भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 4.15

4.15.1

अथातो मूढगर्भचिकित्सितं व्याख्यास्यामः॥

4.15.2

यथोवाच भगवान् धन्वन्तरिः॥

4.15.3

नातोऽन्यत् कष्टतममस्ति यथा मूढगर्भशल्योद्धरणम्; अत्र हि योनियकृत्प्लीहान्त्रविवरगर्भाशयानां मध्ये कर्म कर्तव्यं स्पर्शेन, उत्कर्षणापकर्षणस्थानापवर्तनोत्कर्तनभेदनच्छेदनपीडनर्जूकरणदारणानि चैकहस्तेन गर्भं गर्भिणीं चाहिंसता, तस्मादधिपतिमापृच्छ्य परं च यत्नमास्थायोपक्रमेत॥

4.15.4

तत्र समासेनाष्टविधा मूढगर्भगतिरुद्दिष्टा; स्वभावगता अपि त्रयः सङ्गा भवन्ति शिरसो वैगुण्यादंसयोर्जघनस्य वा॥

4.15.5

जीवति तु गर्भे सूतिकागर्भनिर्हरणे प्रयतेत। निर्हर्तुमशक्ये च्यावनान् मन्त्रानुपशृणुयात्; तान् वक्ष्यामः॥

4.15.6

इहामृतं च सोमश्च चित्रभानुश्च भामिनि। उच्चैःश्रवाश्च तुरगो मन्दिरे निवसन्तु ते॥

4.15.7

इदममृतमपां समुद्धृतं वै तव लघु गर्भमिमं प्रमुञ्चतु स्त्रि। तदनलपवनार्कवासवास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिम्॥

4.15.8

मुक्ताः पशोर्विपाशाश्च मुक्ताः सूर्येण रश्मयः। मुक्तः सर्वभयाद्गर्भ एह्येहि विरमावितः॥

4.15.9

औषधानि च विदध्याद्यथोक्तानि। मृते चोत्तानाया आभुग्नसक्थ्या वस्त्राधारकोन्नमितकठ्या धन्वननगवृत्तिकाशाल्मलीमृत्स्नघृताभ्यां म्रक्षयित्वा हस्तं योनौ प्रवेश्य गर्भमुपहरेत्। तत्र सक्थिभ्यामागतमनुलोममेवाञ्छेत्, एकसक्थ्ना प्रतिपन्नस्येतरसक्थि प्रसार्यापहरेत्, स्फिग्देशेनागतस्य स्फिग्देशं प्रपीड्योर्ध्वमुत्क्षिप्य सक्थिनी प्रसार्यापहरेत्, तिर्यगागतस्य परिघस्येव तिरश्चीनस्य पश्चादर्धमूर्ध्वमुत्क्षिप्य पूर्वार्धमपत्यपथं प्रत्यार्जवमानीयापहरेत्, पार्श्वापवृत्तशिरसमंसं प्रपीड्योर्ध्वमुत्क्षिप्य शिरोऽपत्यपथमानीयापहरेत्, बाहुद्वयप्रतिपन्नस्योर्ध्वमुत्पीड्यांसौ शिरोऽनुलोममानीयापहरेत्, द्वावन्त्यावसाध्यौ मूढगर्भौ, एवमशक्ये शस्त्रमवचारयेत्॥

4.15.10

सचेतनं च शस्त्रेण न कथञ्चन दारयेत्। दार्यमाणो हि जननीमात्मानं चैव घातयेत्॥

4.15.11

अविषह्ये विकारे तु श्रेयो गर्भस्य पातनम्। न गर्भिण्या विपर्यासस्तस्मात्प्राप्तं न हापयेत्॥

4.15.12

ततः स्त्रियमाश्वास्य मण्डलाग्रेणाङ्गुलीशस्त्रेण वा शिरो विदार्य, शिरःकपालान्याहृत्य, शङ्कुना गृहीत्वोरसि कक्षायां वापहरेत्; अभिन्नशिरसमक्षिकूटे गण्डे वा, अंससंसक्तस्यांसदेशे बाहू छित्त्वा, दृतिमिवाततं वातपूर्णोदरं वा विदार्य निरस्यान्त्राणि शिथिलीभूतमाहरेत्, जघनसक्तस्य वा जघनकपालानीति॥

4.15.13

किंबहुना यद्यदङ्गं हि गर्भस्य तस्य सज्जति तद्भिषक्। सम्यग्विनिर्हरेच्छित्त्वा रक्षेन्नारीं च यत्नतः॥

4.15.14

गर्भस्य गतयश्चित्रा जायन्तेऽनिलकोपतः। तत्रानल्पमतिर्वैद्यो वर्तेत विधिपूर्वकम्॥

4.15.15

नोपेक्षेत मृतं गर्भं मुहूर्तमपि पण्डितः। स ह्याशु जननीं हन्ति निरुच्छ्वासं पशुं यथा॥

4.15.16

मण्डलाग्रेण कर्तव्यं छेद्यमन्तर्विजानता। वृद्धिपत्रं हि तीक्ष्णाग्रं नारीं हिंस्यात् कदाचन॥

4.15.17

अथापतन्तीमपरां पातयेत् पूर्ववद्भिषक्। हस्तेनापहरेद्वापि पार्श्वभ्यां परिपीड्य वा॥

4.15.18

धुनुयाच्च मुहुर्नारीं पीडयेद्वांसपिण्डिकाम्। तैलाक्तयोनेरेवं तां पातयेन्मतिमान् भिषक्॥

4.15.19

एवं निर्हृतशल्यां तु सिञ्चेदुष्णेन वारिणा। ततोऽभ्यक्तशरीराया योनौ स्नेहं निधापयेत्॥

4.15.20

एवं मृद्वी भवेद्योनिस्तच्छूलं चोपशाम्यति। कृष्णातन्मूलशुण्ठ्येलाहिङ्गुभार्गीः सदीप्यकाः॥

4.15.21

वचामतिविषां रास्नां चव्यं संचूर्ण्य पाययेत्। स्नेहेन दोषस्यन्दार्थं वेदनोपशमाय च॥

4.15.22

क्वाथं चैषां तथा कल्कं चूर्णं वा स्नेहवर्जितम्। शाकत्वग्घिङ्ग्वतिविषापाठाकटुकरोहिणीः॥

4.15.23

तथा तेजोवतीं चापि पाययेत् पूर्ववद्भिषक्। त्रिरात्रं पञ्चसप्ताहं ततः स्नेहं पुनः पिबेत्॥

4.15.24

पाययेतासवं नक्तमरिष्टं वा सुसंस्कृतम्। शिरीषककुभाभ्यां च तोयमाचमने हितम्॥

4.15.25

उपद्रवाश्च येऽन्ये स्युस्तान् यथास्वमुपाचरेत्। सर्वतः परिशुद्धा च स्निग्धपथ्याल्पभोजना॥

4.15.26

स्वेदाभ्यङ्गपरा नित्यं भवेत् क्रोधविवर्जिता। पयो वातहरैः सिद्धं दशाहं भोजने हितम्॥

4.15.27

रसं दशाहं शेषे तु यथायोगमुपाचरेत्। व्युपद्रवां विशुद्धां च ज्ञात्वा च वरवर्णिनीम्॥

4.15.28

ऊर्ध्वं चतुर्भ्यो मासेभ्यो विसृजेत् परिहारतः। योनिसन्तर्पणेऽभ्यङ्गे पाने बस्तिषु भोजने॥

4.15.29

बलातैलमिदं चास्यै दद्यादनिलवारणम्। बलामूलकषायस्य दशमूलीशृतस्य च॥

4.15.30

यवकोलकुलत्थानां क्वाथस्य पयसस्तथा। अष्टावष्टौ शुभा भागास्तैलादेकस्तदेकतः॥

4.15.31

पचेदावाप्य मधुरं गणं सैन्धवसंयुतम्। तथागुरुं सर्जरसं सरलं देवदारु च॥

4.15.32

मञ्जिष्ठां चन्दनं कुष्ठमेलां कालानुसारिवाम्। मांसीं शैलेयकं पत्रं तगरं सारिवां वचाम्॥

4.15.33

शतावरीमश्वगन्धां शतपुष्पां पुनर्नवाम्। तत् साधुसिद्धं सौवर्णे राजते मृन्मयेऽपि वा॥

4.15.34

प्रक्षिप्य कलशे सम्यक् स्वनुगुप्तं निधापयेत्। बलातैलमिदं ख्यातं सर्ववातविकारनुत्॥

4.15.35

यथाबलमतो मात्रां सूतिकायै प्रदापयेत्। या च गर्भार्थिनी नारी क्षीणशुक्रश्च यः पुमान्॥

4.15.36

वातक्षीणे मर्महते मथितेऽभिहते तथा। भग्ने श्रमाभिपन्ने च सर्वथैवोपयुज्यते॥

4.15.37

एतदाक्षेपकादीन् वै वातव्याधीनपोहति। हिक्कां कासमधीमन्थं गुल्मं श्वासं च दुस्तरम्॥

4.15.38

षण्मासानुपयुज्यैतदन्त्रवृद्धिमपोहति। प्रत्यग्रधातुः पुरुषो भवेच्च स्थिरयौवनः॥

4.15.39

राज्ञामेतद्धि कर्तव्यं राजमात्राश्च ये नराः। सुखिनः सुकुमाराश्च धनिनश्चापि ये नराः॥

4.15.40

बलाकषायपीतेभ्यस्तिलेभ्यो वाप्यनेकशः। तैलमुत्पाद्य तत्क्वाथशतपाकं कृतं शुभम्॥

4.15.41

निवाते निभृतागारे प्रयुञ्जीत यथाबलम्। जीर्णेऽस्मिन् पयसा स्निग्धमश्नीयात् षष्टिकौदनम्॥

4.15.42

अनेन विधिना द्रोणमुपयुज्यान्नमीरितम्। भुञ्जीत द्विगुणं कालं बलवर्णान्वितस्ततः॥

4.15.43

सर्वपापैर्विनिर्मुक्तः शतायुः पुरुषो भवेत्। शतं शतं तथोत्कर्षो द्रोणे द्रोणे प्रकीर्तितः॥

4.15.44

बलाकल्पेनातिबलागुडूच्यादित्यपर्णिषु। सैरेयके वीरतरौ शतावर्यां त्रिकण्टके॥

4.15.45

तैलानि मधुके कुर्यात् प्रसारिण्यां च बुद्धिमान्। नीलोत्पलं वरीमूलं गव्ये क्षीरे विपाचयेत्॥

4.15.46

शतपाकं ततस्तेन तिलतैलं पचेद्भिषक्। बलातैलस्य कल्कांस्तु सुपिष्टांस्तत्र दापयेत्॥

4.15.47

सर्वेषामेव जानीयादुपयोगं चिकित्सकः। बलातैलवदेतेषां गुणांश्चैव विशेषतः॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc