भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 4.20

4.20.1

अथातः क्षुद्ररोगचिकित्सितं व्याख्यास्यामः॥

4.20.2

यथोवाच भगवान् धन्वन्तरिः॥

4.20.3

तत्राजगल्लिकामामां जलौकोभिरुपाचरेत्। शुक्तिश्रुघ्नीयवक्षारकल्कैश्चालेपयेद्भिषक्॥

4.20.4

श्यामालाङ्गलकिपाठाकल्कैर्वापि विचक्षणः। पक्वां व्रणविधानेन यथोक्तेन प्रसाधयेत्॥

4.20.5

अन्धालजीं यवप्रख्यां पनसीं कच्छपीं तथा। पाषाणगर्दभं चैव पूर्वं स्वेदेन योजयेत्॥

4.20.6

मनःशिलातालकुष्ठदारुकल्कैः प्रलेपयेत्। परिपाकगतान् भित्त्वा व्रणवत् समुपाचरेत्॥

4.20.7

विवृतामिन्द्रवृद्धां च गर्दभीं जालगर्दभम्। इरिवेल्लीं गन्धनाम्नीं कक्षां विस्फोटकांस्तथा॥

4.20.8

पित्तजस्य विसर्पस्य क्रियया साधयेद्भिषक्। रोपयेत् सर्पिषा पक्वान् सिद्धेन मधुरौषधैः॥

4.20.9

चिप्य(प्प)मुष्णाम्बुना सिक्तमुत्कृत्य स्रावयेद्भिषक्। चक्रतैलेन चाभ्यज्य सर्जचूर्णेन चूर्णयेत्॥

4.20.10

बन्धेनोपचरेच्चैनमशक्यं चाग्निना दहेत्। मधुरौषधसिद्धेन ततस्तैलेन रोपयेत्॥

4.20.11

कुनखे विधिरप्येष कार्यो हि भिषजा भवेत्। उपाचरेदनुशयीं श्लेष्मविद्रधिवद्भिषक्॥

4.20.12

विदारिकां समभ्यज्य स्विन्नां विम्लाप्य लेपयेत्। नगवृत्तिकवर्षाभूबिल्वमूलैः सुपेषितैः॥

4.20.13

व्रणभावगतायां वा कृत्वा संशोधनक्रियाम्। रोपणार्थं हितं तैलं कषायमधुरैः शृतम्॥

4.20.14

प्रच्छानैर्वा जलौकोभिः स्राव्यापक्वा विदारिका। अजकर्णैः सपालाशमूलकल्कैः प्रलेपयेत्॥

4.20.15

पक्वां विदार्य शस्त्रेण पटोलपिचुमर्दयोः। कल्केन तिलयुक्तेन सर्पिर्मिश्रेण लेपयेत्॥

4.20.16

वद्ध्वा च क्षीरवृक्षस्य कषायैः खदिरस्य च। व्रणं प्रक्षालयेच्छुद्धां ततस्तां रोपयेत् पुनः॥

4.20.17

मेदोऽर्बुदविधानेन साधयेच्छर्करार्बुदम्। कच्छूं विचर्चिकां पामां कुष्ठवत् समुपाचरेत्॥

4.20.18

लेपश्च शस्यते सिक्थशताह्वागौरसर्षपैः। वचादार्वीसर्षपैर्वा तैलं वा नक्तमालजम्॥

4.20.19

सारतैलमथाभ्यङ्गे कुर्वीत कटुकैः शृतम्। पाददार्यां सिरां विद्ध्वा स्वेदाभ्यङ्गौ प्रयोजयेत्॥

4.20.20

मधूच्छिष्टवसामज्जसर्जचूर्णघृतैः कृतः। यवाह्वगैरिकोन्मिश्रैः पादलेपः प्रशस्यते॥

4.20.21

पादौ सिक्त्वाआरनालेन लेपनं ह्यलसे हितम्। कल्कीकृतैर्निम्बतिलकासीसालैः ससैन्धवैः॥

4.20.22

लाक्षारसोऽभया वापि कार्यं स्याद्रक्तमोक्षणम्। सिद्धं रसे कण्टकार्यास्तैलं वा सार्षपं हितम्॥

4.20.23

कासीसरोचनशिलाचूर्णैर्वा प्रतिसारणम्। उत्कृत्य दग्ध्वा स्नेहेन जयेत् कदरसंज्ञकम्॥

4.20.24

इन्द्रलुप्ते सिरां मूर्ध्नि स्निग्धस्विन्नस्य मोक्षयेत्। कल्कैः समरिचैर्दिह्याच्छिलाकासीसतुत्थकैः॥

4.20.25

कटन्नटदारुकल्कैर्लेपनं वा प्रशस्यते। प्रच्छयित्वावगाढं वा गुञ्जाकल्कैर्मुहुर्मुहुः॥

4.20.26

लेपयेदुपशान्त्यर्थं कुर्याद्वापि रसायनम्। मालतीकरवीराग्निनक्तमालविपाचितम्॥

4.20.27

तैलमभ्यञ्जने शस्तमिन्द्रलुप्तापहं परम्। अरूंषिकां हृते रक्ते सेचयेन्निम्बवारिणा॥

4.20.28

दिह्यात् सैन्धवयुक्तेन वाजिविष्ठारसेन तु। हरितालनिशानिम्बकल्कैर्वा सपटोलजैः॥

4.20.29

यष्टीनीलोत्पलैरण्डमार्कवैर्वा प्रलेपयेत्। इन्द्रलुप्तापहं तैलमभ्यङ्गे च प्रशस्यते। सिरां दारुणके विद्ध्वा स्निग्धस्विन्नस्य मूर्धनि॥

4.20.30

अवपीडं शिरोबस्तिमभ्यङ्गं च प्रयोजयेत्। क्षालने कोद्रवतृणक्षारतोयं प्रशस्यते॥

4.20.31

उपरिष्टात् र्पवक्ष्यामि विधिं पलितनाशनम्। मसूरिकायां कुष्ठघ्नलेपनादिक्रिया हिता॥

4.20.32

पित्तश्लेष्मविसर्पोक्ता क्रिया वा संप्रशस्यते। जतुमणिं समुत्कृत्य मषकं तिलकालकम्॥

4.20.33

क्षारेण प्रदहेद्युक्त्या वह्निना वा शनैः शनैः। न्यच्छे व्यङ्गे सिरामोक्षो नीलिकायां च शस्यते॥

4.20.34

यथान्यायं यथाभ्यासं लालाट्यादिसिराव्यधः। घृष्ट्वा दिह्यात्त्वचं पिष्ट्वा क्षीरिणां क्षीरसंयुताम्॥

4.20.35

बलतिबलयष्ट्याह्वरजनीर्वा प्रलेपनम्। पयस्यागुरुकालीयलेपनं वा सगैरिकम्॥

4.20.36

क्षौद्राज्ययुक्तया लिम्पेद्दंष्ट्रया शूकरस्य च। कपित्थराजादनयोः कल्कं वा हितमुच्यते॥

4.20.37

यौवने पिडकास्वेष विशेषाच्छर्दनं हितम्। लेपनं च वचारोध्रसैन्धवैः सर्षपान्वितैः॥

4.20.38

कुस्तुम्बुरुवचालोध्रकुष्ठर्वा लेपनं हितम्। पद्मिनीकण्टके रोगे छर्दयेन्निम्बवारिणा॥

4.20.39

तेनैव सिद्धं सक्षौद्रं सर्पिःपानं प्रदापयेत्। निम्बारग्वधयोः कल्को हित उत्सादने भवेत्॥

4.20.40

परिवृत्तिं घृताभ्यक्तां सुस्विन्नामुपनाहयेत्। ततोऽभ्यज्य शनैश्चर्म चानयेत् पीडयेन्मणिम्॥

4.20.41

प्रविष्टे च मणौ चर्म स्वेदयेदुपनाहनैः। त्रिरात्रं पञ्चरात्रं वा वातघ्नैः साल्वणादिभिः॥

4.20.42

दद्याद्वातहरान् बस्तीन् स्निग्धान्यन्नानि भोजयेत्। वपाटिकां जयेदेवं यथादोषं चिकित्सकः॥

4.20.43

निरुद्धप्रकशे नाडीं लौहीमुभयतोमुखीम्। दारवीं वा जतुकृतां घृताभ्यक्तां प्रवेशयेत्॥

4.20.44

परिषेके वसामज्जशिशुमारवराहयोः। चक्रतैलं तथा योज्यं वातघ्नद्रव्यसंयुतम्॥

4.20.45

त्र्यहात्त्र्यहात् स्थूलतरां सम्यङ्नाडीं प्रवेशयेत्। स्रोतो विवर्धयेदेवं स्निग्धमन्नं च भोजयेत्॥

4.20.46

भित्त्वा वा सेवनीं मुक्त्वा सद्यःक्षतवदाचरेत्। सन्निरुद्धगुदं रोगं वल्मीकं वह्निरोहिणीम्॥

4.20.47

प्रत्याख्याय यथायोगं चिकित्सितमथाचरेत्। विसर्पोक्तेन विधिना साधयेदग्निरोहिणीम्॥

4.20.48

सन्निरुद्धगुदे योज्या निरुद्धप्रकशक्रिया। शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसाधयेत्॥

4.20.49

विधानेनार्बुदोक्तेन शोधयित्वा च रोपयेत्। वल्मीकं तु भवेद्यस्य नातिवृद्धममर्मजम्॥

4.20.50

तत्र संशोधनं कृत्वा शोणितं मोक्षयेद्भिषक्। कुलत्थिकाया मूलैश्च गुडूच्या लवणेन च॥

4.20.51

आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च। श्यामामूलैः सपललैः शक्तुमिश्रैः प्रलेपयेत्॥

4.20.52

सुस्निग्धैश्च सुखोष्णैश्च भिषक् तमुपनाहयेत्। पक्वं वा तद्विजानीयाद्गतीः सर्वा यथाक्रमम्॥

4.20.53

अभिज्ञाय ततश्छित्त्वा प्रदहेन्मतिमान् भिषक्। संशोध्य दुष्टमांसानि क्षारेण प्रतिसारयेत्॥

4.20.54

व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान् भिषक्। सुमना ग्रन्थयश्चैव भल्लातकमनःशिले॥

4.20.55

कालानुसारी सूक्ष्मैला चन्दनागुरुणी तथा। एतैः सिद्धं निम्बतैलं वल्मीके रोपणं हितम्॥

4.20.56

पाणिपादोपरिष्टात्तु छिद्रैर्बहुभिरावृतम्। वल्मीकं यत् सशोफं स्याद्वर्ज्यं तत्तु विजानता॥

4.20.57

धात्र्याः स्तन्यं शोधयित्वा बाले साध्याहिपूतना। पटोलपत्रत्रिफलारसाञ्जनविपाचितम्॥

4.20.58

पीतं घृतं नाशयति कृच्छ्रामप्यहिपूतनाम्। त्रिफलाकोलखदिरकषायं व्रणरोपणम्॥

4.20.59

कासीसरोचनातुत्थहरितालरसाञ्जनैः। लेपोऽम्लपिष्टो बदरीत्वग्वा सैन्धवसंयुता॥

4.20.60

कपालतुत्थजं चूर्णं चूर्णकाले प्रयोजयेत्। चिकित्सेन्मुष्ककच्छूं चाप्यहिपूतनपामवत्॥

4.20.61

गुदभ्रंशे गुदं स्विन्नं स्नेहाभ्यक्तं प्रवेशयेत्। कारयेद्गोफणाबन्धं मध्यच्छिद्रेण चर्मणा॥

4.20.62

विनिर्गमार्थं वायोश्च स्वेदयेच्च मुहुर्मुहुः। क्षीरे महत्पञ्चमूलं मूषिकां चान्त्रवर्जिताम्॥

4.20.63

पक्त्वा तस्मिन् पचेतैलं वातघ्नौषधसंयुतम्। गुदभ्रंशमिदं कृच्छ्रं पानाभ्यङ्गात् प्रसाधयेत्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc