भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 4.21

4.21.1

अथातः शूकदोषचिकित्सितं व्याख्यास्यामः॥

4.21.2

यथोवाच भगवान् धन्वन्तरिः॥

4.21.3

संलिख्य सर्षपीं सम्यक् कषायैरवचूर्णयेत्। कषायेष्वेव तैलं च कुर्वीत व्रणरोपणम्॥

4.21.4

अष्ठीलिकां जलौकोभिर्ग्राहयेच्च पुनः पुनः। तथा चानुपशाम्यन्तीं कफग्रन्थिवदुद्धरेत्॥

4.21.5

स्वेदयेद्ग्रथितं शश्वन्नाडीस्वेदेन बुद्धिमान्। सुखोष्णैरुपनाहैश्च सुस्निग्धैरुपनाहयेत्॥

4.21.6

कुम्भीकां पाकमापन्नां भिन्द्याच्छुद्धां तु रोपयेत्। तैलेन त्रिफलालोध्रतिन्दुकाम्रातकेन तु॥

4.21.7

ग्राहयित्वा जलौकोभिरलजीं सेचयेत्ततः। कषायैस्तेषु सिद्धं च तैलं रोपणमिष्यते॥

4.21.8

बलातैलेन कोष्णेन मृदितं परिषेचयेत्। भधुरैः सर्पिषा स्निग्धैः सुखोष्णैरुपनाहयेत्॥

4.21.9

संमूढपिडकां क्षिप्रं जलौकोभिरुपाचरेत्। भित्त्वा पर्यागतां चापि लेपयेत् क्षौद्रसर्पिषा॥

4.21.10

अवमन्थे गते पाकं भिन्ने तैलं विधीयते। धवाश्वकर्णपत्तङ्गसल्लकीतिन्दुकीकृतम्॥

4.21.11

क्रियां पुष्करिकायां तु शीतां सर्वां प्रयोजयेत्। जलौकोभिर्हरेच्चासृक् सर्पिषा चावसेचयेत्॥

4.21.12

स्पर्शहान्यां हरेद्रक्तं प्रदिह्यान्मधुरैरपि। क्षीरेक्षुरसर्पिर्भिर् सेचयेच्च सुशीतलैः॥

4.21.13

पिडकामुत्तमाख्यां च बडिशेनोद्धरेद्भिषक्। उद्धृत्य मधुसंयुक्तैः कषायैरवचूर्णयेत्॥

4.21.14

रसक्रिया विधातव्या लिखिते शतपोनके। पृथक्पर्ण्यादिसिद्धं च देयं तैलमनन्तरम्॥

4.21.15

क्रियां कुर्याद्भिषक् प्राज्ञस्त्वक्पाकस्य विसर्पवत्। रक्तविद्रधिवच्चापि क्रिया शोणितजेऽर्बुदे॥

4.21.16

कषायकल्कसर्पींषि तैलं चूर्णं रसक्रियाम्। शोधनं रोपणं चैव वीक्ष्य वीक्ष्यावचारयेत्॥

4.21.17

हितं च सर्पिषः पानं पथ्यं चापि चिरेचनम्। हितः शोणितमोक्षश्च यच्चापि लघु भोजनम्॥

4.21.18

अर्बुदं मांसपाकं च विद्रधिं तिलकालकम्। प्रत्याख्याय प्रकुर्वीत भिषक् सम्यक् प्रतिक्रियाम्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc