सुश्रुतसंहिता · अध्याय 4.19
अथातो वृद्ध्युपदंशश्लीपदचिकित्सितं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
अन्त्रवृद्ध्या विना षड्या वृद्धयस्तासु वर्जयेत्। अश्वादियानं व्यायामं मैथुनं वेगनिग्रहम्॥
अत्यासनं चङ्क्रमणमुपवासं गुरूणि च। तत्रादितो वातवृद्धौ त्रैवृतस्निग्धमातुरम्॥
स्विन्नं चैनं यथान्यायं पाययेत विरेचनम्। कोशाम्रतिल्वकैरण्डफलतैलानि वा नरम्॥
सक्षीरं वा पिबेन्मासं तैलमेरण्डसंभवम्। ततः कालेऽनिलघ्नानां क्वाथैः कल्कैश्च बुद्धिमान्॥
निरूहयेन्निरूढं च भुक्तवन्तं रसौदनम्। यष्टीमधुकसिद्धेन ततस्तैलेन योजयेत्॥
स्नेहोपनाहौ कुर्याच्च प्रदेहांश्चानिलापहान्। विदग्धां पाचयित्वा वा सेवनीं परिवर्जयेत्॥
भिन्द्यात्ततः प्रभिन्नायां यथोक्तं क्रममाचरेत्। पित्तजायामपक्वायां पित्तग्रन्थिक्रमो हितः॥
पक्वां वा भेदयेद्भिन्नां शोधयेत् क्षौद्रसर्पिषा। शुद्धायां च भिषग्दद्यात्तैलं कल्कं च रोपणम्॥
रक्तजायां जलौकोभिः शोणितं निर्हरेद्भिषक्। पिबेद्विरेचनं वापि शर्कराक्षौद्रसंयुतम्॥
पित्तग्रन्थिक्रमं कुर्यादामे पक्वे च सर्वदा। वृद्धिं कफात्मिकामुष्णैर्मूत्रपिष्टैः प्रलेपयेत्॥
पीतदारुकषायं च पिबेन्मूत्रेण संयुतम्। विम्लापनादृते वापि श्लेष्मग्रन्थिक्रमो हितः॥
पक्वायां च विभिन्नायां तैलं शोधनमिष्यते। सुमनारुष्कराङ्कोठसप्तपर्णेषु साधितम्॥
मेदःसमुत्थां संस्वेद्य लेपयेत् सुरसादिना। शिरोविरेकद्रव्यैर्वा सुखोष्णैर्मूत्रसंयुतैः॥
स्विन्नां चावेष्ट्य पट्टेन समाश्वास्य तु मानवम्। रक्षन् फले सेवनीं च वृद्धिपत्रेण दारयेत्॥
मेदस्ततः समुद्धृत्य दद्यात् कासीससैन्धवे। बध्नीयाच्च यथोद्दिष्टं शुद्धे तैलं च दापयेत्॥
मनःशिलाललवणैः सिद्धमारुष्करेषु च। मूत्रजां स्वेदयित्वा तु वस्त्रपट्टेन वेष्टयेत्॥
सेवन्याः पार्श्वतोऽधस्ताद्विध्येद् व्रीहिमुखेन तु। अथात्र द्विमुखां नाडीं दत्त्वा विस्रावयेद्भिषक्॥
मूत्रं नाडीमथोद्धृत्य स्थगिकाबन्धमाचरेत्। शुद्धायां रोपणं दद्याद्वर्जयेदन्त्रहैतुकीम्॥
अप्राप्तफलकोषायां वातवृद्धिक्रमो हितः। तत्र या वङ्खणस्था तां दहेदर्धेन्दुवत्त्रया॥
सम्यङ्मार्गावरोधार्थं कोशप्राप्तां तु वर्जयेत्। त्वचं भित्त्वाङ्गुष्ठमध्ये दहेच्चाङ्गविपर्ययात्॥
अनेनैव विधानेन वृद्धी वातकफात्मिके। प्रदहेत् प्रयतः किंतु स्नायुच्छेदोऽधिकस्तयोः॥
शङ्खोपरि च कर्णान्ते त्यक्त्वा यत्नेन सेवनीम्। व्यत्यासाद्वा सिरां विध्येदन्त्रवृद्धिनिवृत्तये॥
उपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिनः। सिरां विध्येन्मेढ्रमध्ये पातयेद्वा जलौकसः॥
हरेदुभयतश्चापि दोषानत्यर्थमुच्छ्रितान्। सद्योऽपहृतदोषस्य रुक्शोफावुपशाम्यतः॥
यदि वा दुर्बलो जन्तुर्न वा प्राप्तं विरेचनम्। निरूहेण हरेत्तस्य दोषानत्यर्थमुच्छ्रितान्॥
प्रपौण्डरीकयष्ट्याह्ववर्षाभूकुष्ठदारुभिः। सरलागुरुरास्नाभिर्वातजं संप्रलेपयेत्॥
निचुलैरण्डबीजानि यवगोधूमसक्तवः। एतैश्च वातजं स्निग्धैः सुखोष्णैः संप्रलेपयेत्॥
प्रपौण्डरीकपूर्वैश्च द्रव्यैः सेकः प्रशस्यते। गौरिकाञ्जनयष्ट्याह्वारिवोशीरपद्मकैः॥
सचन्दनोत्पलैः स्निग्धैः पैत्तिकं संप्रलेपयेत्। पद्मोत्पलमृणालैश्च ससर्जार्जुनवेतसैः॥
सर्पिःस्निग्धैः समधुकैः पैत्तिकं संप्रलेपयेत्। सेचयेच्च घृतक्षीरशर्करेक्षुअधूदकैः॥
अथवापि सुशीतेन कषायेण वटादिना। सालाश्वकर्णाजकर्णधवत्वग्भिः कफोत्थितम्॥
सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत्। रजन्यतिविषामुस्तासुरासुरदारुभिः॥
सप्त्रपाठापत्तूरैरथवा संप्रलेपयेत्। सुरसारग्वधाद्योश्च क्वाथाभ्यां परिबेचयेत्॥
एवं संशोधनालेपसेकशोणितमोक्षणैः। प्रतिकुर्यात् क्रियायोगैः प्राक्स्थानोक्तैर्हितैरपि॥
न याति च यथा पाकं प्रयतेत तथा भिषक्। विदग्धैस्तु सिरास्नायुत्वङ्मांसैः क्षीयते ध्वजः॥
शस्त्रेणोपचरेच्चापि पाकमागतमाशु वै। तदापोह्य तिलैः सर्पिःक्षौद्रयुक्तैः प्रलेपयेत्॥
करवीरस्य पत्राणि जात्यारग्वधयोस्तथा। प्रक्षालने प्रयोज्यानि वैजयन्त्यर्कयोरपि॥
सौराष्ट्रीं गैरिकं तुत्थं पुष्पकासीससैन्धवम्। रोध्रं रसाञ्जनं दार्वीं हरितालं मनःशिलाम्॥
हरेणुकैले च तथा सूक्ष्मचूर्णानि कारयेत्। तच्चूर्णं क्षौद्रसंयुक्तमुपदंशेषु पूजितम्॥
जम्ब्वाम्रसुमनानिम्बश्वेतकाम्बोजिपल्लवाः। शल्लकीबदरीबिल्वपलाशतिनिशत्वचः॥
क्षीरिणां च त्वचो योज्याः क्वाथे त्रिफलया सह। तेन क्वाथेन नियतं व्रणं प्राक्षालयेद्भिषक्॥
अस्मिन्नेव कषाये तु तैलं धीरो विपाचयेत्। गोजीविडङ्गयष्टीभिः सर्वगन्धैश्च संयुतम्॥
एतत् सर्वोपदंशेषु श्रेष्ठं रोपणमिष्यते। स्वर्जिकातुत्थकासीसं शैलेयं च रसाञ्जनम्॥
मनःशिलासमैश्चूर्णं व्रणवीस्शर्पनाशनम्। गुन्द्रां दग्ध्वा कृतं भस्म हरितालं मनःशिला॥
उपदंशबिसर्पाणामेतच्छन्तिकरं परम्। मार्कवस्त्रिफला दन्ती ताम्रचूर्णमयोरजः॥
उपदंशं निहन्त्येष वृक्षमिन्द्राशनिर्यथा। उपदंशद्वयेऽप्येतां प्रत्याख्यायाचरेत् क्रियाम्॥
तयोरेव च या योग्या वीक्ष्य दोषबलाबलम्। उपदंशे विशेषेण शृणु भूयस्त्रिदोषजे॥
दुष्टव्रणविधिं कुर्यात् कुथितं मेहनं त्यजेत्। जम्ब्वोष्ठेनाग्निवर्णेन पश्चाच्छेषं दहेद्भिषक्॥
सम्यग्दग्धं च विज्ञाय मधुसर्पिः प्रयोजयेत्। शुद्धे च रोपणं दद्यात् कल्कं तैलं हितं च यत्॥
स्नेहस्वेदोपपन्ने तु श्लीपदेऽनिलने भिषक्। कृत्वा गुल्फोपरि सिरां विध्येत्तु चतुरङ्गुले॥
समाप्यायितदेहं च बस्तिभिः समुपाचरेत्। मासमेरण्डजं तैलं पिबेन्मूत्रेण संयुतम्॥
पयसौदनमश्नीयान्नागरक्वथितेन च। तैवृतं चोपयुञ्जीत शस्तो दाहस्तथाग्निना॥
गुल्फस्याधः सिरां विध्येच्छ्लीपदे पित्तसंभवे। पीतघ्नीं च क्रियां कुर्यात् पित्तार्बुदविसर्पवत्॥
सिरां सुविदितां विध्येदङ्गुष्ठे श्लैष्मिके भिषक्। मधुयुक्तानि चाभीक्ष्णं कषायाणि पिबेन्नरः॥
पिबेद्वाप्यभयाकल्कं मूत्रेणान्यतमेन च। कटुकाममृतां शुण्ठीं विडङ्गं दारु चित्रकम्॥
हितं वा लेपने नित्यं भद्रदारु सचित्रकम्। विडङ्गमरिचार्केषु नागरे चित्रकेऽथवा॥
भद्रदार्वेलुकाख्ये च सर्वेषु लवणेषु च। तैलं पक्वं पिबेद्वापि यवान्नं च हितं सदा॥
पिबेत् सर्षपतैलं वा श्लीपदानां निवृत्तये। पूतीकरञ्जपत्राणां रसं वापि यथाबलम्॥
अनेनैव विधानेन पुत्रञ्जीवकजं रसम्। प्रयुञ्जीत भिषक् प्राज्ञः कालसात्म्यविभागवित्॥
केवुकाकन्दनिर्यासं लवणं त्वथ पाकिमम्। रसं दत्त्वाथ पूर्वोक्तं पेयमेतद्भिषग्जितम्॥
काकादनीं काकजङ्घां बृहतीं कण्टकारिकाम्। कदम्बपुष्पीं मन्दारीं लम्बां शुकनसां तथा॥
दग्ध्वा मूत्रेण तद्भस्म स्रावयेत् क्षारकल्पवत्। तत्र दद्यात् प्रतीवापं काकोदुम्बरिकारसम्॥
मदनाच्च फलात् क्वाथं शुकाख्यस्वरसं तथा। एष क्षारस्तु पानीयः श्लीपदं हन्ति सेवितः॥
अपचीं गलगण्डं च ग्रहणीदोषमेव च। भक्तस्यानशनं चैव हन्यात् सर्वविषाणि च॥
एष्वेव तैलं संसिद्धं नस्याभ्यङ्गेषु पूजितम्। एतानेवामयान् हन्ति ये च दुष्टव्रणा नृणाम्॥
द्रवन्तीं त्रिवृतां दन्तीं नीलीं श्यामां तथैव च। सप्तलां शङ्खिनीं चैव दग्ध्वा मूत्रेण गालयेत्॥
दद्याच्च त्रिफलाक्वाथमेष क्षारस्तु साधितः। अधो गच्छति पीतस्तु पूर्वैश्चाप्याशिषः समाः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0