भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 4.24

4.24.1

अथातोऽनागताबाधाप्रतिषेधं व्याख्यास्यामः॥

4.24.2

यथोवाच भगवान् धन्वन्तरिः॥

4.24.3

उत्थायोत्थाय सततं स्वस्थेनारोग्यमिच्छता। धीमता यदनुष्ठेयं तत् सर्वं संप्रवक्ष्यते॥

4.24.4

तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम्। कनिष्ठिकापरीणाहमृज्वग्रन्थितमव्रणम्॥

4.24.5

अयुग्मग्रन्थि यच्चापि प्रत्यग्रं शस्तभूमिजम्। अवेक्ष्यर्तुं च दोषं च रसं वीर्यं च योजयेत्॥

4.24.6

कषायं मधुरं तिक्तं कटुकं प्रातरुत्थितः। निम्बश्च तिक्तके श्रेष्ठः कषाये खदिरस्तथा॥

4.24.7

मधूको मधुरे श्रेष्ठः करञ्जः कटुके तथा। क्षौद्रव्योषत्रिवर्गाक्तं सतैलं सैन्धवेन च॥

4.24.8

चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत्। एकैकं घ्र्षयेद्दन्तं मृदुना कूर्चकेन च॥

4.24.9

दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन्। तद्दौर्गन्ध्योपदेहौ तु श्लेष्माणं चापकर्षति॥

4.24.10

वैशद्यमन्नाभिरुचिं सौमनस्यं करोति च। न खादेद्गलताल्वोष्ठजिह्वारोगसमुद्भवे॥

4.24.11

अथास्यपाके श्वासे च कासहिक्कावमीषु च। दुर्बलोऽजीर्णभक्तश्च मूर्च्छार्तो मदपीषितः॥

4.24.12

शिरोरुजार्तस्तृषितः श्रान्तः पानक्लमान्वितः। अर्दिती कर्णशूली च दन्तरोगी च मानवः॥

4.24.13

जिह्वानिर्लेखनं रौप्यं सौवर्णं वार्क्षमेव च। तन्मलापहरं शस्तं मृदु श्लक्ष्णं दशाङ्गुलम्॥

4.24.14

मुखवैरस्यदौर्गन्ध्यशोफजाड्यहरं सुखम्। दन्तदार्ढ्यकरं रुच्यं स्नेहगण्डूषधारणम्॥

4.24.15

क्षीरवृक्षकषायैर्वा क्षीरेण च विमिश्रितैः। भिल्लोटककषायेण तथैवामलकस्य वा॥

4.24.16

प्रक्षालयेन्मुखं नेन्त्रे स्वस्थः शीतोदकेन वा। नीलिकां मुखशोषं च पिडकां व्यङ्गमेव च॥

4.24.17

रक्तपित्तकृतान् रोगान् सद्य एव विनाशयेत्। सुखं लघु निरीक्षेत दृढं पश्यति चक्षुषा॥

4.24.18

मतं स्रोतोञ्जनं श्रेष्ठं विशुद्धं सिन्धुसंभवम्। दाहकण्डूमलघ्नं च दृष्टिक्लेदरुजापहम्॥

4.24.19

तेजोरूपावहं चैव सहते मारुतातपौ। न नेत्ररोगा जायन्ते तस्मादञ्जनमाचरेत्॥

4.24.20

भुक्तवाञ्छिरसा स्नातः श्रान्तश्छर्दनवाहनैः। रात्रौ जागरितश्चापि नाञ्ज्याज्ज्वरित एव च॥

4.24.21

कर्पूरजातीकक्कोललवङ्गकटुकाह्वयैः। सचूर्णपूगैः सहितं पत्रं ताम्बुलजं शुभम्॥

4.24.22

मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम्। हनुदन्तस्वरमलजिह्वेन्द्रियविशोधनम्॥

4.24.23

प्रसेकशमनं हृद्यं गलामयविनाशनम्। पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे॥

4.24.24

रक्तपित्तक्षतक्षीणतृष्णामूर्च्छापरीतिनाम्। रूक्षदुर्बलमर्त्यानां न हितं चास्यशोषिणाम्॥

4.24.25

शिरोगतांस्तथा रोगाञ्छिरोभङ्गोऽपकर्षति। केशानां मार्दवं दैर्घ्यं बहुत्वं स्निग्धकृष्णताम्॥

4.24.26

करोति शिरसस्तृप्तिं सुत्वक्कमपि चाननम्। सन्तर्पणं चेन्द्रियाणां शिरसः प्रतिपूरणम्॥

4.24.27

मधुकं क्षीरशुक्ला च सरलं देवदारु च। क्षुद्रकं पञ्चनामानं समभागानि संहरेत्॥

4.24.28

तेषां कल्ककषायाभ्यां चक्रतेइलं विपाचयेत्। सदैव शीतलं जन्तोर्मूर्ध्नि तैलं प्रदापयेत्॥

4.24.29

केशप्रसाधनी केश्या रजोजन्तुमलापहा। हनुमन्याशिरःकर्णशूलघ्नं कर्णपूरणम्॥

4.24.30

अभ्यङ्गो मार्दवकरः कफवातनिरोधनः। धातूनां पुष्टिजननो मृजावर्णबलप्रदः॥

4.24.31

सेकः श्रमघ्नोऽनिलहृद्भग्नसन्धिप्रसाधकः। क्षताग्निदग्धाभिहतविघृष्टानां रुजापहः॥

4.24.32

जलसिक्तस्य वर्धन्ते यथा मूलेऽङ्कुरास्तरोः। तथा धातुविवृद्धिर्हि स्नेहसिक्तस्य जायते॥

4.24.33

सिरामुखै रोमकूपैर्धमनीभिश्च तर्पयम्। शरीरबलमाधत्ते युक्तः स्नेहोऽवगाहने॥

4.24.34

तत्र प्रकृतिसात्म्यर्तुदेशदोषविकारवित्। तैलं घृतं वा मतिमान् युञ्ज्यादभ्यङ्गसेकयोः॥

4.24.35

केवलं सामदोषेषु न कथञ्चन योजयेत्। तरुणज्वर्यजीर्णी च नाभ्यक्तव्यौ कथञ्चन॥

4.24.36

तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः। पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा॥

4.24.37

शेषाणां तदहः प्रोक्ता अग्निमान्द्यादयो गदाः। सन्तर्पणसमुत्थानां रोगाणां नैव कारयेत्॥

4.24.38

शरीरायासजननं कर्म व्यायामसंज्ञितम्। तत् कृत्वा तु सुखं देहं विमृद्गीयात् समन्ततः॥

4.24.39

शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता। दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा॥

4.24.40

श्रमक्लमपिपासेष्णशीतादीनां सहिष्णुता। आरोग्यं चापि परमं व्यायामादुपजायते॥

4.24.41

न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्। न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात्॥

4.24.42

न चैनं सहसाआक्रम्य जरा समधिरोहति। स्थिरीभवति मांसं च व्यायामाभिरतस्य च॥

4.24.43

व्यायामस्विन्नगात्रस्य पद्भ्यामुद्वर्तितस्य च। व्याधयो नोपसर्पन्ति सिंहं क्षुद्रमृगा एव॥

4.24.44

वयोरूपगुणैर्हीनमपि कुर्यात् सुदर्शनम्। व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम्॥

4.24.45

विदग्धमविदग्धं वा निर्दोषं परिपच्यते। व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम्॥

4.24.46

स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः। सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः॥

4.24.47

बलस्यार्धेन कर्तव्यो व्यायामो हन्त्यतोऽन्यथा। हृदि स्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते॥

4.24.48

व्यायामं कुर्वतो जन्तोस्तद्बलार्धस्य लक्षणम्। वयोबलशरीराणि देशकालाशनानि च॥

4.24.49

समीक्ष्य कुर्याद्व्यायाममन्यथा रोगमाप्नुयात्। क्षयतृष्णारुचिच्छर्दिरक्तपित्तभ्रमक्लमाः॥

4.24.50

कासशोषज्वरश्वासा अतिव्यायामसंभवाः। रक्तपित्ती कृशः शोषी श्वासकासक्षतातुरः॥

4.24.51

भुक्तवान् स्त्रीषु च क्षीणस्तृड्भ्रमार्तश्च वर्जयेत्। उद्वर्तनं वातहरं कफमेदोविलापनम्॥

4.24.52

स्थिरीकरणमङ्गानां त्वक्प्रस्थादकरं परम्। सिरामुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम्॥

4.24.53

उद्घर्षणोत्सादनाभ्यां जायेयातामसंशयम्। उत्सादनाद्भवेत् स्त्रीणां विशेषात् कान्तिमद्वपुः॥

4.24.54

प्रहर्षसौभाग्यमृजालाघवादिगुणान्वितम्। उद्घर्षणं तु विज्ञेयं कण्डूकोष्ठानिलापहम्॥

4.24.55

ऊर्वोः संजनयत्याशु फेनकः स्थैर्यलाघवे। कण्डूकोठानिलस्तम्भमलरोगापहश्च सः॥

4.24.56

तेजनं त्वग्गतस्याग्नेः सिरामुखविवेचनम्। उद्घर्षणं त्विष्टिकया कण्डूकोठविनाशनम्॥

4.24.57

निद्रादाहश्रमहरं स्वेदकण्डूतृषापहम्। हृद्यं मलहरं श्रेष्ठं सर्वेन्द्रियविबोधनम्॥

4.24.58

तन्द्रापाप्मोपशमनं तुष्टिदं पुंस्त्ववर्धनम्। रक्तप्रसादनं चापि स्नानमग्नेश्च दीपनम्॥

4.24.59

उष्णेन शिरसः स्नानमहितं चक्षुषः सदा। शीतेन शिरसः स्नानं चक्षुष्यमिति निर्दिशेत्॥

4.24.60

श्लेष्ममारुतकोपे तु ज्ञात्वा व्याधिबलाबलम्। काममुष्णं शिरःस्नानं भैषज्यार्थं समाचरेत्॥

4.24.61

अतिशीताम्बु शीते च श्लेष्ममारुतकोपनम्। अत्युष्णमुष्णकाले च पित्तशोणितकोपनम्॥

4.24.62

तच्चातिसारज्वरितकर्णशूलानिलार्तिषु। आध्मानारोचकाजीर्णभुक्तवत्सु च गर्हितम्॥

4.24.63

सौभाग्यदं वर्णकरं प्रीत्योजोबलवर्धनम्। स्वेददौर्गन्ध्यवैवर्ण्यश्रमघ्नमनुलेपनम्॥

4.24.64

स्नानं येषां निषिद्धं तु तेषामप्यनुलेपनम्। रक्षोघ्नमथ चौजस्यं सौभाग्यकरमुत्तमम्॥

4.24.65

सुमनोम्बररत्नानां धारणं प्रीतिवर्धनम्। मुखालेपाद्दृढं चक्षुः पीनगण्डं तथाआननम्॥

4.24.66

अव्यङ्गपिडकं कान्तं भवत्यम्बुजसन्निभम्। पक्स्मलं विशदं कान्तममलोज्ज्वलमण्डलम्॥

4.24.67

नेत्रमञ्जनसंयोगाद्भवेच्चामलतारकम्। यशस्यं स्वर्ग्यमायुष्यं धनधान्यविवर्धनम्॥

4.24.68

देवतातिथिविप्राणां पूजनं गोत्रवर्धनम्। आहारः प्रीणनः सद्यो बलकृद्देहधारकः॥

4.24.69

आयुस्तेजःसमुत्साहस्मृत्योजोग्निविवर्धनः। पादप्रक्षालनं पादमलरोगश्रमापहम्॥

4.24.70

चक्षुःप्रसादनं वृष्यं रक्षोघ्नं प्रीतिवर्धनम्। निद्राकरो देहसुखश्चक्षुष्यः श्रमसुप्तिनुत्॥

4.24.71

पादत्वङ्मृदुकारी च पादाभ्यङ्गः सदा हितः। पादरोगहरं वृष्यं रक्षोघ्नं प्रीतिवर्धनम्॥

4.24.72

सुखप्रचारमोजस्यं सदा पादत्रधारणम्। अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत्॥

4.24.73

पादाभ्यामनुपानद्भ्यां सदा चङ्क्रमणं नृणाम्। पाप्मोपशमनं केशनखरोमापमार्जनम्॥

4.24.74

हर्षलाघवसौभाग्यकरमुत्साहवर्धनम्। बाणवारं मृजावर्णतेजोबलविवर्धनम्॥

4.24.75

पवित्रं केश्यमुष्णीषं वातातपरजोपहम्। वर्षानिलरजोघर्महिमादीनां निवारणम्॥

4.24.76

वर्ण्यं चक्षुष्यमौजस्यं शङ्करं छत्रधारणम्। शुनः सरीसृपव्यालविषाणिभ्यो भयापहम्॥

4.24.77

श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते। सत्त्वोत्साहबलस्थैर्यधैर्यवीर्यविवर्धनम्॥

4.24.78

अवष्टम्भकरं चापि भयघ्नं दण्डधारणम्। आस्या वर्णकफस्थौल्यसौकुमार्यकरी सुखा॥

4.24.79

अध्वा वर्णकफस्थौल्यसौकुमार्यविनाशनः। अत्यध्वा विपरीतोस्माज्जरादौर्बल्यकृच्च सः॥

4.24.80

यत्तु चङ्क्रमणं नातिदेहपीडाकरं भवेत्। तदायुर्बलमेधाग्निप्रदमिन्द्रियबोधनम्॥

4.24.81

श्रमानिलहरं वृष्यं पुष्टिनिद्राधृतिप्रदम्। सुखं शय्यासनं दुःखं विपरीतगुणं मतम्॥

4.24.82

बालव्यजनमौजस्यं मक्षिकादीनपोहति। शोषदाहश्रमस्वेदमूर्च्छाघ्नो व्यजनानिलः॥

4.24.83

प्रीतिनिद्राकरं वृष्यं कफवातश्रमापहम्। संवाहनं मांसरक्तत्वक्प्रसादकरं सुखम्॥

4.24.84

प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपक्तिनुत्। स्वेदमूर्च्छापिपासाघ्नमप्रवातमतोऽन्यथा॥

4.24.85

सुखं वातं प्रसेवेत ग्रीष्मे शरदि मानवः। निवातं ह्यायुषे सेव्यमारोग्याय च सर्वदा॥

4.24.86

आतपः पित्ततृष्णाग्निस्वेदमूर्च्छाभ्रमास्रकृत्। दाहवैवर्ण्यकारी च छाया चैतानपोहति॥

4.24.87

अग्निर्वातकफस्तम्भशीतवेपथुनाशनः। आमाभिष्यन्दजरशो रक्तपित्तप्रदूषणः॥

4.24.88

पुष्टिवर्णबलोत्साहमग्निदीप्तिमतन्द्रिताम्। करोति धातुसाम्यं च निद्रा काले निषेविता॥

4.24.89

तत्रादित एव नीचनखरोम्णा शुचिना शुक्लवाससा लघूष्णीषच्छत्रोपानत्केन दण्डपाणिना काले हितमितमधुरपूर्वाभिभाषिणा बन्धुभूतेन भूतानां गुरुवृद्धानुमतेन सुसहायेनानन्यमनसा खलूपचरितव्यं, तदपि न रात्रौ, न केशास्थिकण्टकाश्मतुषभस्मोत्करकपालाङ्गारामेध्यस्नानबलिभूमिषु, न विषमेन्द्रकीलचतुष्पथश्वभ्राणामुपरिष्टात्॥

4.24.90

न राजद्विष्टपरुषपैशुन्यानृतानि वदेत्, न देवब्राह्मणपितृपरिवादांश्च; न नरेन्द्रद्विष्टोन्मत्तपतितक्षुद्रनीचानुपासीत॥

4.24.91

वृक्षपर्वतप्रपातविषमवल्मीकदुष्टवाजिकुञ्जराद्यधिरोहणानि परिहरेत्, पूर्णनदीसमुद्राविदितपल्वलश्वभ्रकूपावतरणानि, भिन्नशून्यागारश्मशानविजनारण्यवासाग्निसंभ्रमव्यालभुजङ्गकीटसेवाश्च, ग्रामाघातकलहशस्त्रसन्निपातव्यालसरीसृपशृङ्गिसन्निकर्षांश्च॥

4.24.92

नाग्निगोगुरुब्राह्मणप्रेङ्खादम्पत्यन्तरेण यायात्। न शवमनुयायात्। देवगोब्राह्मणचैत्यध्वजरोगिपतितपापकारिणां च छायां नाक्रमेत। नास्तं गच्छन्तमुद्यन्तं वाआदित्यं वीक्षेत। गां धापयन्तीं धयन्तीं परशस्यं वा चरन्तीं न कस्मैचिदाचक्षीत, न चोल्कापातोत्पातेन्द्रधनूंषि। नाग्निं मुखेनोपधमेत्। नापो भूमिं वा पाणिपादेनाभिहन्यात्॥

4.24.93

न वेगान् धारयेद् वातमूत्रपुरीषादीनाम्। न बहिर्वेगान् ग्रामनगरदेवतायतनश्मशानचतुष्पथसलिलाशयपथिसन्निकृष्टावुत्सृजेन्न प्रकाशं न वाय्वग्निसलिलसोमार्कगोगुरुप्रतिमुखम्॥

4.24.94

न भूमिं विलिखेत्, नासंवृतमुखः सदसि जृम्भोदगारकासश्वासक्षवथूनुत्सृजेत्, न पर्यङ्किकावष्टम्भपादप्रसारणानि गुरुसन्निधौ कुर्यात्॥

4.24.95

न बालकर्णनासास्रोतोदशनाक्षिविवराण्यभिकुष्णीयात्, न वीजयेत् केशमुखनखवस्त्रगात्राणि, न गात्रनखवक्त्रवादित्रं कुर्यात्, न काष्ठलोष्टतृणादीनभिहन्याच्छिन्द्याद्भिन्द्याद्वा॥

4.24.96

न प्रतिवातातपं सेवेत, न भुक्तमात्रोऽग्निमुपासीत, नोत्कटकाल्पकाष्ठासनमध्यासीत, न ग्रीवां विषमं धारयेत्, न विषमकायः क्रियां भजेत भुञ्जीत वा, न प्रततमीक्षेत विशेषाज्ज्योतिर्भास्करसूक्ष्मचलभ्रान्तानि, न भारं शिरसा वहेत्, न स्वप्नजागरणशयनासनस्थानचङ्क्रमणयानवाहनप्रधावनलङ्घनप्लवनप्रतरणहास्यभाष्यव्यवायव्यायामादीनुचितानप्यतिसेवेत॥

4.24.97

उचितादप्यहितात् क्रमशो विरमेत्, हितमनुचितमप्यसेवेत क्रमशः, न चैकान्ततः पादहीनात्॥

4.24.98

नावाक्शिराः शयीत, न भिन्नपात्रे भुञ्जीत, न विना पात्रेण, नाञ्जलिपुटेनापः पिबेत्, काले हितमितस्निग्धमधुरप्रायमाहारं वैद्यप्रत्यवेक्षितमश्नीयात्, ग्रामगणगणिकापणिकशत्रुसत्रशठपतितभोजनानि परिकरेत्, शेषाण्यपि चानिष्टरूपरसगन्धस्पर्शशब्दमानसानि, अन्यान्येवंगुणान्यपि संभ्रमदत्तानि, (तान्यपि) मक्षिकाबालोपहतानि, नाप्रक्षालितपादो भुञ्जीत न मूत्रोच्चारपीडितो न सन्ध्ययोर्नानुपाश्रितो नातीतकालं हीनमतिमात्रं (नोद्धृतस्नेहं) चेति॥

4.24.99

न भुञ्जीतोद्धृतस्नेहं नष्टं पर्युषितं पयः। न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम्॥

4.24.100

नामुद्गयूषं नाक्षौद्रं नोष्णं नामलकैर्विना। अन्यथा जनयेत् कुष्ठविसर्पादीन् गदान् बहून्। नात्मानमुदके पश्येन्न नग्नः प्रविशेज्जलम्॥

4.24.101

द्यूतमद्यातिसेवाप्रतिभुत्वसाक्षित्वसमाह्वानगोष्ठीवादित्राणि न सेवेत, स्रजं छत्रोपानकौ कनकमतीतवासांसि न चान्यैर्धृतानि धारयेत्, ब्राह्मणमग्निं गां च नोच्छिष्टः स्पृशेत्॥

4.24.102

भवन्ति चात्र यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम्। तेषु तेषु प्रदातव्या रसास्ते ते विजानता॥

4.24.103

वर्षासु न पिबेत्तोयं पिबेच्छरदि मात्रया। वर्षसु चतुरो मासान् मात्रावदुदकं पिबेत्॥

4.24.104

उष्णं हैमे वसन्ते च कामं श्रीष्मे तु शीतलम्। हेमन्ते च वसन्ते च सीध्वरिष्टौ पिबेन्नरः॥

4.24.105

शृतशीतं पयो ग्रीष्मे प्रावृट्काले रसं पिबेत्। यूषं वर्षति, तस्यान्ते प्रपिच्छीतलं जलम्॥

4.24.106

स्वस्थ एवमतोऽन्यस्तु दोषाहारगतानुगः। स्नेहं सैन्धवचूर्णेन पिप्पलीभिश्च संयुतम्॥

4.24.107

पिबेदग्निविवृद्ध्यर्थं न च वेगान् विधारयेत्। अग्निदीप्तिकरं नॄणां रोगाणां शमनं प्रति॥

4.24.108

प्रावृट्शरद्वसन्तेषु सम्यक् स्नेहादिमाचरेत्। कफे प्रच्छर्दनं पित्ते विरेको बस्तिरीरने॥

4.24.109

शस्यते त्रिष्वपि सदा व्यायामो दोषनाशनः। भुक्तं विरुद्धमप्यन्नं व्यायामान्न प्रदुष्यति॥

4.24.110

उत्सर्गमैथुनहारशोधने स्यात्तु तन्मनाः। नेच्छेद्दोषचयात् प्राज्ञः पीडां वा कायमानसीम्॥

4.24.111

अतिस्त्रीसंप्रयोगाच्च रक्षेदात्मानमात्मवान्। शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः॥

4.24.112

अतिव्यवाजाज्जायन्ते रोगाश्चाक्षेपकादयः। आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः॥

4.24.113

स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः। त्रिभिस्त्रिभिरहोभिर्वा समीयात् प्रमदां नरः॥

4.24.114

सर्वेष्वृतुषु, घर्मेषु पक्षात् पक्षाद्व्रजेद्बुधः। रजस्वलामकामां च मलिनामप्रियां तथा॥

4.24.115

वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम्। हीनाङ्गीं गर्भिणीं द्वेष्यां योनिदोषसमन्विताम्॥

4.24.116

सगोत्रां गुरुपत्नीं च तथा प्रव्रजितामपि। सन्ध्यापर्वस्वगम्यां च नोपेयात् प्रमदां नरः॥

4.24.117

गोसर्गे चार्धरात्रे च तथा मध्यन्दिनेषु च। लज्जासमावहे देशे विवृतेऽशुद्ध एव च॥

4.24.118

क्षुधितो व्याधितश्चैव क्षुब्धचित्तश्च मानवः। वातविण्मूत्रवेगी च पिपासरतिदुर्बलः॥

4.24.119

तिर्यग्योनावयोनौ च प्राप्तशुक्रविधारणम्। दुष्टयोनौ विसर्गं तु बलवानपि वर्जयेत्॥

4.24.120

रेतसश्चातिमात्रं तु मूर्धावरणमेव च। स्थितावुत्तानशयने विशेषेणैव गर्हितम्॥

4.24.121

क्रीडायामपि मेधावी हितार्थी परिवर्जयेत्। रजस्वलां प्राप्तवतो नरस्यानियतात्मनः॥

4.24.122

दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो भवेत्। लिङ्गिनीं गुरुपत्नीं च सगोत्रामथ पर्वसु॥

4.24.123

वृद्धां च सन्ध्ययोश्चापि गच्छतो जीवितक्षयः। गर्भिण्या गर्भपीडा स्याद् व्याधितायां बलक्षयः॥

4.24.124

हीनाङ्गीं मलिनां द्वेष्यां कामं वन्ध्यामसंवृते। देशेऽशुद्धे च शुक्रस्य मनसश्च क्षयो भवेत्॥

4.24.125

क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः। स्थितश्च हानिं शुक्रस्य वायोः कोपं च विन्दति॥

4.24.126

अतिप्रसङ्गाद्भवति शोषः शुक्रक्षयावहः। व्याधितस्य रुजा प्लीह्नि मृत्युर्मूर्च्छा च जायते॥

4.24.127

प्रयूषस्यर्धरात्रे च वातपित्ते प्रकुप्यतः। तिर्यग्योनावयनौ च दुष्टयोनौ तथैव च॥

4.24.128

उपदंशस्तथा वायोः कोपः शुक्रस्य च क्षयः। उच्चारिते मूत्रिते च रेतसश्च विधारणे॥

4.24.129

उत्ताने च भवेच्छीघ्रं शुक्राश्मर्यास्तु संभवः। सर्वं परिहरेत्तस्मादेतल्लोकद्वयेऽहितम्॥

4.24.130

शुक्रं चोपस्थितं मोहान्न सन्धार्यं कथंचन। वयोरूपगुणोपेतां तुल्यशीलां कुलान्विताम्॥

4.24.131

अभिकामोऽभिकामां तु हृष्टो हृष्टामलङ्कृताम्। सेवेत प्रमदां युक्त्या वाजीकरणबृंहितः॥

4.24.132

भक्ष्याः सशर्कराः क्षीरं ससितं रस एव च। स्नानं सव्यजनं स्वप्नो व्यवायान्ते हितानि तु॥

4.24.133

मुखमात्रं समासेन सद्वृत्तस्यैतदीरितम्। आरोग्यमायुरर्थो वा गासद्भिः प्राप्यते नृभिः॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc