सुश्रुतसंहिता · अध्याय 4.26
अथातः क्षीणबलीयं वाजीकरणचिकित्सितं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
कल्यस्योदग्रवयसो वाजीकरणसेविनः। सर्वेष्वृतुष्वहरहर्व्यवायो न निवारितः॥
स्थविराणां रिरंसूनां स्त्रीणां वाल्लभ्यमिच्छताम्। योषित्प्रसङ्गात् क्षीणानां क्लीबानामल्परेतसाम्॥
विलासिनामर्थवतां रूपयौवनशालिनाम्। नृणां च बहुभार्याणां योगा वाजीकरा हिताः॥
सेवमानो यदौचित्याद्वाजीवात्यर्ह्तवेगवान्। नारीस्तर्पयते तेन वाजीकरणमुच्यते॥
भोजनानि विचित्राणि पानानि विविधानि च। वाचः श्रोत्रानुगामिन्यस्त्वचः स्पर्शसुखास्तथा॥
यामिनी सेन्दुतिलका कामिनी नवयौवना। गीतं श्रोत्रमनोहारि ताम्बूलं मदिराः स्रजः॥
गन्धा मनोज्ञा रूपाणि चित्राण्युपवनानि च। मनसश्चाप्रतीघातो वाजीकुर्वन्ति मानवम्। तैस्तैर्भावैरहृद्यैस्तु रिरंसोर्मनसि क्षते॥
द्वेष्यस्त्रीसंप्रयोगाच्च क्लैब्यं तन्मानसं स्मृतम्। कटुकाम्लोष्णलवणैरतिमात्रोपसेवितैः॥
सौम्यधातुक्षयो दृष्टः क्लैब्यं तदपरं स्मृतम्। अतिव्यवायशीलो यो न च वाजीक्रियारतः॥
ध्वजभङ्गमवाप्नोति तच्छुक्रक्षयहेतुकम्। महता मेढ्ररोगेण मर्मच्छेदेन वा पुनः॥
क्लैब्यमेतच्चतुर्थं स्यान्नॄणां पुंस्त्वोपघातजम्। जन्मप्रभृति यः क्लीबः क्लैब्यं तत् सहजं स्मृतम्॥
बलिनः क्षुब्धमनसो निरोधाद् ब्रह्मचर्यतः। षष्ठं क्लैब्यं मतं तत्तु खरशुक्रनिमित्तजम्॥
असाध्यं सहजं क्लैब्यं मर्मच्छेदाच्च यद्भवेत्। साध्यानामितरेषां तु कार्यो हेतुविपर्ययः॥
विधिर्वाजीकरो यस्तु तं प्रवक्ष्याम्यतः परम्। तिलमाषविदारीणां शालीनां चूर्णमेव वा॥
पौण्ड्रकेक्षुरसैरार्द्रं मर्दितं सैन्धवान्वितम्। वराहमेदसा युक्तां घृतेनोत्कारिकां पचेत्॥
तां भक्षयित्वा पुरुषो गच्छेत्तु प्रमदाशतम्। बस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान्॥
शिशुमारवसापक्वाः शष्कुल्यस्तिस्तैलैः कृताः। यः स्वादेत् स पुमान् गच्छेत् स्त्रीणां शतमपूर्ववत्॥
पिप्पलीलवणोपेते बस्ताण्डे क्षीरसर्पिषि। साधिते भक्षयेद्यस्तु स गच्छेत् प्रमदाशतम्॥
पिप्पलीमाषशालीनां यवगोधूमयोस्तथा। चूर्णभागैः समैस्तैस्तु घृते पूपलिकां पचेत्॥
तां भक्षयित्वा पीत्वा तु शर्करामधुरं पयः। नरश्चटकवद्गच्छेद्दशवारान्निरन्तरम्॥
विदार्याः सुकृतं चूर्णं स्वरसेनैव भावितम्। सर्पिर्मधुयुतं लीढ्वा दश स्त्रीरधिगच्छति॥
एवमामलकं चूर्णं स्वरसेनैव भावितम्। शर्करामधुसर्पिभिर्युक्तं लीढ्वा पयः पिबेत्॥
एतेनाशीतिवर्षोऽपि युवेव परिहृष्यति। पिप्पलीलवणोपेते बस्ताण्डे घृतसाधिते॥
शिशुमारस्य वा खादेत्ते तु वाजीकरे भृशम्। कुलीरकूर्मनक्राणामण्डान्येवं तु भक्षयेत्॥
महिषर्षभबस्तानां पिबेच्छुक्राणि वा नरः। अश्वत्थफलमूलत्वक्शुङ्गासिद्धं पयो नरः॥
पीत्वा सशर्कराक्षौद्रं कुलिङ्ग इव हृष्यति। विदारिमूलकल्कं तु शृतेन पयसा नरः॥
उडुम्बरसमं पीत्वा वृद्धोऽपि तरुणायते। माषाणां पलमेकं तु संयुक्तं क्षौद्रसर्पिषा॥
अवलिह्य पयः पीत्वा तेन वाजी भवेन्नरः। क्षीरपक्वांस्तु गोधूमानात्मगुप्ताफलैः सह॥
शीतान् घृतयुतान् खादेत्ततः पश्चात् पयः पिबेत्। नक्रमूषिकमण्डूकचटकाण्डकृतं घृतम्॥
पादाभ्यङ्गेन कुरुते बलं भूमिं तु न स्पृशेत्। यावत् स्पृशति नो भूमिं तावद्गच्छेन्निरन्तरम्॥
स्वय्ंगुप्तेक्षुरकयोः फलचूर्णं सशर्करम्। धारोष्णेन नरः पीत्वा पयसा न क्षयं व्रजेत्॥
उच्चटाचूर्णं पेयमेवं बलार्थिना। स्वयंगुप्ताफलैर्युक्तं माषसूपं पिबेन्नरः॥
गुप्ताफलं गोक्षुरकाच्च बीजं तथोच्चटां गोपयसा विपाच्य। खजाहतं शर्करया च युक्तं पीत्वा नरो हृष्यति सर्वरात्रम्॥
माषान् विदारीमपि सोच्चटां च क्षीरे गवां क्षौद्रघृतोपपन्नाम्। पीत्वा नरः शर्करया सुयुक्तां कुलिङ्गवद्धृष्यति सर्वरात्रम्॥
गृष्टीनां वृद्धवत्सानां माषपर्णभृतां गवाम्। यत् क्षीरं तत् प्रशंसन्ति बलकामेषु जन्तुषु॥
क्षीरमांसगणाः सर्वे काकोल्यादिश्च पूजितः। वाजीकरणहेतोर्हि तस्मात्तुत्तु प्रयोजयेत्॥
एते वाजीकरा योगाः प्रीत्यपत्यबलप्रदाः। सेव्या विशुद्धोपचितदेहैः कालाद्यपेक्षया॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0