सुश्रुतसंहिता · अध्याय 4.18
अथातो ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
ग्रन्थिष्वथामेषु भिषग्विदध्याच्छोफक्रियां विस्तरशो विधिज्ञः। रक्षेद्बलं चापि नरस्य नित्यं तद्रक्षितं व्याधिबलं निहन्ति॥
तैलं पिबेत् सर्पिरथो द्वयं वा दत्त्वा वसां वा त्रिवृतं विदध्यात्। अपेहिवातादशमूलसिद्धं वैद्यश्चतुःस्नेहमथो द्वयं वा॥
हिंस्राथ रोहिण्यमृताथ भर्गी श्योनाकबिल्वागुरुकृष्णगन्धाः। गोजी च पिष्टा सह तालपत्र्या ग्रन्थौ विधेयोऽनिलजे प्रलेपः॥
स्वेदोपनाहान् विविधांश्च कुर्यात्तथा प्रसिद्धानपरांश्च लेपान्। विदार्य वा पक्वमपोह्य पूयं प्रक्षाल्य बिल्वार्कनरेन्द्रतोयैः॥
तिलैः सपञ्चाङ्गुलपत्रमिश्रैः संशोधयेत् सैन्धवसंप्रयुक्तैः। शुद्धं व्रणं वाप्युपरोपयेत्तु तैलेन रास्नासरलान्वितेन॥
विडङ्गयष्टीमधुकामृताभिः सिद्धेन वा क्षीरसमन्वितेन। जलौकसः पित्तकृते हितास्तु क्षीरोदकाभ्यां परिबेचनं च॥
काकोलिवर्गस्य च शीतलानि पिबेत् कषायाणि सशर्कराणि। द्राक्षारसेनेक्षुरसेन वापि चूर्णं पिबेच्चापि हरीतकीनाम्॥
मधूकजम्ब्वर्जुनवेतसानां त्वग्भिः प्रदेहानवचारयेत। सशर्करैर्वा तृणशून्यकन्दैर्दिह्यादभीक्ष्णं मुचुलुन्दजैर्वा॥
विदार्य वा पक्वमपोह्य पूयं धावेत् कषायेण वनस्पतीनाम्। तिलैः सयष्टीमधुकैर्विशोध्य सर्पिः प्रयोज्यं मधुरैर्विपक्वम्॥
हृतेषु दोषेषु यथानुपूर्व्या ग्रन्थौ भिषक् श्लेष्मसमुत्थिते तु। स्विन्नस्य विम्लापनमेव कुर्यादङ्गुष्ठलोहोपलवेणुदण्डैः॥
विकङ्कतारग्वधकाकणन्तीकाकादनीतापसवृक्षमूलैः। आलेपयेत् पिण्डफलार्कभार्गीकरञ्जकालामदनैश्च विद्वान्॥
अमर्मजातं शममप्रयान्तमपक्वमेवापहरेद्विदार्य। दहेत् स्थिते चासृजि सिद्धकर्मा सद्यःक्षतोक्तं च विधिं विदध्यात्॥
या मांसकन्द्यः कठिना बृहत्यस्तास्वेष योज्यश्च विधिर्विधिज्ञैः। शस्त्रेण वाआपाठ्य सुपक्वमाशु प्रक्षालयेत् पथ्यतमैः कषायैः॥
संशोधनैस्तं च विशोधयेत्तु क्षारोत्तरैः क्षौद्रगुडप्रगाढैः। शुद्धे च तैलं त्ववचारणीयं विडङ्गपाठारजनीविपक्वम्॥
मेदःसमुत्थे तिलकल्कदिग्धं दत्त्वोपरिष्टाद्विगुणं पटान्तम्। हुताशतप्तेन मुहुः प्रमृज्याल्लोहेन धीमानदहन् हिताय॥
प्रलिप्य दार्वीमथ लाक्षया वा प्रतप्तया स्वेदनमस्य कार्यम्। निपात्य वा शस्त्रमपोह्य मेदो दहेत् सुपक्वं त्वथवा विदार्य॥
प्रक्षाल्य मूत्रेण तिलैः सुपिष्टैः सुवर्चिकाद्यैर्हरितालमिश्रैः। ससैन्धवैः क्षौद्रघृतप्रगाढैः क्षारोत्तरैरेनमभिप्रशोध्य॥
तैलं विदद्याद्द्विकरञ्जगुञ्जावंशावलेखेङ्गुदमूत्रसिद्धम्। जीमूतकैः कोशवतीफलैश्च दन्तीद्रवन्तीत्रिवृतासु चैव॥
सर्पिः कृतं हन्त्यपचीं प्रवृद्धां द्विधा प्रवृत्तं तदुदारवीर्यम्। निर्गुण्डिजातीबरिहिष्ठयुक्तं जीमूतकं माक्षिकसैन्धवाढ्यम्॥
अभिप्रतप्तं वमनं प्रगाढं दुष्टापचीषूत्तममादिशन्ति। कैडर्यबिम्बीकरवीरसिद्धं तैलं हितं मूर्धविरेचनं च॥
शास्वोटकस्य स्वरसेन सिद्धं तैलं हितं नस्यविरेचनेषु। मधूकसारश्च हितोऽवपीडे फलानि शिग्रोः खरमञ्जरेर्वा॥
ग्रन्थीनमर्मप्रभवानपक्वानुद्धृत्य चाग्निं विदधीत पश्चात्। क्षारेण वापि प्रतिसारयेत्तु संलिख्य शस्त्रेण यथोपदेशम्॥
पार्ष्णि प्रति द्वे दश चाङ्गुलानि मित्वेन्द्रबस्तिं परिवर्ज्य धीमान्। विदार्य मत्स्याण्डनिभानि वैद्यो निष्कृष्य जालान्यनलं विदध्यात्॥
आ गुल्फकर्णात् सुमितस्य जन्तोस्तस्याष्टभागं खुडकाद्विभज्य। घोणर्जुवेधः सुरराजबस्तेर्हित्वाक्षिमात्रं त्वपरे वदन्ति॥
मणिबन्धोपरिष्टाद्वा कुर्याद्रेखात्रयं भिषक्। अङ्गुल्यन्तरितं सम्यगपचीनां निवृत्तये॥
चूर्णस्य काले पर्चलाककाकगोधाहिकूर्मप्रभवां मसीं तु। दद्याच्च तैलेन सहेङ्गुदीनां यद्वक्ष्यते श्लीपदिनां च तैलम्॥
विरेचनं धूममुपाददीत भवेच्च नित्यं यवमुद्गभोजी। कर्कारुकैर्वारुकनासिर्केलप्रियालपञ्चाङ्गुलबीजचूर्णैः॥
वातार्बुदं क्षीरघृताम्बुसिद्धैरुष्णैः सतैलैरुपनाहयेत्तु। कुर्याच्च मुख्यान्युपनाहनानि सिद्धैश्च मांसैरथ वेसवारैः॥
स्वेदं विदध्यात् कुशलस्तु नाड्या शृङ्गेण रक्तं बहुशो हरेच्च। वातघ्ननिर्यूहपयोम्लभागैः सिद्धं शताख्यं त्रिवृतं पिबेद्वा॥
स्वेदोपनाहा मृदवस्तु कार्याः पित्तार्बुदे कायविरेचनं च। विघृष्य चोदुम्बरशाकगोजीपत्रैर्भृशं क्षौद्रयुतैः प्रलिम्पेत्॥
श्लक्ष्णीकृतैः सर्जरसप्रियङ्गुपत्तङ्गरोध्राञ्जनयष्टिकाह्वैः। विस्राव्य चारग्वधागोजिसोमाः श्यामा च योज्या कुशलेन लेपे॥
श्यामागिरिह्वाञ्जनकीरसेषु द्राक्षारसे सप्तलिकारसे च। घृतं पिबेत् क्लीतकसंप्रसिद्धं पित्तार्बुदी तज्जठरी च जन्तुः॥
शुद्धस्य जन्तोः कफजेऽर्बुदे तु रक्तेऽवसिक्ते तु ततोऽर्बुदं तत्। द्रव्याणि यान्यूर्ध्वमधश्च दोषान् हरन्ति तैः कल्ककृतैः प्रदिह्यात्॥
कपोतपारावतविङ्विमिश्रैः सकांस्यनीलैः शुकलाङ्गलाख्यैः। मूत्रैस्तु काकादनिमूलमिश्रैः क्षारप्रदिग्धैरथवा प्रदिह्यात्॥
निष्पावपिण्याककुलत्थकल्कैर्मांसप्रगाढैर्दधिमस्तुयुक्तैः। लेपं विदध्यात् कृमयो यथात्र मूर्च्छन्ति मुञ्चन्त्यथ मक्षिकाश्च॥
अल्पावशिष्टे कृमिभक्षिते च लिखेत्ततोऽग्निं विदधीत पश्चात्। यदल्पमूलं त्रपुताम्रसीसपट्टैः समावेष्ट्य तदायसैर्वा॥
क्षाराग्निशस्त्राण्यसकृद्विदध्यात् प्राणानहिंसन् भिषग्प्रमत्तः। आस्फोतजातीकरवीरपत्रैः कषायमिष्टं व्रणशोधनार्थम्॥
शुद्धे च तैलं विदधीत भार्गीविडङ्गपाठात्रिफलाविपक्वम्। यदृच्छया चोपगतानि पाकं पाकक्रमेणोपचरेद्विधिज्ञः॥
मेदोर्बुदं स्विन्नमथो विदार्य विशोध्य सीव्येद्गतरक्तमाशु। ततो हरिद्रागृहधूमरोध्रपतङ्गचूर्णैः समनः शिलालैः॥
व्रणं प्रतिग्राह्य मधुप्रगाढैः करञ्जतैलं विदधीत शुद्धे। सशेषदोषाणि हि योऽर्बुदानि करोति तस्याशु पुनर्भवन्ति॥
तस्मादशेषाणि समुद्धरेत्तु हन्युः सशेषाणि यथा हि वह्निः। संस्वेद्य गण्डं पवनोत्थमादौ नाड्यानिलघ्नौषधपत्रभङ्गैः॥
अम्लैः समूत्रैर्विविधैः पयोभिरुष्णैः सतैलैः पिशितैश्च विद्वान्। विस्रावयेत् स्विन्नमतन्द्रियश्च शुद्धं व्रणं चाप्युपनाहयेत्तु॥
शणातसीमूलकशिग्रुकिण्वप्रियालमज्जानुयुतैस्तिलैस्तु। कालामृताशिग्रुपुनर्नवार्कगजादिनामाकरहाटकुष्ठैः॥
एकैषिकावृक्षकतिल्वकैश्च सुराम्लपिष्टैरसकृत् प्रदिह्यात्॥
तैलं पिबेच्चामृतवल्लिनिम्बहंसाह्वयावृक्षकपिप्पलीभिः। सिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगे॥
स्वेदोपनाहैः कफसंभवं तु संस्वेदय विस्रावणमेव कुर्यात्। ततोऽजगन्धातिविषाविशल्याविषाणिकाकुष्ठशुकाह्वयाभिः॥
पलाशभस्मोदकपेषिताभिर्दिह्यात् सुगुञ्जाभिरशीतलाभिः। दशार्धसङ्ख्यैर्लवणैश्च युक्तं तैलं पिबेन्मागधिकादिसिद्धम्॥
प्रच्छर्दनं मूर्धविरेचनं च धूमश्च वैरेचनिको हितस्तु। पाकक्रमो वापि सदा विधेयो वैद्येन पाकङ्गतयोः कथञ्चित्॥
कटुत्रिकक्षौद्रयुताः समूत्रा भक्ष्या यवान्नानि रसाश्च मौद्गाः। सशृङ्गवेराः सपटोलनिम्बा हिताय देया गलगण्डरोगे॥
मेदःसमुत्थे तु यथोपदिष्टां विध्येत् सिरां स्निग्धतनोर्नरस्य। श्यामासुधालोहपुरीषदन्तीरसाञ्जनैश्चापि हितः प्रदेहः॥
मूत्रेण वालोड्य हिताय सारं प्रातः पिबेत् सालमहीरुहाणाम्। शस्त्रेण वाआपाट्य विदार्य चैनं मेदः समुद्धृत्य हिताय सीव्येत्॥
मज्जाज्यमेदोमधुभिर्दहेद्वा दग्धे च सर्पिर्मधु चावचार्यम्। कासीसतुत्थे च ततोऽत्र देये चूर्णीकृते रोचनया समेते॥
तैलेन चाभ्यज्य हिताय दद्यात् सारोद्भवं गोमयजं च भस्म। हितश्च नित्यं त्रिफलाकषायो गाढश्च बन्धो यवभोजनं च॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0