः। हरेत् प्रभूतानक्पांस्तु शमयेत् प्रच्युतानपि॥

4.33.38

हरेद्दोषांश्चलान् पक्वान् बलिनो दुर्बलस्य वा। चला ह्युपेक्षिता दोषाः क्लेशयेयुश्चिरं नरम्॥

4.33.39

मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः। सन्धुक्षिताग्निं स्निग्धं च स्विन्नं चैव विरेचयेत्॥

4.33.40

स्निग्धस्विन्नस्य भैषज्यैर्दोषस्तूत्क्लेशितो बलात्। निलीयते न मार्गेषु स्निग्धे भाण्ड इवोदकम्॥

4.33.41

न चातिस्नेहपीतस्तु पिबेत् स्नेहविरेचनम्। दोषाः प्रचलिताः स्थानाद्भूयः श्लिष्यन्ति वर्त्मसु॥

4.33.42

विषाभिघातपिडकाशोफपाण्डुविसर्पिणः। नातिस्निग्धा विशोध्याः स्युस्तथा कुष्ठिप्रमेहिणः॥

4.33.43

विरूक्ष्य स्नेहसात्म्यं तु भूयः संस्नेह्य शोधयेत्। तेन दोषा हृतास्तस्य भवन्ति बलवर्धनाः॥

4.33.44

प्रागपीतं नरं शोध्यं पाययेतौषधं मृदु। ततो विज्ञातकोष्ठस्य कार्यं संशोधनं पुनः॥

4.33.45

सुखं दृष्टफलं हृद्यमल्पमात्रं महागुणम्। व्यापत्स्वल्पात्ययं चापि पिबेन्नृपतिरौषधम्॥

4.33.46

स्नेहस्वेदावनभ्यस्य यस्तु संशोधनं पिबेत्। दारु शुष्कमिवानामे देहस्तस्य विशीर्यते॥

4.33.47

स्नेहस्वेदप्रचलिता रसैः स्निग्धैरुदीरिताः। दोषाः कोष्ठगता जन्तोः सुखा हर्तुं विशोधनैः॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc