भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 4.30

4.30.1

अथातो निवृत्तसन्तापीयं रसायनं व्याख्यास्यामः॥

4.30.2

यथोवाच भगवान् धन्वन्तरिः॥

4.30.3

यथा निवृत्तसन्तापा मोदन्ते दिवि देवताः। तथौषधीरिमाः प्राप्य मोदन्ते भुवि मानवाः॥

4.30.4

अथ खलु सप्त पुरुषा रसायनं नोपयुञ्जीरन्; तद्यथा अनात्मवानलसो दरिद्रः प्रमादी व्यसनीपापकृद् भेषजापमानी चेति। सप्तभिरेव कारणैर्न संपद्यते; तद्यथा अज्ञानादनारम्भादस्थिरचित्तत्वाद्दारिद्व्यादनायत्तत्वादधर्मादौषधालाभाच्चेति॥

4.30.5

अथौषधीव्याख्यास्यामः तत्राजगरी, श्वेतकापोती, कृष्णकापोती, गोनसी, वाराही, कन्या, छत्रा, अतिच्छत्रा, करेणुः, अजा, चक्रका, आदित्यपर्णी, ब्रह्मसुवर्चला, श्रावणी, महाश्रावणी, गोलोमी, अजलोमी, महावेगवती, चेत्यष्टादश सोमसमवीर्या महौषधयो व्याख्याताः। तासां सोमवत् क्रियाशीःस्तुतयः शास्त्रेऽभिहिताः। तासामागारेऽभिहुतानां याः क्षीरवत्यस्तासां क्षीरकुडवं सकृदेवोपयुञ्जीत, यास्त्वक्षीरा मूलवत्यस्तासां प्रदेशिनीप्रमाणानि त्रीणि काण्डानि प्रमाणमुपयोगे, श्वेतकापोती समूलपत्रा भक्षयितव्या, गोनस्यजगरीकृष्णकापोतीनां सनखमुष्टिं खण्डशः कल्पयित्वा क्षीरेण विपाच्य परिस्राव्याभिघारितमभिहुतं च सकृदेवोपयुञ्जीत, चक्रकायाः पयः सकृदेव, ब्रह्मसुवर्चला सप्तरात्रमुपयोक्तव्या भक्ष्यकल्पेन, शेषाणां पञ्च पञ्च पलानि क्षीराढकक्वथितानि प्रस्थेऽवशिष्टेऽवतार्य परिस्राव्य सकृदेवोपयुञ्जीत। सोमवदाहारविहारौ व्याख्यातौ, केवलं नवनीतमभ्यङ्गार्थे, शेषं सोमवदानिर्गमादिति॥

4.30.6

भवन्ति चात्र युवानं सिंहविक्रान्तं कान्तं श्रुतनिगादिनम्। कुर्युरेताः क्रमेणैव द्विसहस्रायुषं नरम्॥

4.30.7

अङ्गदी कुण्डली मौली दिव्यस्रक्चन्दनाम्बरः। चरत्यमोघसङ्कल्पो नभस्यम्बुददुर्गमे॥

4.30.8

व्रजन्ति पक्षिणो येन जललम्बाश्च तोयदाः। गतिः सौषधिसिद्धस्य सोमसिद्धे गतिः परा॥

4.30.9

अथ वक्ष्यामि विज्ञानमौषधीनां पृथक् पृथक्। मण्डलैः कपिलैश्चित्रैः सर्पाभा पञ्चपर्णिनी॥

4.30.10

पञ्चारत्निप्रमाणा च विज्ञेयाजगरी बुधैः। निष्पत्रा कनकाभासा मूले द्व्यङ्गुलसंमिता॥

4.30.11

सर्पाकारा लोहितान्ता श्वेतकापोतिरुच्यते। द्विपर्णिनीं मूलभवामरुणां कृष्णमण्डलाम्॥

4.30.12

द्व्यरत्निमात्रां जानीयाद्गोनसीं गोनसाकृतिम्। सक्षीरां रोमशां मृद्वीं रसेनेक्षुरसोपमाम्॥

4.30.13

एवंरूपरसां चापि कृष्णकापोतिमादिशेत्। कृष्णसर्पस्वरूपेण वाराही कन्दसंभवा॥

4.30.14

एकपत्रा महावीर्या भिन्नाञ्जनसमप्रभा। छत्रातिच्छत्रके विद्याद्रक्षोघ्ने कन्दसंभवे॥

4.30.15

जरामृत्युनिवारिण्यौ श्वेतकापोतिसंस्थिते। कान्तैर्द्वादशभिः पत्रैर्मयूराङ्गरुहोपमैः॥

4.30.16

कन्दजा काञ्चनक्षीरी कन्या नाम महौषधी। करेणुः सुबहुक्षीरा कन्देन गजरूपिणी॥

4.30.17

हस्तिकर्णपलाशस्य तुल्यपर्णा द्विपर्णिनी। अजास्तनाभकन्दा तु सक्षीरा श्रुपरूपिणी॥

4.30.18

अजा महौषधी ज्ञेया शङ्खकुन्देन्दुपाण्डुरा। श्वेतां विचित्रकुसुमां काकादन्या समां क्षुपाम्॥

4.30.19

चक्रकामोषधीं विद्याज्जरामृत्युनिवारिणीम्। मूलिनी पञ्चभिः पत्रैः सुरक्तांशुककोमलैः॥

4.30.20

आदित्यपर्णिनी ज्ञेया सदाआदित्यानुवर्तिनी। कनकाभा जलान्तेषु सर्वतः परिसर्पति॥

4.30.21

सक्षीरा पद्मिनीप्रख्या देवी ब्रह्मसुवर्चला। अरत्निमात्रक्षुपका पत्रैर्द्व्यङ्गुलसंमितैः॥

4.30.22

पुष्पैर्नीलोत्पलाकारैः फलैश्चाञ्जनसन्निभैः। श्रावणी महती ज्ञेया कनकाभा पयस्विनी॥

4.30.23

श्रावणी पाण्डुराभासा महाश्रावणिलक्षणा। गोलोमी चाजलोमी च रोमशे कन्दसंभवे॥

4.30.24

हंसपादीव विच्छिन्नैः पत्रैर्मूलसमुद्भवैः। अथवा शङ्खपुष्प्या च समाना सर्वरूपतः॥

4.30.25

वेतेन महताआविष्टा सर्पनिर्मोकसन्निभा। एषा वेगवती नाम जायते ह्यम्बुदक्षये॥

4.30.26

सप्तादौ सर्परूपिण्यो ह्यौषध्यो याः प्रकीर्तिताः। तासामुद्धरणं कार्यं मन्त्रेणानेन सर्वदा॥

4.30.27

महेन्द्ररामकृष्णानां ब्राह्मणानां गवामपि। तपसा तेजसा वापि प्रशाम्यध्वं शिवाय वै॥

4.30.28

नत्रेणानेन मतिमान् सर्वा एवाभिमन्त्रयेत्। अश्रद्दधानैरलसैः कृतघ्नैः पापकर्मभिः॥

4.30.29

नैवासादयितुं शक्याः सोमाः सोमसमास्तथा। पीतावशेषममृतं देवैर्ब्रह्मपुरोगमैः॥

4.30.30

निहितं सोमवीर्यासु सोमे चाप्योषधीपतौ। देवसुन्दे ह्रदवरे तथा सिन्धौ महानदे॥

4.30.31

दृश्यते च जलान्तेषु मेध्या ब्रह्मसुवर्चला। आदित्यपर्णिनी ज्ञेया तथैव हिमसंक्षये॥

4.30.32

दृश्यतेऽजगरी नित्यं गोनसी चाम्बुदागमे। काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम्॥

4.30.33

करेणुस्तत्र कन्या च छत्रातिच्छत्रके तथा। गोलोमी चाजलोमी च महती श्रावणी तथा॥

4.30.34

वसन्ते कृष्णसर्पाख्या गोनसी च प्रदृश्यते। कौशिकीं सरितं तीर्त्वा सञ्जयन्त्यास्तु पूर्वतः॥

4.30.35

क्षितिप्रदेशो वल्मीकैराचितो योजनत्रयम्। विज्ञेया तत्र कापोती श्वेता वल्मीकमूर्धसु॥

4.30.36

मलये नलसेतौ च वेगवत्यौषधी ध्रुवा। कार्तिक्यां पौर्णमास्यां च भक्षयेत्तामुपोषितः॥

4.30.37

सोमवच्चात्र वर्तेत फलं तावच्च कीर्तितम्। सर्वा विचेयास्त्वोपध्यः सोमाश्चाप्यर्बुदे गिरौ॥

4.30.38

स शृङ्गैर्देवचरितैरम्बुदानीकभेदिभिः। व्याप्तस्तीर्थैश्च विख्यातैः सिद्धर्षिसुरसेवितैः॥

4.30.39

गुहाभिर्भीमरूपाभिः सिंहोन्नादितकुक्षिभिः। विविधैर्धातुभिश्चित्रैः सर्वत्रैवोपशोभितः॥

4.30.40

नदीषु शैलेषु सरःसु चापि पुण्येष्वरण्येषु तथाआश्रमेषु। सर्वत्र सर्वाः परिमार्गितव्याः सर्वत्र भूमिर्हि वसूनि धत्ते॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc