भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 4.16

4.16.1

अथातो विद्रधीतां चिकित्सितं व्याख्यास्यामः॥

4.16.2

यथोवाच भगवान् धन्वन्तरिः॥

4.16.3

उक्त विद्रधयः षड्ये तेष्वसाध्यस्तु सर्वजः। शेषेष्वामेषु कर्तव्या त्वरितं शोफवत् क्रिया॥

4.16.4

वातघ्नमूलकल्कैस्तु घृततैलवसायुतैः। सुखोष्णो बहलो लेपः प्रयोज्यो वातविद्रधौ॥

4.16.5

सानूपौदकमांसस्तु काकोल्यादिः सतर्पणः। स्नेहाम्लसिद्धो लवणः प्रयोज्यश्चोपनाहने॥

4.16.6

वेशवारैः सकृशरैः पयोभिः पायसैस्तथा। स्वेदयेत् सततं चापि निर्हरेच्चापि शोणितम्॥

4.16.7

स चेदेवमुपक्रान्तः पाकायाभिमुखो यदि। तं पाचयित्वा शस्त्रेण भिन्द्याद्भिन्नं च शोधयेत्॥

4.16.8

पञ्चमूलकषायेण प्रक्षाल्य लवणोत्तरैः। तैलैर्भद्रादिमधुकसंयुक्तैः प्रतिपूरयेत्॥

4.16.9

वैरेचनिकयुक्तेन त्रैवृतेन विशोध्य च। पृथक्पर्ण्यादिसिद्धेन त्रैवृतेन च रोपयेत्॥

4.16.10

पैत्तिकं शर्करालाजामधुकैः सारिवायुतैः। प्रदिह्यात् क्षीरपिष्टैर्वा पयस्योशीरचन्दनैः॥

4.16.11

पाक्यैः शीतकषायैर्वा क्षीरैरिक्षुरसैस्तथा। जीवनीयघृतैर्वापि सेचयेच्छर्करायुतैः॥

4.16.12

त्रिवृद्धरीतकीनां च चूर्णं लिह्यान्मधुद्रवम्। जलौकोभिर्हरेच्चासृक् पक्वं चापठ्य बुद्धिमान्॥

4.16.13

क्षीरवृक्षकषायेण प्रक्षाल्यौदकजेन वा। तिलैः सयष्टीमधुकैः सक्षौद्रैः सर्पिषा युतैः॥

4.16.14

उपदिह्य प्रतनुना वाससा वेष्टयेद्व्रणम्। प्रपौण्डरीकमञ्जिष्ठामधुकोशीरपद्मकैः॥

4.16.15

सहरिद्रैः कृतं सर्पिः सक्षीरं व्रणरोपणम्। क्षीरशुक्लापृथक्पर्णीसमङ्गारोध्रचन्दनैः॥

4.16.16

न्यग्रोधादिप्रवालेषु तेषां त्वक्ष्वथवा कृतम्। नक्तमालस्य पत्राणि तरुणानि फलानि च॥

4.16.17

सुमनायाश्च पत्राणि पटोलारिष्टयोस्तथा। द्वे हरिद्रे मधूच्छिष्टं मधुकं तिक्तरोहिणी॥

4.16.18

प्रियङ्गुः कुशमूलं च निचुलस्य त्वगेव च। मञ्जिष्ठाचन्दनोशीरमुत्पलं सारिवे त्रिवृत्॥

4.16.19

एतेषां कार्षिकैर्भागैर्घृतप्रस्थं विपाचयेत्। दुष्टव्रणप्रशमनं नाडीव्रणविशोधनम्॥

4.16.20

सद्यश्छिन्नव्रणानां च करञ्जाद्यमिदं शुभम्। दुष्टव्रणाश्च ये केचिद्ये चोत्सृष्टक्रिया व्रणाः॥

4.16.21

नाड्यो गम्भीरिका याश्च सद्यश्च्छिन्नास्तथैव च। अग्निक्षारकृताश्चैव ये व्रणा दारुणा अपि॥

4.16.22

करञ्जाद्येन हविषा प्रशाम्यन्ति न संशयः। इष्टकासिकतालोष्टगोशकृत्तुषपांशुभिः॥

4.16.23

मूत्रैरुष्णैश्च सततं स्वेदयेच्छ्लष्मविद्रधिम्। कषायपानैर्वमनैरालेपैरुपनाहनैः॥

4.16.24

हरेद्दोषानभीक्ष्णं चाप्यलाब्वासृक् तथैव च। आरग्वधकषायेण पक्वं चापाठ्य धावयेत्॥

4.16.25

हरिद्रात्रिवृताशक्तुतिलैर्मधुसमायुतैः। पूरयित्वा व्रणं सम्यग्बध्नीयात् कीर्तितं यथा॥

4.16.26

ततः कुलत्थिकादन्तीत्रिवृच्छ्यामार्कतिल्वकैः। कुर्यात्तैलं सगोमूत्रं हितं तत्र ससैन्धवम्॥

4.16.27

पित्तविद्रधिवत् सर्वाः क्रिया निरवशेषतः। विद्रध्योः कुशलः कुर्याद्रक्तागन्तुनिमित्तयोः॥

4.16.28

वरुणादिगणक्वाथमपक्वेऽभ्यन्तरोत्थिते। ऊषकादिप्रतीवापं पिबेत् सुखकरं नरः॥

4.16.29

अनयोर्वर्गयोः सिद्धं सर्पिर्वैरेचनेन च। अचिराद्विद्रधिं हन्ति प्रातः प्रातर्निषेवितम्॥

4.16.30

एभिरेव गणैश्चापि संसिद्धं स्नेहसंयुतम्। कार्यमास्थापनं क्षिप्रं तथैवाप्यनुवासनम्॥

4.16.31

पानालेपनभोज्येषु मधुशिग्रुद्रुमोऽपि वा। दत्तावापो यथादोषमपक्वं हन्ति विद्रधिम्॥

4.16.32

तोयधान्याम्लमूत्रैस्तु पेयो वापि सुरादिभिः। यथादोषगणक्वाथैः पिबेद्वापि शिलाजतु॥

4.16.33

प्रधानं गुग्गुलं चापि शुण्ठीं च सुरदारु च। स्नेहोपनाहौ कुर्याच्च सदा चाप्यनुलोमनम्॥

4.16.34

यथोद्दिष्टां सिरां विध्येत् कफजे विद्रधौ भिषक्। रक्तपित्तानिलोत्थेषु केचिद्बाहौ वदन्ति तु॥

4.16.35

पक्वं वा बहिरुन्नद्धं भित्त्वा व्रणवदाचरेत्। स्रुतेषूर्ध्वमधो वापि मैरेयाम्लसुरासवैः॥

4.16.36

पेयो वरुणकादिस्तु मधुशिग्रुद्रुमोऽपि वा। शिग्रुमूलजले सिद्धं ससिद्धार्थकमोदनम्॥

4.16.37

यवकोलकुलत्थानां यूषैर्भुञ्जीत मानवः। प्रातः प्रातश्च सेवेत मात्रया तैल्वकं घृतम्॥

4.16.38

त्रिवृतादिगणक्वाथसिद्धं वाप्युपशान्तये। नोपगच्छेद्यथापाकं प्रयतेत तथा भिषक्॥

4.16.39

पर्यागते विद्रधौ तु सिद्धिर्नैकान्तिकी स्मृता। प्रत्याख्याय तु कुर्वीत मज्जजाते तु विद्रधौ॥

4.16.40

स्नेहस्वेदोपपन्नानां कुर्याद्रक्तावसेचन। विद्रध्युक्तां क्रियां कुर्यात् पक्वे वास्थि तु भेदयेत्॥

4.16.41

निःशल्यमथ विज्ञाय कर्तव्यं व्रणशोधनम्। धावेत्तिक्तकषायेण तिक्तं सर्पिस्तथा हितम्॥

4.16.42

यदि मज्जपरिस्रावो न निवर्तेत देहिनः। कुर्यात् संशोधनीयानि कषायादीनि बुद्धिमान्॥

4.16.43

प्रियङ्गुधातकीरोध्रकट्फलं तिनिसैन्धवम्। एतैस्तैलं विपक्तव्यं विद्रधिव्रणरोपणम्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc