भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 4.25

4.25.1

अथातो मिश्रकचिकित्सितं व्याख्यास्यामः॥

4.25.2

यथोवाच भगवान् धन्वन्तरिः॥

4.25.3

पाल्यामयास्तु विस्राव्या इत्युक्तं प्राङ्गिबोध तान्। परिपोटस्तथोत्पात उन्मन्थो दुःखवर्धनः॥

4.25.4

पञ्चमः परिलेही च कर्णपाल्यां गदाः स्मृताः। सौकुमार्याच्चिरोत्सृष्टे सहसाभिप्रवर्धिते॥

4.25.5

कर्णशोफो भवेत् पाल्यां सरुजः परिपोटवान्। कृष्णारुणनिभः स्तब्धः स वातात् परिपोटकः॥

4.25.6

गुर्वाभरणसंयोगात्ताडनाद्घर्षणादपि। शोफः पाल्यां भवेच्छ्यावो दाहपाकरुगन्वितः॥

4.25.7

रक्तो वा रक्तपित्ताभ्यामुत्पातः स गदो मतः। बलाद्वर्धयतः कर्णं पाल्यां वायुः प्रकुप्यति॥

4.25.8

गृहीत्वा सकफं कुर्याच्छोफं तद्वर्णवेदनम्। उन्मन्थकः सकण्डूको विकारः कफवातजः॥

4.25.9

वर्धमाने यदा कर्णे कण्डूदाहरुगन्वितः। शोफो भवति पाकश्च त्वक्स्थोऽसौ दुःखवर्धनः॥

4.25.10

कफासृक्कृमयः कुर्युः सर्षपाभा विकारिणीः। स्राविणीः पिडकाः पाल्यां कण्डूदाहरुगन्विताः॥

4.25.11

कफासृक्कृमिसंभूतः स विसर्पन्नितस्ततः। लिह्यात् सशष्कुलीं पालीं परिलेहीति स स्मृतः॥

4.25.12

पाल्यामया ह्यमी घोरा नरस्याप्रतिकारिणः। मिथ्याहारविहारस्य पालिं हिंस्युरुपेक्षिताः॥

4.25.13

तस्मादाशु भिषक् तेषु स्नेहादिक्रममाचरेत्। तथाभ्यङ्गपरीषेकप्रदेहासृग्विमोक्षणम्॥

4.25.14

सामान्यतो विशेषाच्च वक्ष्याम्यभ्यञ्जनं प्रति। खरमञ्जरियष्ट्याह्वसैन्धवामरदारुभिः॥

4.25.15

सुपिष्टैः साश्वगन्धैश्च मूलकावल्गुजैः फलैः। सर्पिस्तैलवसामज्जमधूच्छिष्टानि पाचयेत्॥

4.25.16

सक्षीराण्यथ तैः पालिं प्रदिह्यात् परिपोटके। मञ्जिष्ठातिलयष्ट्याह्वसारिवोत्पलपद्मकैः॥

4.25.17

सरोध्रैः सकदम्बैश्च बलाजम्ब्वाम्रपल्लवैः। सिद्धं धान्याम्लसंयुक्तं तैलमुत्पातनाशनम्॥

4.25.18

तालपत्र्यश्वगन्धार्कबाकुचीफलसैन्धवैः। तैलं कुलीरगोधाभ्यां वसया सह पाचितम्॥

4.25.19

सरलालाङ्गलीभ्यां च हितमुन्मन्थनाशनम्। तथाश्मन्तकजम्ब्वाम्रपत्रक्वाथेन सेचनम्॥

4.25.20

प्रपौण्डरीकमधुकमञ्जिष्ठारजनीद्वयैः। चूर्णैरुद्वर्तनैः पालीं तैलाक्तामवचूणयेत्॥

4.25.21

लाक्षाविडङ्गकल्केन तैलं पक्त्वावचारयेत्। स्विन्नां गोमयपिण्डेन प्रदिह्यात् परिलेहिके॥

4.25.22

पिष्टैर्विडङ्गैरथवा त्रिवृच्छ्यामार्कसंयुतैः। करञ्जेङ्गुदिबीजैर्वा कुटजारग्वधायुतैः॥

4.25.23

सर्वैर्वा सार्षपं तैलं सिद्धं मरिचसंयुतम्। सनिम्बपत्रैरभ्यङ्गे मधूच्छिष्टान्वितं हितम्॥

4.25.24

पालीषु व्याधियुक्तासु तन्वीषु कठिनासु च। पुष्ट्यार्थं मार्दवार्थं च कुर्यादभ्यञ्जनं त्विदम्॥

4.25.25

लोपाकानूपमज्जानं वसां तैलं नवं घृतम्। पचेद्दशगुणं क्षीरमावाप्य मधुरं गणम्॥

4.25.26

अपामार्गाश्वगन्धे च तथा लाक्षारसं शुभम्। तत्सिद्धं परिपूतं च स्वनुगुप्तं निधापयेत्॥

4.25.27

तेनाभ्यञ्ज्यात् सदा पालीं सुस्विन्नाम्तिमर्दिताम्। एतेन पाल्यो वर्धन्ते निरुजो निरुपद्रवाः॥

4.25.28

मृद्व्यः पुष्टाः समाः स्निग्धा जायन्ते भूषणक्षमाः। नीलीदलं भृङ्गरजोऽर्जुनत्वक् पिण्डीतकं कृष्णमयोरजश्च। बीजोद्भवं साहचरं च पुष्पं पथ्याक्षधात्रीसहितं विचूर्ण्य॥

4.25.29

एकीकृतं सर्वमिदं प्रमाय पङ्केन तुल्यं नलिनीभवेन। संयोज्य पक्षं कलशे निधाय लौहे घटे सद्मनि सापिधाने॥

4.25.30

अनेन तैलं विपचेद्विमिश्रं रसेन भृङ्गत्रिफलाभवेन। आसन्नपाके च परीक्षणार्थं पत्रं बलाकाभवमाक्षिपेच्च॥

4.25.31

भवेद्यदा तद्भ्रमराङ्गनीलं तदा विपक्वं विनिधाय पात्रे। कृष्णायसे मासमवस्थितं तदभ्यङ्गयोगात् पलितानि हन्यात्॥

4.25.32

सैरीयजम्ब्वर्जुनकाश्मरीजं पुष्पं तिलान्मार्कवचूतबीजे। पुनर्नवे कर्दमकण्टकार्यौ कासीसपिण्डीतकबीजसारम्॥

4.25.33

फलत्रयं लोहरजोऽञ्जनं च यष्ट्याह्वयं नीरजसारिवे च। पिष्ट्वाथ सर्वं सह मोदयन्त्या साराम्भसा बीजकसंभवेन॥

4.25.34

साराम्भसः सप्तभिरेव पश्चात् प्रस्थैः समालोड्य दशाहगुप्तम्। लौहे सुपात्रे विनिधाय तैलमक्षोद्भवं तच्च पचेत् प्रयत्नात्॥

4.25.35

पक्वं च लौहेऽभिनवे निधाय नस्यं विदध्यात् परिशुद्धकायः। अभ्यङ्गयोगैश्च नियुज्यमानं भुञ्जीत माषान् कृशरामथो वा॥

4.25.36

मासोपरिष्टाद्घनकुञ्जिताग्राः केशा भवन्ति भ्रमराञ्जनाभाः। केशास्तथान्ये खलतौ भवेयुर्जरा न चैनं सहसाभ्युपैति॥

4.25.37

बलं परं संभवतीन्दिर्याणां भवेच्च वक्त्रं वलिभिर्विमुक्तम्। नाकामिनेऽनार्थिनि नाकृताय नैवारये तैलमिदं प्रदेयम्॥

4.25.38

लाक्षा रोध्रं द्वे हरिद्रे शिलाले कुष्ठं नागं गैरिका वर्णकाश्च। मञ्जिष्ठोग्रा स्यात् सुराष्ट्रोद्भवा च पत्तङ्गं वै रोचना चाञ्जनं च॥

4.25.39

हेमाङ्गत्वक् पाण्डुपत्रं वटस्य कालीयं स्यात् पद्मकं पद्ममध्यम्। रक्तं श्वेतं चन्दनं पारदं च काकोल्यादिः क्षीरपिष्टश्च वर्गः॥

4.25.40

मेदो मज्जा सिक्थकं गोघृतं च दुग्धं क्वाथः क्षीरिणां च द्रुमाणाम्। एतत् सर्वं पक्वमैकध्यतस्तु वक्त्राभ्यङ्गे सर्पिरुक्तं प्रधानम्॥

4.25.41

हन्याद् व्यङ्गं नीलिकां चातिवृद्धां वक्त्रे जाताः स्फोटिकाश्चापि काश्चित्। पद्माकारं निर्वलीकं च वक्त्रं कुर्यादेतत् पीनगण्डं मनोज्ञम्॥

4.25.42

राज्ञामेतद्योषितां चापि नित्यं कुर्याद्वैद्यस्तत्समानां नृणां च। कुष्ठघ्नं वै सर्पिरेतत् प्रधानं येषां पादे सन्ति वैपादिकाश्च॥

4.25.43

हरीककीचूर्णमरिष्टपत्रं चूतत्वचं दाडिमपुष्पवृन्तम्। पत्रं च दद्यान्मदयन्तिकाया लेपोऽङ्गरागो नरदेवयोग्यः॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc