सुश्रुतसंहिता · अध्याय 4.17
अथातो विसर्पनाडीस्तनरोगचिकित्सितं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
साध्या विसर्पास्त्रय आदितो ये न सन्निपातक्षतजौ हि साध्यौ। साध्येषु तत्पथ्यगणैर्विदध्याद्घृतानि सेकांश्च तथोपदेहान्॥
मुस्ताशताह्वासुरदारुकुष्ठवाराहिकुस्तुम्बुरुकृष्णगन्धाः। वातात्मको चोष्णगणाः प्रयोज्याः सेकेषु लेपेषु तथा शृतेषु॥
यत् पञ्चमूलं खलु कण्टकाख्यमल्पं महच्चाप्यथ वल्लिजं च। तच्चोपयोज्यं भिषजा पर्देहे सेके घृते चापि तथैव तैले॥
कसेरुशृङ्गाटकपद्मगुन्द्राः सशैवलाः सोत्पलकर्दमाश्च। वस्त्रान्तराः पित्तकृते विसर्पे लेपा विधेयाः सघृताः सुशीताः॥
ह्रीवेरलामज्जकचन्दनानि स्रोतोजमुक्तामणिगैरिकाश्च। क्षीरेण पिष्टाः सघृताः सुशीता लेपाः प्रयोज्यास्तनवः सुखाय॥
प्रपौण्डरीकं मधुकं पयस्या मञ्जिष्ठिका पद्मकचन्दने च। सुगन्धिका चेति सुखाय लेपः पैत्ते विसर्पे भिषजा प्रयोज्यः॥
न्यग्रोधवर्गैः परिषेचनं च घृतं च कुर्यात् स्वरसेन तस्य। शीतैः पयोभिश्च मधूदकैश्च सशर्करैरिक्षुरसैश्च सेकान्॥
घृतस्य गौरीमधुकारविन्दरोध्राम्बुराजादनगैरिकेषु। तथर्षभे पद्मकसारिवासु काकोलिमेदाकुमुदोत्पलेषु॥
सचन्दनायां मधुशर्करायां द्राक्षास्थिरापृश्निशताह्वयासु। कल्कीकृतासूदकमत्र दत्त्वा न्यग्रोधवर्गस्य तथा स्थिरादेः॥
गणस्य बिल्वादिकपञ्चमूल्याश्चतुर्गुणं क्षीरमथापि तद्वत्। प्रस्थं विपक्वं परिषेचनेन पैत्तीर्निहन्यात्तु विसर्पनाडीः॥
विस्फोटदुष्टव्रणशीर्षरोगान् पाकं तथाआस्यस्य निहन्ति पानात्। ग्रहार्दिते शोषिणि चापि बाले घृतं हि गौर्यादिकमेतदिष्टम्॥
अजाश्वगन्धा सरला सकाला सैकैषिका चाप्यथवाजशृङ्गी। गोमूत्रपिष्टो विहितः प्रदेहो हन्याद्विसर्पं कफजं स शीघ्रम्॥
कालानुसार्यागुरुचोचगुञ्जारास्नावचाशीतशिवेद्रपर्ण्यः। पालिन्दिमुञ्जातमहीकदम्बा हिता विसर्पेषु कफात्मकेषु॥
गणस्तु योज्यो वरुणप्रवृत्तः क्रियासु सर्वासु विचक्षणेन। संशोधनं शोणितमोक्षणं च श्रेष्ठं विसर्पेषु चिकित्सितं हि॥
सर्वांश्च पक्वान् परिशोध्य धीमान् व्रणक्रमेणोपचरेद्यथोक्तम्। नाडी त्रिदोषप्रभवा न सिध्येच्छेषाश्चतस्रः खलु यत्नसाध्याः॥
तत्रानिलोत्थामुपनाह्य पूर्वमशेषतः पूयगतिं विदार्य। तिलैरपामार्गफलैश्च पिष्ट्वा ससैन्धवैर्बन्धनमत्र कुर्यात्॥
प्रक्षालने चापि सदा वरणस्य योज्यं महद्यत् खलु पञ्चमूलम्। हिंस्रां हरिद्रां कटुकां बलां च गोजिह्विकां चापि सबिल्वमूलाम्॥
संहृत्य तैलं विपचेद्व्रणस्य संशोधनं पूरणरोपणं च। पित्तात्मिकां प्रागुपनाह्य धीमानुत्कारिकाभिः सपयोघृताभिः॥
निपात्य शस्त्रं तिलनागदन्तीयष्ट्याह्वकल्कैः परिपूरयेत्ताम्। प्रक्षालने चापि ससोमनिम्बा निशा प्रयोज्या कुशलेन नित्यम्॥
श्यामात्रिभण्डीत्रिफलासु सिद्धं हरिद्रयो रोध्रकवृक्षयोश्च। घृतं सदुग्धं व्रणतर्पणेन हन्याद्गतिं कोष्ठगतापि या स्यात्॥
नाडीं कफोत्थामुपनाह्य सम्यक् कुलत्थसिद्धार्थकशक्तुकिण्वैः। मृदूकृतामेष्य गतिं विदित्वा निपातयेच्छस्त्रमशेषकारी॥
दद्याद्व्रणे निम्बतिलान् सदन्तीन् सुराष्ट्रजासैन्धवसंप्रयुक्तान्। प्रक्षालने चापि करञ्जनिम्बजात्यक्षपीलुस्वरसाः प्रयोज्याः॥
सुवर्चिकासैन्धवचित्रकेषु निकुम्भतालीतलरूपिकासु। फलेष्वपामार्गभवेषु चैव कुर्यात् समूत्रेषु हिताय तैलम्॥
नाडीं तु शल्यप्रभवां विदार्य निर्हृत्य शल्यं प्रविशोध्य मार्गम्। संशोधयेत् क्षौद्रघृतप्रगाढैस्तिलैस्ततो रोपणमाशु कुर्यात्॥
कुम्भीकखर्जूरकपित्थबिल्ववनस्पतीनां च शलाटुवर्गैः। कृत्वा कषायं विपचेत्तु तैलमावाप्य मुस्तासरलाप्रियङ्गूः॥
सुगन्धिकामोचरसाहिपुषोअं रोध्रं विदध्यादपि धातकीं च। एतेन शल्यप्रभवा तु नाडी रोहेद्व्रणो वा सुखभाशु चैव॥
कृशदुर्बलभीरूणां नाडी मर्माश्रिता च या। क्षारसूत्रेण तां च्छिन्द्यान्न तु शस्त्रेण बुद्धिमान्॥
एषण्या गतिमन्विष्य आरसूत्रानुसारिणीम्। सूचीं निदध्याद्गत्यन्ते तहोन्नम्याशु निर्हरेत्॥
सूत्रस्यान्तं समानीय गाढं बन्धं समाचरेत्। ततः क्षारबलं वीक्ष्य सूत्रमन्यत् प्रवेशयेत्॥
क्षाराक्तं मतिमान् वैद्यो यावन्न छिद्यते गतिः। भगन्दरेऽप्येष विधिः कार्यो वैद्येन जानता॥
सूचीभिर्यववक्त्राभिराचितान् वा समन्ततः। मूले सूत्रेण बध्नीयाच्छिन्ने चोपवरेद्व्रणम्॥
या द्विव्रणीयेऽभिहितास्तु वर्त्यस्ताः सर्वनाडीषु भिषग्विदध्यात्। घोण्टाफलत्वग्लवणानि लाक्षापूगीफलं चालवणं च पत्रम्॥
स्रुह्यर्कदुग्धेन तु कल्क एष वर्तीकृतो हन्त्यचिरेण नाडीः। बिभीतकाम्रास्थिवटप्रवाला हरेणुकाशङ्खिनिबीजमस्यः॥
वाराहिकन्दश्च तथा प्रदेयो नाडीषु तैलेन च मिश्रयित्वा॥
धत्तूरजं मदनकोद्रवजं च बीजं कोशातकी शुकनसा मृगभोजिनी च। अङ्कोटबीजकुसुमं गतिषु प्रयोज्यं लाक्षोदकाहृतमलासु विकृत्य चूर्णम्॥
तथा च गोमांसमसीं हिताय कोष्ठाश्रितस्यादरतो दिशन्ति। वरीकृतं माक्षिकसंप्रयुक्तं नाडीघ्नमुक्तं लवणोत्तमं वा॥
दुष्टव्रणे यद्विहितं च तैलं तत् सर्वनाडीषु भिषग्विदध्यात्। चूर्णीकृतैरथ विमिश्रितमेभिरेव तैलं प्रयुक्तमचिरेण गतिं निहन्ति॥
एष्वेव मूत्रसहितेषु विधाय तैलं तत् साधितं गतिमपोहति सप्तरात्रात्। पिण्डीतकस्य तु वराहविभावितस्य मूलेषु कन्दशकलेषु च सौवहेषु॥
तैलं कृतं गतिमपोहति शीघ्रमेतत् कन्देषु चामरवरायुधसाह्वयेषु। भल्लातकार्कमरिचैर्लवणोत्तमेन सिद्धं विडङ्गरजनीद्वयचित्रकैश्च॥
स्यान्मार्कवस्य च रसेन निहन्ति तैलं नाडीं कफानिलकृतामपचीं व्रणांश्च। स्तन्ये गते विकृतिमाशु भिषक् तु धात्रीं पीतां घृतं परिणतेऽहनि वामयेत्तु॥
निम्बोदकेन मधुमागधिकायुतेन वान्तागतेऽहनि च मुद्गरसाशना स्यात्। एवं त्र्यहं चतुरहं षडहं वमेद्वा सर्पिः पिबेत्त्रिफलया सह संयुतं वा॥
भार्गीं पिबेत्तु पयसः परिशोधनार्थमारग्वधादिषु वरं मधुना कषायम्॥
सामान्यमेतदुपदिष्टमतो विशेषाद्दोषान् पयोनिपतितान् शमयेद्यथास्वम्। रोगं स्तनोत्थितमवेक्ष्य भिषग्विदध्याद्यद्विद्रधावभिहितं बहुशो विधानम्॥
संपच्यमानमपि तं तु विनोपनाहैः संभोजनेन खलु पाचयितुं यतेत। शीघ्रं स्तनो हि मृदुमांसतयोपनद्धः सर्वं प्रकोथमुपयात्यवदीर्यते च॥
पक्वे तु दुग्धहरिणीः परिहृत्य नाडीः कृष्णं च चूचुकयुगं विदधीत शस्त्रम्। आमे विदाहिनि तथैव गते च पाकं धात्र्याः स्तनौ सततमेव च निर्दुहीत॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0